सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 284, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 284

२५० व्याख्याद्वयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
श्यमानत्वात् । यद् यदेकज्ञानसंसर्गयोग्यस्य अनुपलब्धेऽप्युपलभ्यते तत् तदभाववत्
यथा अघटं भूतलमितिचेन्न । एकज्ञानसंसर्गयोग्यत्वाभावात्, शब्दस्य श्रोत्रत्वादीणा-
दीनां चाक्षुषत्वात् । अभिमानमात्रादितिचेन्न, तथापि शब्दप्रध्वंसस्यातद्देशत्वाद् ,
अत्यन्ताभावस्य च कालाऽनियमात् ।
स्यादेतत् । शब्दवदाकाशोपाधयो हि भेर्यादयः । तेन तेषु विधीयमानः शब्द
बोधनी ।
लम्भेऽप्युपलभ्यमानेनात्मना व्यभिचारो मा भूदित्युक्तं-तदेकज्ञानसंसर्गयोग्यत्वे सति इति ।
तेन तद्विशेषणेन सह यदेकं ज्ञानं विशिष्टज्ञानमिति यावत्, संसर्गस्तद्विषयत्वं तयोर्ग्यत्वे सतीति
विशेषणासिद्धो हेतुरित्याह-न इति । अयोग्यत्वमेवाह-शब्दस्य इति । ननु सुरभि चन्दनमि-
त्यादिषु भिन्नेन्द्रियग्राह्ययोरपि विशिष्टज्ञानविषयत्वं वक्ष्यति । सत्यं, तत्र गुणगुणिभावं वदन्नदोषं
वक्ष्यतीति । ननु परमार्थतस्तदभावेऽपि मधुरस्वरा वीणेति लौकिकानामभिमानस्तावद् दृश्यते,
तन्मात्रादेव सिद्धं तदेकज्ञानयोग्यत्वं हेतोर्विशेषणं भविष्यतीत्याह-अभिमान इति । अस्तु तथा
नाम विशेषणं, तथापि शब्दस्य वीणाद्याश्रयत्वेन तत्प्रध्वंसस्याप्येतद्देशत्वाद्वाग्निःशब्दा वीणादय
इति प्रतिज्ञा वाधितविषया स्यादित्याशयेनाह-तथापि इति । ननु वीणादिषु शब्दस्यात्यन्ताभावः
साध्यते, न तस्य प्रध्वंसवत् प्रतियोगिदेशत्वम् । यदि तु स देशः प्रतियोगिनोऽपि कदाचित् स्यात्
ततस्तत्रात्यन्ताभाव इति व्याहन्येतेत्याह-अत्यन्ताभावस्य इति । तदानीं शब्दो नास्तीति
नियतकालतया शब्दाभावप्रतीतिर्न स्यात्, अत्यन्ताभावस्य सर्वदा सत्त्वादिसद्धसाधनत्वं च तदा
स्यादिति भावः ।
स्यादेतत् इति । भेर्याद्यवच्छिन्ने ह्याकाशे शब्दः समवैति विभुकार्याणामसमवायिकारण-
प्रकाशः।
तथात्वं वाच्यं, तथा चासिद्धिरित्याह एकज्ञानेति । शब्दे भासमाने उपनीतो वीणादिरपि भासते
इति तत्सिद्धिरित्याह-अभिमानेति । निःशब्दा इति, शब्दध्वंसवन्त इति साध्यं शब्दसमवायित्व-
रहिता इति वा ? नाद्यो, बाधादित्याह तथापीति । अतद्देशत्वादीणाद्यदेशत्वादित्यर्थः ।
ध्वंसस्य प्रतियोगिसमानदेशत्वनियमादत्रापि नियमेनै कज्ञानसंसर्गयोग्यत्वमसिद्धमिति भावः ।
अन्त्ये नियत कालप्रतीत्यनुपपत्तिरित्याह अत्यन्तेति । सिद्धसाधनश्च द्रष्टव्यम् । एवमन्योन्या-
भावेऽपि साध्ये इति भावः ।
उपाधौ विधिनिषेधावुपाधिमति भवत इति वीणादिदेशत्वमेव शब्दध्वंसस्येति शङ्कते-
स्यादेतदिति । उपाधिः = अवच्छेदकः । यद्यपि शरीरे गन्धविधौ, विभुत्वनिषेधे चात्मनि
प्रकाशिका ।
तदा गन्धसत्त्वेन व्यभिचार इत्यर्थः। शब्दे भासमान इति। या वीणा व्यक्तिरुपनीता तत्प्रभवशब्दे
भासमाने भासत एव, सैव पक्षयितव्येति नासिद्धिरिति मूलतात्पर्यमिति भावः । अत्रापीति ।
व्यक्तिविशेषाभिप्रायेण नियमे घटादावेव व्यभिचार इति कारणतावच्छेदकावच्छिन्ने नियमो वाच्यः
तथा चासिद्धिरितिभावः। एवमन्योन्याभावेऽपीति । शब्दसमवायिभिन्ना इत्यत्र साध्य इत्यर्थः।
उपाधाविति । उपाधौ विधिनिषेधसत्त्वे एव परमुपाधिमति विधिनिषेधावित्युपाधिविशिष्टे साध्या-
मकरन्दः ।
घटस्य गन्धादिमत्त्वाद्व्यभिचार इत्यर्थः । एवमिति । शब्दसमवायिभिन्ना, इत्यत्र साध्ये इत्यर्थः।
उपाधिमत्तीति । तथा च विशिष्टस्य तदाश्रयतदा विशेषणस्यापि तथात्वमिति भावः । तदेवाह
वीणादीति । वीणादिदेशत्वं भवत्येवेत्यर्थः, तथा च न बाध इति भावः । यद्यप्येवमुपाधिमात्र-
टिप्पणी ।
मेनैकज्ञानसंसर्गयोग्यत्वम्,तज्ज्ञानतद्व्यापकविषयतावच्छेदकधर्मवत्त्वम् , तत्सत्वे तदुपलम्भसामग्री-