न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 422, कुल 608 में से
संदर्भ में पढ़ें३६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां
तथाप्याकाङ्क्षादिमद्भिः पदैः स्मारितत्वाद् गामभ्याजतिपदार्थवदिति स्यात् ।
न च विशेषासिद्धिर्दोषः, संसर्गस्य संसृज्यमानविशेषादेव विशिष्टत्वात् । यद्वा-
एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्त्वे सति तत्स्मारक-
त्वात् गामभ्याजेति पदवत् । न चैवमर्थासिद्धिः । ज्ञानावच्छेदकतयैव तत्सिद्धेः ।
तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतीतिलम्भ इति ॥
अत्रोच्यते -
अनैकान्तः परिच्छेदे सम्भवे च न निश्चयः ॥
आकाङ्क्षा सत्तया हेतुर्योग्यासत्तिर्निबन्धना ॥ १३ ॥
बोधनी ।
नसंभव इत्याह तथापि इति । नन्वेतावता संसर्गमात्रं सिद्ध्येन्न द्विशेष इत्यत्राह न च इति । पद-
स्मारितान् पदार्थविशेषान् पक्षीकृत्य तेषां संसर्गे साध्यमाने तद्विशेष एव सिध्यतीति । यद्वा इति ।
तथा ज्ञानपूर्वकत्वस्य साध्यत्वान्न साध्याभावः, न चानैकान्तिकता आकाङ्क्षादिमत्त्वेन विशेषात् ।
तदितिपदार्थपरामर्श इति । नन्वेवं कुतः संसर्गवत्ता सिद्ध्येत् कुतो वा तद्विशेष इत्यत्राह न
चैवम् इति ।
तत्र प्रथमप्रयोगे दोषमाह अनैकान्त इति । यद्यत्र संसर्गवन्त एवेति परिच्छेदो नियमः
प्रकाशः ।
तथापीति ॥ अत्रैते पदार्थास्तात्पर्यविषयमिथःसंसर्गवन्त इति साध्यमतो नानभिमतसंस-
र्गसिद्धा अर्थान्तरम् । नन्वेवं संसर्गमात्रसिद्धावपि व्यवहारौपयिकस्तद्विशेषो न सिद्ध्येदत आह
न चेति ॥ संसृज्यमानपदार्थव्यापकत्वेनावृहीतस्यापि संसर्गविशेषस्य पक्षधर्मताबलात् सिद्धिरि-
त्यर्थः । ननु संसर्गज्ञानपूर्वकत्वसिद्धावपि कुतो वाक्यार्थसिद्धिरित्यत आह न चैवमिति ॥ संसर्ग-
विशेषसिद्ध्यर्थमाह तस्य चेति ॥ तस्य संसर्गस्य पदार्थविशेषोपहितस्यैव ज्ञानावच्छेदकत्वाज्ज्ञा-
नज्ञानस्य च तद्विषयविषयकत्वात् संसर्गे च सम्बन्धिन एव विशेषत्वादत्रापि पक्षधर्मताबलाद्व्यापक-
त्वेनाज्ञातस्यापि संसर्गविशेषस्य सिद्धिरित्यर्थः ॥
नन्वेवं भ्रान्तिज्ञोऽपि भ्रान्तः स्यात् , न चेष्टापत्तिः, ईश्वरस्याऽपि भ्रान्तत्वापत्तेः, भ्रान्तस्येव
भ्रान्तिज्ञस्यापि भ्रमात् प्रवृत्त्यापत्तेश्च । अत्राहुः । न भ्रमविषयविषयकत्वेन भ्रमत्वं, किन्तु विशे-
ष्यावृत्तिप्रकारकत्वेन । न च शुक्तौ रजतत्वप्रकारकज्ञानवानयमित्यत्र विशेष्यावृत्तिः प्रकारः, रजत-
त्वप्रकारकत्वस्य भ्रमे सत्त्वात् । न च प्रतारकवाक्ये व्यभिचारः । तत्र योग्यताविरहात्, तस्या
प्याहार्यसंसर्गज्ञानवत्त्वाच्च । तथापि संसर्गज्ञानं विना शुकस्यान्यस्य वा वाक्ये भ्रान्तप्रतारकवाक्ये
च व्यभिचारः । कथञ्च तत्र संसर्गप्रमा ? वक्तृज्ञानानुमानासम्भवादिति चेन्न । तत्र वेदवदीश्वरसंस-
र्गज्ञानपूर्वकत्वादित्युक्तत्वात् ॥
अनैकान्त इति ॥ परिच्छेदेऽवधारणे । द्वितीयं दूषयति ॥ आकाङ्क्षेति ॥ आकाङ्क्षायाः
प्रकाशिका ।
त्यादौ योग्यताया अन्वयप्रयोजकरूपवत्त्वात्मिकायाः सत्त्वादिति भावः । प्रमापकत्वं प्रमोपहित-
त्वम् । तथा चानुपजातफले व्यभिचार इत्यन्ये । निराकाङ्क्ष इति । तत्र तात्पर्यघटितसाध्या-
मकरन्दः ।
ज्ञापकत्वेऽपि व्यभिचारः, तथापि दूषणान्तरस्यैव सम्भवादयं नोद्भावित इति भावः । निराकाङ्क्ष