सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 145, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 145

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १११
प्रकाशः ।
केवलप्रतिबन्धकसत्त्वेऽपि तदभावाद्दाहापत्तेः । एकसत्त्वेऽपि द्वयमिह नास्तीति प्रतीतेः । तस्य
समुदायविरोधिनो यावत्समुदायिसत्त्व एव विरहात् । तादृशाभावानभ्युपगमाच्च । व्यासज्यवृ-
त्तिधर्मसमानाधिकरणप्रत्येकपर्यवसितप्रतियोगिताकाभावादेव तज्जन्यप्रतीत्युपपत्तेः ।
अथ विशिष्टविरोधित्वमेवानुगतं विशेषणाद्यभावानां कारणतावच्छेदकम् , यत्र विशिष्टं न
प्रकाशिका ।
पकोऽभाव इत्यर्थः। केवलेति । ननु कैवल्यमुत्तेजकाभाववैशिष्ट्यं, न च तादृशे मणौ तदुभयवृत्तिद्वि-
त्वावच्छिन्नप्रतियोगिताकोऽभावोऽस्तीति कथमेतदुच्यते व्यासज्यवृत्तिधर्मावच्छिन्नोत्तेजकाभावमणिप्र-
तियोगिकाभावत्वेन कारणत्वं तदुभयमात्रवृत्तिद्वित्वावच्छिन्नप्रतियोगिताकाभावत्वेन वा, अन्त्ये तादृ-
शेत्यादि दूषणमनुपदमेवाग्रे । आद्ये तदुभयसत्त्वेऽपि तृतीयमादायाभावोऽस्त्येवेति दूषणमिति । अत
एवैकसत्त्वेऽपि त्रयमिह नास्तीति युक्तः पाठः । द्वयमिह नास्तीपि पाठपक्षेऽपि द्वयपदमनेकपरम् ।
मिश्रास्तु केवलेत्यस्यैकत्यर्थः । तथा च मणिसत्त्वेऽपि मन्त्राभावमादाय दाहापत्तिरित्यर्थः । एवं च द्वय-
मिति पाठोऽपि सङ्गच्छत इत्याहुः । तच्चिन्त्यम् । उत्तेजकमण्यभावयोरेककारणत्वपर्यवसानेऽननुगम
इत्याक्षेपे तदुभयस्थलाऽनुगताभावस्य कारणत्वाऽऽशङ्कायामेतद्दूषणस्यार्थान्तरत्वात् । तादृशेति ।
मकरन्दः ।
योगिकतादृशाभावत्वेन वा ? । आद्ये दोषमाह । केवलेति । उत्तम्भकाभावविशिष्टमणिसद्भा-
वेऽपि घटादिकमादाय तदुभयप्रतियोगिकतादृशाभावसत्त्वाद्दाहापत्तेरित्यर्थः । एवं द्वयमित्यनेको-
पलक्षणम् । अत एव लीलावतीप्रकाशे त्रयमिति पाठः । अन्त्ये त्वाह । तादृशेति । यद्यपि
सामान्याभाववदुभयासत्त्वे व्यासज्यप्रतियोगिकाभावोऽप्यभ्युपगन्तुमुचित एव । अन्यथा याव-
द्विशेषाभावैस्तदन्यथासिद्ध्यापत्तेः । तथापि तद्धेतुत्व उत्तोजकविशिष्टमणिसत्त्वेऽपि दहो न स्यादि-
त्येव दूषणं द्रष्टव्यम् ।
टिप्पणी ।
वा तत्राद्यस्य निराकरणं केवलेति । तस्मादुभयप्रतियोगिकाभावात् त्रितयाभावात्मक़ाद् दाहाप-
त्तेः । द्वयमित्यनेकमित्यर्थः । तथाचैकसत्त्वे द्वयन्नास्त्युभयसत्त्वे त्रयन्नास्तीत्यादिप्रतीतेरिति
पर्य्यवस्यति । तस्य त्रितयाभावस्येत्यर्थः । द्वितीयं निराकरोति । तादृशाभावानभ्युपगमा-
च्चेति । यद्वा व्यासज्य सर्व्वान प्रतिबन्धकमणीनुत्तेजकाभावञ्च व्याप्या या प्रतियोगिता तदाश्रयप्र-
तियोगिकाभावः । मणित्वोत्तम्भकाभावत्वव्यापिका या सङ्ख्या तदवच्छिन्नप्रतियोगिताकाभावित्य-
र्थः । तदुभयसमानाधिकरणसङ्ख्यावच्छिन्नाभावनिवेशे यत्किञ्चिन्मण्युत्तम्भकाभावोभयाभावस्य-
सर्व्वत्रैव सत्त्वाद्दाहापत्तेः। तादृशव्यापिका च संख्या यावन्मणिगतैव, तदवच्छिन्नाभावस्य तादृश-
संख्यावच्छिन्नयावन्मणिसत्त्वविरोधिन उत्तेजकाभावविशिष्टैकमणिसत्त्वेऽपि सत्त्वे क्षत्यभावात् ।
एकमणिसत्त्वेऽपि मणिद्वयाभावप्रतीतेः समुदायाभावप्रत्यये बाधकाभावात् । यदि च एक उत्तेज-
काभाव एको मणिरिति सामान्यापेक्षाबुद्ध्या जायमानद्वित्वं सर्व्वान् मणीन् व्याप्यैव वर्त्तते, तथापि
यत्किञ्चित्तदुभयसत्त्वमेव तद्विरोधि तत्र सर्व्वत्र सामान्यत उत्तेजकाभावप्रतिबन्धकमणी स्त इति
प्रत्ययात् । या च एकोऽयं मणिरिकोऽयं मणिरित्याद्यखिलमनिगोचरापेक्षाबुद्ध्या एकश्चोत्तेजकाभाव
इत्यपेक्षाबुद्ध्या सर्व्वान् मणीन व्याप्य समुदायत्वलक्षणा संख्या जन्यते तदवच्छिन्नाभाव एव य-
त्किञ्चित्तदुभयविरोधीति प्रकृते नानुषपत्तिस्तादृशद्वित्वानभ्युपगमेऽपि यत्किञ्चित्तदुभयविरोधित्वे-
त्वेनानुगतेन द्वित्वेन मणित्वेनोत्तम्भकाभावत्वेन चावच्छिन्नप्रतियोगिताक एव वा तादृशाभा-
वोऽनुगतस्तथापि नानुपपत्तिरिति ब्रूयात् तमाह । तादृशाभावानभ्युपगमादिति ।