सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 141, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 141

तृतीयपरिच्छेदः १०३
नियतसाधनप्रतीतये¹ उपात्ताः । तदसमर्था दुष्टाः स्वकार्यकरणादिति साम-
र्थ्यम् । इयता साधनमुक्तम् ।
दूषणं वक्तुमाह—
दूषणा न्यूनतायुक्तिः ।
दूषणा का द्रष्टव्या । न्यूनतादीनामुक्तिरुच्यते । न येत्युक्तिर्वचनं
न्यूनतादिर्वचनम् ।
दूषणं विवरीतुमाह—
ये पूर्वं न्यूनतादयः साधनादोषा उक्तास्तेषामुद्भावनं
दूषणम् ।
ये पूर्वं न्यूनतादयोऽसिद्धविरुद्धानैकान्तिका उक्तास्तेषामुद्भावनं यद्वचनं
तद्दूषणम् ।
ननु च न्यूनतादयो न विपर्ययसाधनास्तत्कथं दूषणमित्याह—
तेन परेषामर्थसिद्धिप्रतिबन्धात् ।
तेन न्यूनतादिवचनेन परेषामिष्टश्चासावर्थश्च तस्य सिद्धिर्निश्चयस्त-
स्याः प्रतिबन्धान्नावश्यं विपर्ययसाधनादेव दूषणं विरुद्धवदपि तु परस्या-
भिप्रेतनिश्चयनिबन्धान्निश्चयाभावो भवति ।
निश्चयविपर्यय इत्यस्ति² विपर्ययसिद्धिरिति ।
दूषणाभासास्तु जातयः ।
उक्ता दूषणाभासा इति । दूषण³वदाभासन्त इति दूषणाभासाः । के
ते जातयः । जातिशब्दः सादृश्यवचन उत्तरसदृशानि जात्युत्तराणीति⁴ ।
उत्तरस्थानप्रयुक्तत्वादुत्तरसदृशानि जात्युत्तराणि ।
तदेवोत्तरसादृश्यमुत्तरस्थानप्रयुक्तत्वेन दर्शयितुमाह—
अभूतदोषोद्भावनानि जात्युत्तराणीति ।
१ प्रतीतये, ख० प्रतिपत्तये । २ अस्ति, ख० अस्त्येव । ३ दूषणवत्, ख० दूषणा-
वत् । ४ 'इति' इति पदं ख० पुस्तके न विद्यते ।