सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 142, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 142

१०४ न्यायबिन्दुः
अभूतस्यासत्यस्य दोषस्योद्भावनानि । उद्भाव्यत एतैरित्युद्भावनानि
वचनानि तानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणीति ।
इति तृतीयः परिच्छेदः समाप्तः ।
कतिपयपदवस्तुव्याख्यया यन्मयाप्तं कुशलममलमिन्दोरंशुवन्न्यायबिन्दोः ।
पदमजरमवाप्य ज्ञानधर्मोत्तरं यज्जगदुपकृतिमात्रव्यापृतिः स्यामतोऽहम्¹ ॥
न्यायबिन्दुः समाप्तः ।
समाप्तेयं² न्यायबिन्दुटीका कृतिराचार्यधर्मोत्तरस्य ॥०॥
सहस्रमेकं श्लोकानां तथा शतचतुष्टयम् ।
सप्तसप्ततिसंयुक्तं निपुणं परिपिण्डितम्³ ॥
१ अथ श्रीधर्मोत्तराचार्यः स्वाभिप्रायप्रकाशपुरःसरं कृतिमुपसंहरन्नाह—कतिपयेति ।
यत् । मया धर्मोत्तराचार्येण । इन्दोश्चन्द्रस्य । अंशुवत् किरणवत् । न्यायबिन्दोः
न्यायबिन्दुः नाम अस्य ग्रन्थस्य । कतिपयान्यमूनि पदानि तान्येव वस्तूनि
तेषां व्याख्या तया न्यायबिन्दुटीकया इत्यर्थः । कुशलं निर्विघ्नं । अमलं निर्मलं । अजरं
अनश्यम् । पदम् । अवाप्य प्राप्य । यत् । ज्ञानं च धर्मं च ज्ञानधर्मे ताभ्याम्, उत्तरं श्रेष्ठं
ज्ञानधर्मोत्तरम् । अथवा अनेन पदेन आचार्येण स्वनाम 'धर्मोत्तराचार्यः' प्रदर्शितम्,
आचार्यस्य ज्ञानकारणत्वात् । आप्तं प्राप्तम् । अतोऽस्मात् न्यायबिन्दुटीकारूपकार्यात् ।
जगतः उपकृतिरुपकारस्तन्मात्रमेव व्यापृतिः व्यापारो यस्य स । अहं धर्मोत्तराचार्यः ।
स्याम् । २ 'समाप्तेयं' आदि; ख० आचार्यधर्मोत्तरपादविरचितायां न्यायबिन्दुटीकायां
तृतीयः परिच्छेदः समाप्तः । ३ ग्रन्थस्यास्य परिमाणं १४७७ श्लोकप्रमितिमात्रमस्ति ।
श्लोकेऽत्र द्वात्रिंशदक्षराणि ज्ञेयानि ।