न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 147, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । ११३
त्राविशिष्टः, तथा केवलोत्तम्भकसद्भावे प्रतिबन्धकोत्तम्भकसद्भावे द्वयाभावे वा
बोधनी ।
विशेष्यस्त्वस्ति पुरुषः । द्वयाभावे तु विशेषणमस्ति, नास्ति विशेष्यम् । अत्र सर्वत्र केवलस्य
कैवल्यविशिष्टस्य पुरुषस्याभावः समान इति पक्षं निगमयति-तथा-इति । कार्योत्पत्तिसम-
येषु सर्वेषु केवलोत्तम्भकसद्भावप्रतिबन्धोत्तम्भकसद्भावद्वयाभावेषु प्रत्येकं समुचितयोश्च
विशेषणविशेष्ययोरभावात् केवलस्योत्तम्भकाभावविशिष्टस्य प्रतिबन्धकस्याभावोऽनुवृत्तः । अत्र
प्रकाशः ।
केवलोऽयमासीत् पुरुष इत्यादी विशेष्यवति, "सविशेषणे ही"ति न्यायेन कैवल्याभावस्यैव प्रतीतेः ।
अत एव विशेषणावच्छिन्नप्रतियोगिताको विशेष्याभाव एव विशिष्टाभावः प्रत्येकाभावानुगतो हेतु-
रित्यपास्तम् ।
अत्रास्मत्पितृचरणाः-विशेषणविशेष्ययोः सम्बन्धाद्विशिष्टव्यवहार इति तयोः सम्बन्धाभावा-
प्रकाशिका ।
स्वीक्रियत इत्येवंविधक्षणिकतायामिष्टापत्तिः, न च नाशकांभावो विशेषणनाशसामग्र्या एव
तथात्वात् । अत एव प्रत्यभिज्ञानमप्युपपन्नं विशेष्यतावच्छेदकावच्छिन्नाभावाभावात् । किं च
विशिष्टाभावस्यात्यन्ताभावात्मकतया कथं तत्स्वीकार उत्पत्त्यव्यवहितक्षणवृत्तिध्वंसप्रतियोगि-
तात्मकक्षणिकताप्रसङ्गः, तथापि लाघवात् प्रतियोगिविरोधित्वमेवाभावस्येति कथं मणिसत्त्वे
तदभाव इत्यत्र तात्पर्यम् । स एवेति । व्यापकीभूतानुगमकतया हेतुतावच्छेदकः स्यादित्यर्थः ।
तेनात एवेत्याद्यग्रेतनं न पुनरुक्तमिति ध्येयम् । अत एवेति । तद्वति तदभावास्वीकारादेवेत्यर्थः ।
विशेषणविशेष्ययोरिति । यद्यपि सम्बन्धमात्राभावः क्वचिदपि नास्तीति तदुभयप्रतियोगिकत्व
विशिष्टसम्बन्धाभावो वाच्यः, सोऽपि विशिष्टाभाव एवेति तन्निर्वचनपरम्परायामनवस्था । किंचैवं
दण्डिपुरुषसद्भावेऽपि भूतले दण्डिपुरुषाभावप्रतीत्यापत्तिः, तदानीमपि भूतलेदण्डपुरुषसम्बन्धा-
भावात् । तथापि सम्बन्धत्वावच्छिन्नोत्तेजकाभावमणिप्रतियोगिकाभावः कारणं प्रतीतिबलेन
तस्य स्वीकारात् । दण्डिपुरुषाभावस्थले तु संयोगावच्छिन्नतदुभयाभावस्य प्रतीतिविषयत्वमित्यत्र
तात्पर्यम् । अत एव ननुत्तम्भकेत्याद्यग्रिमशङ्काप्युदेति , अन्यथा दाहपूर्वं सम्बन्धस्यासत्त्वेन
प्रतियोग्यसमानकालत्वादित्यादेस्तत्तद्धेतोरनन्वयादिति । वस्तुतो विशेषणावच्छिन्नविशेष्याभाव
मकरन्दः ।
अत एवेति । प्रतियोगितावच्छेदकभेदस्याभावभेदकत्वाभावादित्यर्थः । यद्यपि पूर्वाभेदः,
तथापि पूर्वं विशेष्यस्य सत एव विशेषणान्तरविरहादभाव इत्युक्तम् । संप्रत्यविद्यमानविशेष्यका-
भिप्रायेणोच्यत इति न दोषः । विशेषणविशेष्ययोरिति । यद्यपि यत्किञ्चित्संबन्धाभावो न
विशिष्टाभावोऽतिप्रसङ्गादिति विशेषणविशेष्योभयप्रतियोगिकसंबन्धाभावस्तथा वाच्यः, तदभावश्च
विशेषणविशेष्योभयप्रतियोगित्वरूपविशेषणाभावात् क्वचिद्विशेष्याभावादित्यननुगमस्तदवस्थ एव ।
अधिकमनुमानप्रकाशे दूषणमुक्तम् । तथापि विशेषणावच्छिन्नविशेष्यात्यन्ताभावस्तथेति विपश्चि-
तमनुमानप्रकाशे द्रष्टव्यम् । किञ्च, यदि संबन्धाभावो विशिष्टाभावस्तदा भूतलादौ दण्डिनि सत्यपि
नेह दण्डीति प्रत्ययप्रसङ्गः । दण्डपुरुषसंबन्धस्य दण्डपुरुषोभयमात्रनिष्ठतया तत्र तदानीमपि
तदभावात् । न च भूतलावच्छिन्ने पुरुषे विशेषणसंबन्धाभावः स इति भूतलस्याधिकरणकोटिप्रवेश
इति वाच्यम् । तथा सति विशेष्याभावे तादृशबुद्ध्यनुदयप्रसङ्गात् । तस्माद्विशेषणविशेष्यतदुभया-
टिप्पणी ।
ऽन्योन्याश्रयत्वापत्तेः । एतेनाभेदे व्याप्यव्यापकभावेऽपि न क्षतिः । केवलोऽयमासीदिति ।
१५ न्या० कु०