न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 120, कुल 176 में से
संदर्भ में पढ़ें८२ न्यायबिन्दुः
धर्मो धर्मिणमवियुक्तं द्वयोरेकेन धर्मेण दर्शयितुं न शक्नुयादतो न संश-
यहेतुः स्यात् । द्वयोर्धर्मयोरनियतं भावं दर्शयन्संशयहेतुर्द्वयोस्त्वनियतमपि
भावं दर्शयितुमशक्तोऽप्रतिपत्तिहेतुर्नियतं भावं दर्शयन्हेतुर्विरुद्धो वा स्यात्त-
स्माद्येकाभ्यां सर्वं वस्तु संगृह्यते तयोः संशयहेतुर्यदि तयोरेकत्रापि सद्भाव-
निश्चयो न स्यात् । सद्भावनिश्चये तु यद्येकत्र नियतसत्तानिश्चयो विरुद्धो
हेतुर्वा स्यात् । अनियतसत्तानिश्चये तु साधारणानैकान्तिकः । संदिग्ध-
विपक्षाव्यावृत्तिकः संदिग्धान्वयोऽसिद्धव्यतिरेको वा स्यात् । एकत्रापि तु
वृत्त्यनिश्चयादसाधारणानैकान्तिको भवति ।
ततोऽसाधारणानैकान्तिकस्यानैकान्तिकत्वे हेतुद्वयं दर्शयितुमाह—
न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति । यत्र
प्राणादिर्वर्तते ।
न हीति । सहात्मना वर्तते सात्मकः । निष्क्रान्त आत्मा यस्मात्स
निरात्मकः । ताभ्यां यस्मान्नान्यो राशिरस्ति । किंभूतो यत्रायं वस्तुधर्मः
प्राणादिर्वर्तते । तस्मादयं तयोर्भवति संशयहेतुः ।
कस्मादन्यराश्यभाव इत्याह—
आत्मनो वृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् ।
आत्मनो वृत्तिः सद्भावो व्यवच्छेदोऽभावस्ताभ्यां सर्वस्य वस्तुनः
संग्रहात्क्रोडीकरणात् । यत्र ह्यात्मास्ति तत्सात्मकम् । तदन्यन्निरात्मकम् ।
ततो नान्यो राशिरस्ति संशयहेतुत्वकारणम् ।
प्रकाराभ्यां सर्वसंग्रहं प्रतिपाद्य द्वितीयमाह—
नाप्यनयोरेकत्र वृत्तिनिश्चयः ।
नाप्यनयोः सात्मकानात्मकयोर्मध्ये एकत्र सात्मकेऽनात्मके वा वृत्तेः
सद्भावस्य निश्चयोऽस्ति । द्वावपि राशी त्यक्त्वा न वर्तते प्राणादिर्वस्तु-
धर्मत्वात् । ततश्चानयोरेव वर्तत इत्येतावदेव ज्ञातम् । विशेषे तु वृत्ति-
निश्चयो नास्तीत्ययमर्थः ।
१ यकाभ्यां, क० याभ्यां । २ साधारणानैकान्तिकः, क० साधारणनैकान्तिक० ।
३ व्यावृत्तिकः, क० व्यावृत्तिकः २।