सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 285, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 285

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २५१
आकाश एव विहितो भवति । प्रतिषिध्यमानश्च तत्रैव प्रतिषिद्धो भवति । शरीरे
सुखादिवदिति चेन्न । तत्र सोपाधावात्मनि प्रत्यक्षसिद्धे सुखादिनिषेधस्यापि प्रत्यक्ष-
सिद्धत्वात्। न चैवमिहापि, तदुपहितस्य नभसोऽप्रत्यक्षत्वात्। उपाधयस्तावत् प्रत्यक्षा
इति चेन्न । तैरभावानिरूपणात् । निरूपणे वा प्रत्यक्षेणापि ग्रहणप्रसङ्गात्।
बोधनी ।
देशानुरोधित्वात्, तेन शब्दवत् आकाशदेशस्योपाधिषु विधीयमानो निषिध्यमानोऽपि शब्दस्त-
दुपहित आकाश एव विहितो निषिद्धोऽपि भवति । यथा शरीरावयवे विधीयमाना निषिध्यमाना
वा सुखादयस्तदुपहित आत्मनि तथात्वं लभन्ते, तस्माद् भेर्यादिषु निषिध्यमानः शब्दध्वंस आकाश
एव निरूपितो भवतीति। न इति । न हि तत्र शरीरे निषिध्यमानानां सुखादीनामर्यादात्मनि
निषेधः सिध्यति उपहितस्याऽऽत्मनः प्रत्यक्षसिद्धत्वेन तदाश्रयस्य सुखाद्यभावस्य प्रत्यक्षत्वोपपत्तेः,
न चेयं विधा शब्दप्रध्वंसे संभवतीति । उपहितस्य नभसोऽप्रत्यक्षत्वेन तदाश्रयस्य शब्दप्रध्वंसस्या-
प्यप्रत्यक्षत्वादिति । ननूपहितस्याप्रत्यक्षत्वेऽप्युपाधयस्तावद् भेर्यादयः प्रत्यक्षाः ततस्तैरेव शब्दप्रध्वं-
सो निरूप्यत इत्याशयेनाह-उपाधयः इति । न इति । आश्रयनिरूप्यत्वादभावस्य तेषां चाना-
श्रयत्वादिति भावः । अनाश्रयैरपि तैर्निरूपणे वा को दोषस्तत्राह-निरूपणे वा इति ।'
प्रकाशः।
तौ न भवत इति नायं नियमः, तथापि यदवच्छेदेन यद् वर्त्तते तत्रावच्छेदके विधिनिषेधधीर-
वच्छिन्नविधिनिषेधविषयेति नियम इति भावः। उपनीतशरीरावच्छेदेनाऽऽत्मनि योग्ये, सुखा-
यभावग्रहेऽपि नाकाशे शब्दाभावग्रहः, उपाधिमतोऽपि तस्यायोग्यत्वादिति परिहरति तत्रेति ।
तैरिति । वीणादयः प्रत्यक्षा अपि न शब्दसमवायिन इति न तैः शब्दध्वंसो निरूप्यते इत्यर्थः ।
निरूपणे वेति । तथा च विवादाभावो दृश्याधारत्वदृश्यप्रतियोगित्वयोः संभवादिति भावः ।
प्रकाशिका ।
धिकरणत्वप्रतीत्या उपाधेर्वीणादेरपि तदधिकरणत्वमिति न ध्वंससत्त्वे साध्ये बाध इति भावः । न-
चैवं प्रत्यक्षमुपेक्ष्य किमित्यनुमानधारणम् ? अधिकरणयोग्यतया च शब्दध्वंसस्याप्रत्यक्षत्वं पूर्वं-
स्वयमेवोक्तं तद्विरोधश्चेति वाच्यम् । वीणादौ शब्दध्वंसो वर्त्तत एव, गृह्यते चेति ध्वंसः प्रतियोगि-
समवायिप्रत्यक्षेणैवेति तदाशयात् । एवञ्च मूले आकाश एवेत्येवकारो भिन्नक्रमः, तेष्वेवेत्येवं
योजनीयः, मूले च 'विधीयमान' इति दृष्टान्तार्थम् । उक्तक्रमेण मूलव्याख्याने तत्रावच्छेदक
इत्यादिमूलासङ्गतिं परिहरति । तत्रावच्छेदके इति । अवच्छेदके विधिनिषेधसत्त्व एव विशिष्टे
विधिनिषेधधीरित्यर्थः । उपाधिमतोऽपीति । उपाधौ विधिनिषेधप्रत्यक्षे सत्येवोपहित उपाधि-
मति विधिनिषेधप्रत्यक्षमित्येतावन्मात्रं स्वीक्रियते, प्रतीत्यनुरोधात् , न चैतावता विशिष्टे प्रत्य-
क्षानुरोधेन विशेषणादौ शब्दध्वंससत्त्वं विशेष्यायोग्यतया विशिष्टप्रत्यक्षाभावाद् दृष्टान्तस्थले
तत्सत्त्वास्तीति भावः । वीणादय इति । उक्तक्रमेण तेषां शब्दध्वंसाधिकरणत्वे मानाभावात्
मकरन्दः ।
देशत्वमेव साधयितुमर्ह मित्याकाश एव विहितो भवतीति मूलमसङ्गतं, तथाप्यवच्छेदकतया तस्या
तदधिकरणत्वं तच्चावच्छेदकसापेक्षमिति विशिष्टदेशत्वसाधनमिति भावः । उपाधिमत्ताऽपीति ।
टिप्पणी ।
नियतोपलम्भविषयतायाः प्रतियोगिव्यधिकरणाभावाभाववत्त्वं वा। अस्ति चेदं जातियक्त्योः, व्यक्तिं
विना जातिभानानुपपत्तेरिति । नियमो हि व्यत्त्यपेक्षया जात्यपेक्षया वा, आद्ये यद्घटव्यक्तैनियमेन
गन्ध उपलभ्यमाने उपलव्धिस्रत्र गन्धं विनापि चक्षुषोपलभ्यमाने व्यभिचारः । अन्त्येऽसिद्धिरुद-
वस्तैवेत्याह अत्रापीति। शङ्कते इति। उपाधौ विधिनिषेधसत्व एवोपाधिमति तानित्युपहिते शब्द
ध्वंससत्वे उपाधावपि तत्सत्वमिति न वीणादौ शब्दध्वंसस्त्वरूपं साध्यं वाधितमिति भावः । विधि-
निषेधधीरिरिति । तथा च वीणायां शब्दनषेधानुमितेर्वीणावच्छिन्नविषय इति न बाध इति भावः ।