न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 146, कुल 608 में से
संदर्भ में पढ़ें११२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां
प्रकाशः ।
तत्र तदभाव इति सहानवस्थाननियमस्य विरोधास्यानुभवसिद्धत्वादिति चेन्न । स हि परस्पराभा-
रूपतया, परस्पराभावव्याप्यतया वा, तदाक्षेपकत्या वा ? । नाद्यः । विशेषणाद्यभावस्य प्रत्येकं
विशिष्टाभावतया तत्प्रत्येकाभावाभावस्य विशेषणादेर्विशिष्टत्वापत्तेः । तदभावाभावस्य तत्त्वात् ।
न चोभयाभावाभाव एवोभयं विशिष्टम् । तथासत्यभावद्वयस्य विशिष्टाभावत्वे प्रत्येकाभावाद्विशि-
ष्टाभावव्यवहारानापत्तेः । नान्त्यौ । विशेषणाद्यभावस्य विशिष्टाभावत्वे तद्व्याप्यत्वात्, तदना-
क्षेपकत्वाच्च । अभेदे तयोरभावात् ।
ऽ अथ विशिष्टानतिरेकेऽपि प्रतियोगिभेदादिव प्रतियोगितावच्छेदकविशेषणभेदादप्यभावो भि-
द्यते । यथा वायौ पृथिव्यादित्रयप्रत्येकरूपाभावे निश्चितेऽपि रूपत्वावच्छिन्नस्य तस्याभावानिश्च-
याद्वायौ रूपं न वेति संशयः । एवमुत्तम्भकाभाववत्त्वेन मण्यादीनामभावः प्रतिबन्धकसत्त्वेऽप्युत्त-
म्भकाभावविरहादस्त्येवेति स एवानुगतो हेतुः स्यादिति चेत् । न । एवं क्षणरूपातीतविशेषणा-
वच्छिन्नरूपत्वेन प्रतिक्षणं घटादिनाशे क्षणभङ्गापत्तेः प्रत्यभिज्ञानानुपपत्तेश्च । दण्डित्त्वावस्थायां
प्रकाशिका ।
न च प्रतीतिरनुगता घटाभावपटाभावस्थल इति स स्वीकृत्यिमिति वाच्यम् ।
विद्यमानप्रतियोगितावच्छेदकाश्रयप्रतियोगिविरोधित्वमभावस्य लाघवान्न तु प्रतियोगिताव-
च्छेदकावच्छिन्नविरोधित्वं गौरवादित्याशयात् । न च सामान्याभावान्तरवत् द्वित्वावच्छिन्नप्रति-
योगिताकोऽपि सामान्याभावः स्वीक्रियतामिति वाच्यम् । उभयानधिकरणे तत्स्वीकारात् । तस्य
च कारणत्व उत्तेजकविशिष्टमणिसत्त्वेऽपि दाहो न स्यादित्याशयात् । अभेदे तयोरिति ।
यद्यपि व्याप्यत्वमभेदेऽपि संभवति । तथापि विशिष्टाभावपदार्थस्य विशेषणाद्यभावरूपतया तद्व्या-
प्यत्वं नोभयानुगतमिति भावः । प्रतियोगिभेदादिवेति । न च प्रतियोगितावच्छेदकस्य भेद-
कत्वे कुत्र प्रतियोगिभेदो भेदक इति वाच्यम् । व्यवहारानुरोधेन समनियतजातिद्वयस्वीकारे स्वा-
श्रयावच्छिन्नतदुभयात्यन्ताभावयोः प्रतियोगिभेदादेव भेदात् । तदस्वीकारे च यथा प्रतियोगिभे-
दादभावभेदस्त्व, तथा प्रतियोगितावच्छेदकभेदान् ममेति फक्तिकार्थः । स एवेति । व्यापकी
भूयानुगमकतया हेतुतावच्छेदकः स्यादित्यर्थः । तेनात एवेत्याद्येतनमपुनरुक्तमेवेति ध्येयम् ।
क्षणभङ्गापत्तेरिति । यद्यपि विशेष्यतावच्छेदकावच्छिन्नध्वंसः परमुत्पत्तेरव्यवहितक्षणे न
मकरन्दः ।
क्षणभङ्गेति । यद्यपि तादृशक्षणभङ्गो न दोषावहः, किन्तु विशेष्यतावच्छेदकावच्छिन्नप्रति
योगिक एव तथा । तथापि प्रत्यभिज्ञानात् समवायादिनाशाभावाच्च न घटादेर्नाशः, किन्तु विशे-
षणस्यैव । न च विशेषणनाशसामग्र्येव विशेष्यनाशिका । नित्यमात्रापलापापत्तेरित्यर्थः ।
टिप्पणी ।
तदाक्षेपकत्या वेति । तद्यापकाभावप्रतियोगितया तदभावस्थेयं व्यतिरेकव्याप्तिः । तथा-
सत्यभावद्वयस्य विशिष्टाभावत्वे इति । विशेषणाभावाभावस्य विशेषणमात्ररूपस्य विशे-
ष्याभावाभावस्य विशेष्यमात्ररूपस्य मेलनं कृत्वा विशिष्टरूपत्वाभ्युपगमेऽभावद्वयस्यापि मिलितस्य
विशिष्टाभावत्वापत्तिः । न चेष्टापत्तिः । तत्प्रत्येकाश्रये विशिष्टाभावव्यवहारानापत्तेरिति भावः ।
अभेदे तयोरभावात् इति । विशिष्टविरोधित्वस्य विशिष्टाभावव्याप्यविशिष्टाभावाक्षेपकत्व-
रूपतया तयोरनुगतस्याभावात् । विशिष्टाभावस्य विशेषणाद्यभावाभेदे सति विशेषणाभावव्याप्यत्व-
प्रवेशे विशेष्याभावस्य, विशेष्याभावव्याप्यत्वप्रवेशे विशेषणाभावस्यासङ्ग्रहादतिरिक्तस्य विशिष्टा-
भावस्याभावात् विशिष्टाभावत्वस्य चानुगतस्य निरूप्यमाणत्वात् । विशिष्टविरोधितारूपस्यैव प्रवेशे-