न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 286, कुल 608 में से
संदर्भ में पढ़ें२५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
न चैवं सति पारमार्थिकाधिकरणनिरूपणीयत्वमभावस्य । न च तेऽपि प्रत्यक्षसिद्धाः ।
सर्वत्र शब्दकारणव्यवधानेऽप्युपलब्धस्य शब्दस्य नास्तिताप्रतीतेः । आनुमानिकैस्तै-
स्तथाव्यवहार इति चेन्न । हेतोस्तद्वत्तयाऽनुपलभ्यमानत्वस्यानैकान्तिकत्वात् । अभा-
वप्रतीतिकाले सन्दिग्धाश्रयत्वाच्च । उपलभ्यमानविशेष्यत्वपक्षे चाऽसिद्धेः । इन्द्रि-
यव्यवधानाच्छन्दलिङ्गस्य चानुपलम्भात् ।
बोधनी ।
निरूपकाणां प्रत्यक्षत्वात्तन्निरूप्यस्याभावस्यापि प्रत्यक्षत्वप्रसङ्ग इति । किं च तैरेव निरूपणेऽभ्युप-
गतहानिरपि स्यादित्याह—न चैवम् इति । तेषामभावानधिकरणत्वादिति । किं चाप्रत्यक्षेष्वप्यु-
पाधिषु शब्दाभावस्योपलम्भात्तन्निरूप्यत्वमित्याह—न च तेऽपि इति । शब्दस्य हि निमित्तका-
रणानां भेर्याद्युपाधीनां कुड्यादिव्यवधानेऽपि पूर्वोपलब्धस्य तस्याभावः प्रतीयत इति । ननु शब्द-
लिङ्गानुमितैर्वीणादिभिः पक्षीकृतैः शब्दाभावमनुमायं निःशब्दास्त इति व्यवहारः स्यात् इत्याह—
आनुमानिकैः इति । न इति । सशब्दा अपि हि ते तद्वत्तया नोपलभ्यन्ते तेषामश्रोत्रत्वादिति ।
सन्दिग्धाश्रयत्वादिति । तदानीं शब्दलिङ्गाभावात् नाशसंभवाच्चेति । तर्ह्युपलभ्यमाना भेर्या-
दय इति पक्षं विशेषयिष्याम इत्यत्राह—उपलभ्यमान इति । तदा हि विशेषणासिद्धः पक्षः
स्यादिति । कुत इत्यत आह—इन्द्रिय इति ।
प्रकाशः ।
दूषणान्तरमाह न चैवमिति । मुख्यप्रतियोग्याधारविषय एवाभावनिरूपकत्वादित्यर्थः । यदि च
मुख्यामुख्यसाधारणमाधारमात्रं तन्निरूपकं तन्नाह । न चेति । अप्रत्यक्षे वीणादौ शब्दाभावप्रती-
त्यनुदयापत्तेरित्यर्थः । व्यवहिते वीणादौ शब्दविशेषानुमिते शब्दध्वंसव्यवहार आनुमानिकः
स्यादित्याह आनुमानिकैरिति । वीणाया अश्रोत्रत्वेन सशब्दवीणा न श्रोत्रेणोपलभ्यते इति
व्यभिचार इत्याह हेतोरिति । सन्दिग्धति । यत्र शब्दविशेषेणानुमिता वीणा न प्रत्यक्षा,
तत्र वीणायाः सत्त्वासत्त्वसन्देहादित्यर्थः । यद्यपि पक्षस्य लिङ्गविशिष्टज्ञानादेवानुमितिसम्भवे
सन्देहो नानुमितिविरोधी, तथापि प्रथमं वीणाध्वंससन्देहाच्छब्दध्वंसस्तत्र वर्तते इति धीर्न स्यात् ।
यद्वा, वीणायननुमानेऽपि पक्षनिश्चयादनुमानाभावेऽपि शब्दस्यानुपलम्भादभावनिश्चयादित्येवम्परोऽयं
ग्रन्थः । शब्दवत्तयाऽनुपलभ्यमानत्वे सत्युपलभ्यमानत्वादिति हेतुकरणात्रोक्तदोष इत्याह उप-
लभ्यमानेति । असिद्धेः । उपलभ्यमानत्वस्येति शेषः । तत्र हेतुमाह इन्द्रियेति । शब्दरू-
पस्य लिङ्गस्येत्यर्थः; आप्तोपदेशस्य चाभावादिति भावः । ननु, शब्द एतत्कालप्रध्वंसप्रतियोगी,
एतत्पूर्वकालत्वे सति शब्देतरयावत्तदुपलम्भकसत्त्वेऽप्यनुपलभ्यमानत्वादित्यस्तु । मैवम् । एवं
प्रकाशिका ।
प्रतियोगिसमवायिकारणत्वरूपस्य च मानस्य तत्राभावादिति भावः । अभावानिरूपकत्वादिति ।
तत्त्वेन त्वयाभ्युपगमादित्यर्थः । आप्तोपदेशस्य चेति । यद्यपि शब्दो लिङ्गमित्येवं पूर्व-
ग्रन्थव्याख्याने सति नैतदाशयपूरणापेक्षा । तथापि लिङ्गं शब्द एव तत्र तत्र वाच्य इति तथैव विग्रह-
प्रदर्शनं कृतं तदनुसारेण च पूरणमिदम् । एतत्काल इति । एतच्चैतत्कालीनध्वंसे विशेषणीयम् ।
प्रागभावकालमादाय व्यभिचार इति हेतौ सत्यन्तम् । अप्रसिद्धिवारणाय शब्देतरेति । स्वस्वव्या-
प्येतेरेत्यर्थः, तेन दृष्टान्तसङ्गतिः । किञ्चिदुपलम्भकासत्त्वकालमादाय व्यभिचार इति यावदिति ।
मकरन्दः ।
तया च तन्मते नोपाधिमति विधिनिषेधौ सम्भवत इति भावः । शब्दरूपस्येति । यद्यपि शब्दश्च
लिङ्गश्च शब्दलिङ्गं, तस्येत्यर्थे उभयोरपि लाभे आप्तोपदेशस्येत्यग्रिमफक्किका विफला, तथापि लिङ्गं
शब्द एव वाच्यमिति तथैव व्याख्यात इत्याहुः । एतत्काल इति । एतत्कालीनध्वंसप्रतियोगी-
त्यर्थः । प्रागभावदशायां व्यभिचारवारणाय सत्यन्तम् । अप्रसिद्धिवारणाय शब्देतरेति, स्व-