सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 410, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 410

३९८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां
अस्ति तर्हि सादृश्यादिज्ञानकाले विस्फारितस्य चक्षुषो व्यापारः । न । उप-
लब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यतदर्थस्मृतिमत्तः कालान्तरेऽप्यनुसन्धा-
नबलात् समयपरिच्छेदोपपत्तेः ॥ १० ॥
ननु च वाक्यादेवानेन समयः परिच्छिन्नः-गोसदृशस्य गवयशब्दः संज्ञेति,
केवलमिदानीं प्रत्यभिजानात्ययमसाविति । प्रयोगाद्वाऽनुमितः-यो यत्रासति वृत्त्य-
न्तरे वृद्धैः प्रयुज्यते स तस्य वाचको यथा गोशब्द एव गोः, प्रयुज्यते चायं
गोसदृशे, इति किमुपमानेनेति । न-
बोधनी ।
कारणमिन्द्रियादि तदनुवृत्तौ जायमानं ज्ञानं तस्य प्रमाणस्य फलं भवति, तन्निवृत्तौ तु ततो बहिर्भव-
तीति । यदीन्द्रियव्यापारानुवृत्तावुत्पद्यमानं प्रत्यक्षफलं तर्हि समयं परिच्छिन्दतः सादृश्यज्ञानस्य काले-
ऽप्यस्ति चक्षुर्व्यापार इति समयपरिच्छेदोऽपि प्रत्यक्षफलं स्यादित्याह अस्ति तर्हि इति । न-
इति । न खलु तत्र सन्नपि चक्षुर्व्यापारः कारणं व्यभिचाराद्-भवति हि वाक्यार्थस्मरणा-
भावेन केवलं सादृश्यविशिष्टतया पिण्डमनुभूतवतः पश्चादुपरतेन्द्रियव्यापारस्यैव वाक्यार्थस्मरणे सति
गोसदृशपिण्डस्मरणादेव समयपरिच्छेदः, यो गवयपदवाच्यः स गोसदृश इति ॥ १० ॥
अत्र जरन्नैयायिक आह ननु इति । नगरस्थेनैव वाक्यमात्रात्समयः परिच्छिन्नः, वनस्थेन
तु केवलं प्रत्यभिज्ञायते सोऽयं गवयशब्दवाच्य इति, तेन शब्दप्रमाणक एव समय इति । आधु-
निकस्त्वाह प्रयोगाद्वा इति । गोसदृशो गवय इत्यत्र गोसदृशे वस्तुनि गवयशब्दप्रयोगमुपलभ्य
तस्मादेव हेतोर्गोसदृशस्य गवयवाच्यत्वमनुमीयत इति । तदेव दर्शयति यो यत्र इति । गौण-
लाक्षणिकप्रयोगे व्यभिचारो मा भूदित्युक्तं असति वृत्त्यन्तरे इति । पक्षद्वयमप्युपसंहरति तत्-
किम्(१)इति ।
प्रकाशः ।
यत्सन्निकर्षादेरवस्थितिस्तत्र तत्फलस्यावान्तरव्यापारता, यत्र तु तस्यानवस्थितिस्तत्र प्रमाणबहिर्भूत-
त्वमित्यर्थः । इममेव विशेषमादाय शङ्कते अस्तीति ॥ उक्तयुक्त्या परिहरति उपलब्धेति ॥
इन्द्रियव्यापारोपरतौ लिङ्गशब्दानुसन्धानस्येव वाक्यार्थस्मृतिसचिवस्य सादृश्यज्ञानस्यापि मानान्तर-
त्वादित्यर्थः ॥ १० ॥
निमित्तम्-प्रवृत्तिनिमित्तम्(२) ॥ समय इति ॥ गवयत्वप्रवृत्तिनिमित्तकगवयपदवाच्योऽयं पिण्ड
इत्याकार इत्यर्थः । गवयपदस्यागृहीतसमयत्वेनाप्रत्यायकत्वादुगोसदृशपदस्य च सादृश्यमात्रबोध-
कत्वादिति भावः ॥
अयमसाविति ॥ यो गोसदृशो धर्मी गवयशब्दवाच्यतयाऽवगतस्तं साक्षात्करोमीति प्रत्यभि-
जानातीत्यर्थः ॥
प्रकाशिका ।
कर्म्मणि सङ्केतः पूर्ववाक्यादेव गृहीत इत्यत आह । गवयत्वप्रवृत्तिनिमित्तकेति । ननु गवय-
पदादेव गवयत्वप्रतीतिरस्त्वित्यत आह गवयपदस्येति । तर्केति लाघवेत्यर्थः ॥ १० ॥
मकरन्दः ।
धर्मिणि समयस्य पूर्वं गृहीतत्वादाह गवयत्वप्रवृत्तिनिमित्तकेति । ननु गवयपदादेव गव-
यत्वं प्रतीत्य तद्विशिष्टे समयं ग्रहीष्यत्यत आह गवयपदस्येति ।
( १ ) एतन्मतेनात्र 'तत्किमुपमानेति' मूले पाठो द्रष्टव्यः ।
( २ ) एतद्व्याख्यानमूलं 'निमित्त'मिति पदं मूले नोपलभ्यत इति द्रष्टव्यम् ।