न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 409, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] उपमानस्य प्रमाणान्तरत्वखननम् । ३७७
एवं प्राप्ते अभिधीयते—
सम्बन्धस्य परिच्छेदः संज्ञायाः संज्ञिना सह ॥
प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥ १० ॥
यथा गौस्तथा गवय इति श्रुतातिदेशवाक्यस्य गोसदृशं पिण्डमनुभवतः
स्मरतश्च वाक्यार्थमयमसौ गवयशब्दवाच्य इति भवति मतिः । सेयं न तावद्
वाक्यमात्रफलम् , अनुपलब्धपिण्डस्यापि प्रसङ्गात् । नापि प्रत्यक्षफलम् , अश्रुत-
वाक्यस्यापि प्रसङ्गात् । नापि समाहारफलम् , वाक्यप्रत्यक्षयोर्भिन्नकालत्वात् ।
वाक्यतदर्थयोः स्मृतिद्वारोपनीतावपि गवयपिण्डसम्बन्धेनापीन्द्रियेण तद्गतसादृ-
श्यानुपलम्भे समयपरिच्छेदासिद्धेः । फलसमाहारे तु तदन्तर्भावे अनुमानादेरपि
प्रत्यक्षत्वप्रसङ्गः । तत् किं तत्फलस्य तत्प्रमाणबहिर्भाव एव ?, अन्तर्भावे वा
कियतो सीमा ? । तत्तदसाधारणेन्द्रियादिसाहित्यम् ।
बोधनी ।
अथ सिद्धान्ती प्रमाणान्तरत्वमङ्गीकृत्योपमानस्य नियतविषयत्वादबाधकत्वं वक्तुमुपक्रमते
एवम्—इति । गवयादिसंज्ञायाः संज्ञिना गवयादिना सह संज्ञासंज्ञिलक्षणस्य संबन्धस्य प्रमिति-
रूपमानस्यैव फलं प्रत्यभिज्ञानादिना तदसिद्धेरिति संज्ञासंज्ञिसंबन्धप्रतीतिस्तावदस्तीत्याह यथा गौ-
रिति । तस्याः प्रत्यक्षादिभिरसाध्यत्वमाह सेयम्-इति । ननु नगरस्थस्य गवये नेन्द्रियसन्निकर्ष इति
भिन्नकालतया तयोः स्वरूपतः समाहाराभावेऽपीन्द्रियसन्निकर्षसमये वाक्यतदर्थयोः स्मर्यमाणत्वेन
समाहारसंभवात्तत्फलमेवास्त्वित्यत्राह वाक्यतदर्थयोरिति । न ह्यसत्येवेन्द्रियसंबन्धे उत्पद्यमानं
प्रत्यक्षेऽन्तर्भवतीति । ननु सादृश्योपलम्भे तावदुत्पद्यते, तच्च प्रत्यक्षफलं, तेन वाक्यफलस्य वाक्यार्थ-
स्मरणस्य प्रत्यक्षफलस्य सादृश्यज्ञानस्य च समाहारादुत्पद्यमानः समयपरिच्छेदस्तयोरेवान्तर्भवेदित्य-
त्राह फलसमाहार इति । अनुमेयादिज्ञानमपि हि प्रत्यक्षफललिङ्गादिज्ञानहेतुकमेवेति । ननु यदि
समयं परिच्छिन्दतः सादृश्यज्ञानस्य समाहारादुत्पद्यमानप्रत्यक्षफलस्यापि प्रत्यक्षेऽनन्तर्भावः, तर्हि विक-
ल्पजनकं निर्विकल्पकमपि प्रत्यक्षे नान्तर्भवेत् अनुमानादिकमपि तथा स्यादिति नियमहेतुर्वाच्य
इति पृच्छति तत्किम् इति । नियमहेतुमासाक्षात्कारादिरूपस्य यस्य ज्ञानविशेषस्य यदसाधारणं
प्रकाशः।
उपमानफलं विदुरित्यनयोर्मध्ये, इतरित्याहार्य इति सम्प्रदायविदः । ननु प्रत्येकं व्यभिचारेऽपि
समुदितयोस्तयोः फलं स्यादित्यत आह नापीति ॥ नन्विन्द्रियसम्बद्धे गवये वाक्यतदर्थस्मृतौ
च सत्यां प्रमाणसमाहारः स्यादित्यत आह वाक्येति ॥ गवयगतगोसादृश्यावेदने समयपरिच्छेदो
न भवत्येवेत्यर्थः । फलसमाहारमाशङ्क्य निराकरोति फलेति ॥ प्रत्यक्षफलं हि प्रायशो लिङ्ग-
परामर्शोऽनुमितिकरणम् , श्रौत्रानुभवजनितपदज्ञानञ्च वाक्यार्थप्रमायां प्रत्यक्षं स्यादित्यर्थः । ननु
तत्फलस्य तदनन्तर्भावे विकल्पोऽप्यालोचनफलं प्रत्यक्षं न स्यात्, अन्तर्भावे वा लिङ्गसादृश्या-
ध्यक्षयोः कः प्रक्षेप इति पृच्छति तत् किमिति ॥ उत्तरं-तत्तदिति ॥ यत्र व्यापारिण इन्द्रि-
प्रकाशिका ।
फलमित्यस्य प्रथमान्तत्वे विदुरिति कर्त्राख्यातानुपपत्तिः, द्वितीयान्तत्वे च परिच्छेद इत्य-
नेन प्रथमान्तत्वेन सामानाधिकरण्यानुपपत्तिरत आह इतरितीति । तथा चेति विदुरित्यन्वये इति-
किमित्याकाङ्क्षायां शुद्धप्रातिपदिकोपस्थितस्य परिच्छेदः, फलमित्यस्यानवय इति भावः । सम्प्र-
दाय विद इति। इदमरुचिविभावनम् , तद्वीजन्तु फलमिति द्वितीयान्तमेव, किन्तदिति शुद्धप्रातिपदि-
कार्यकाङ्क्षायां परिच्छेद इत्यर्थेति वाक्यार्थ एव वा कर्मेति ॥ १० ॥
४८ न्या० कु०