न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 39, कुल 176 में से
संदर्भ में पढ़ेंनमः सर्वज्ञाय
न्यायबिन्दुः
प्रथमपरिच्छेदः
जयन्ति(१) ज्ञातिव्यसनप्रबन्धप्रसूतिहेतोर्जगतो विजेतुः ।
रागाद्यरातेः सुगतस्य वाचो मनस्तमस्तानवमादधानाः ॥
सम्यग्ज्ञानपूर्विकेत्योदिनास्य प्रकरणस्याभिधेयप्रयोजनमुच्यते—
सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद् व्युत्पाद्यते ।
(१) तत्र विदुषामग्रणीः श्रीधर्मोत्तराचार्यः न्यायविन्दुं व्याचिख्यासुः प्रारिप्सितग्रन्थस्य
निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारपरिपालनार्थं वा स्वमतं स्थापयन् भगवतो बुद्धस्य गुणसं-
स्तवनं करोति । ‘जयन्ति’ इत्यादिना । सुगतस्य भगवतो बुद्धस्य वाचः वाण्यः जयन्ति ।
कथम्भूतस्य बुद्धस्येत्यत आह-जातीनाम् प्राणिसामान्यानां । ‘जातिर्जातञ्च सामान्यम्’
इत्यमरः । व्यसनस्य विपदः ‘व्यसनं विपदि भ्रंशे दोषे कामजकोपजे’ इत्यमरः।
प्रबन्धस्य सन्दर्भस्य परम्परायाः इत्यर्थः । या प्रसूतिः श्च्योतः क्षरणं नाश इत्यर्थः ।
‘प्रसूतिः प्रसवे श्च्योते’ इत्यमरः । तस्या हेतुः कारणभूतस्तस्य । एतेन संसारस्य दुःख-
मयत्वं बुद्धस्य तद्विनाशे कारणत्वञ्च प्रदर्शितम् । जगतः संसारस्य विजेतुः जयकर्त्तुस्त-
स्मिन्ननासक्तस्येत्यर्थः । एतेन बुद्धस्य सर्वसंसारसम्बन्धिविकारेषु जयित्वं जगतस्तरणत्वञ्च
सूचितम् । रागादीनाम् रागद्वेषलोभमोहादिसंसारसम्बन्धिभावानामरातिश्शत्रुस्तस्य । एतेन
तस्य वीतरागत्वं द्योतितम् । एतादृशः सुगतस्य बुद्धस्य वाचः जयन्ति । कथम्भूता वाचः
इत्यत आह-मनः इत्यादि । मनसो यत्तमस्तस्य तानवं तनोः भावस्तं कार्श्यमादधानाः
सम्पादयन्त्यः । एतेन बुद्धस्य वाचि ज्ञानप्रदत्वं प्रकटीकृतम् ।
सौगताः ‘बुद्धः परमेश्वरस्यावतार’ इति नाभिमन्यन्ते । किन्तु तेषां मते सर्वसंसारि-
१ ‘सम्यग्ज्ञानपूर्विका सर्व्वेत्यादिना’ इति पाठान्तरम् ‘क’ पुस्तके ।