न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 111, कुल 176 में से
संदर्भ में पढ़ेंतृतीयपरिच्छेदः ७३
एवं प्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन संदेहे
हेतुत्वात् ।
एवंप्रकारस्यैवंजातीयस्यानुपलम्भस्य संदेहहेतुत्वात् । कुत इत्याह ।
अदृश्यात्मा विषयो यस्य तस्य भावोऽदृश्यात्मविषयत्वं तेन संदेहहेतुत्वम् ।
असर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृत्तिः संदिग्धा ।
वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च ।
यतोऽदृश्यविषयोऽनुपलम्भः संशयहेतुर्न निश्चयहेतुस्ततोऽसर्वज्ञविप-
र्ययात्सर्वज्ञाद्वक्तृत्वादेर्व्यावृत्तिः संदिग्धा । नानुपलम्भात् । सर्वज्ञे³ वक्तृत्व-
मसद ब्रूमोऽपि तु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् । एतन्न सर्वज्ञत्व-
वक्तृत्वयोर्विरोधो नास्ति । विरोधाभावाच्च कारणाद्व्यतिरेको न सिध्यतीति
सम्बन्धः ।
व्याप्तिमन्तं व्यतिरेकं दर्शयति ।
यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेऽपि व्यति-
रेको न सिध्यति । संदेहात्⁴ ।
यः सर्वज्ञ इति । साध्याभावरूपं सर्वज्ञत्वमनूद्य न स⁵ वक्ता भव-
तीति साधनस्य वक्तृत्वस्याभावो विधीयते । तेन साध्याभावः साधना-
भावे नियतत्वात्साधनाभावेन⁶ व्याप्त उक्त इति व्याप्तिमानीदृशो व्यति-
रेको विरोधे सति वक्तृत्वसर्वज्ञत्वयोः सिध्येत् । न चास्ति विरोधः ।
तस्मान्न सिध्यति⁷ । कुत इत्याह । संदेहात् । यतो विरोधाभावस्तस्मात्सं-
देहः । संदेहाद्व्यतिरेकासिद्धिः ।
कथं विरोधाभावः ।
द्विविधो हि पदार्थानां विरोधः ।
१ एवंजातीयस्य, ख० एवंजातीयकस्य । २ संशयहेतुः, ख० संदेहेतुः (अशुद्धः) ।
३ सर्वज्ञे, ख० संदिग्धे । ४ मुद्रितपुस्तकस्य संपादकेन 'संदेहात्' इति हेतुवाक्यं
द्विविधमित्यग्रिमवाक्ये निबद्धम् । ५ न स वक्ता, ख० स वक्ता न । ६ साधना-
भावेन, ख० साधम्र्यभावेन । ७ सिध्यति, ख० सिध्यतीति ।
१० न्या०