सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 112, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 112

७४ न्यायबिन्दुः
हीति¹। यस्माद् द्विविध एव विरोधो नान्यः। तस्मान्न वक्तृत्वसर्वज्ञत्व-
योर्विरोधः।
कः पुनरसौ द्विविधो विरोध इत्याह।
अविकलकारणस्य भवतोऽन्यभावः।
अविकलकारणस्येति। अविकलानि समग्राणि कारणानि यस्य स
तथोक्तः। यस्य कारणवैकल्यादभावो न तस्य केनचिदपि विरोधगतिः।
तदर्थमविकलकारणग्रहणम्।
ननु च यस्यापि कारणसाकल्यं तस्यापि निवृत्तिरशक्या केनचिदपि
कर्तुं तत्कुतो विरोधगतिः। एवं तर्हि।
अभावाद्विरोधगतिः।
अविकलकारणस्यापि यत्कृतात्कारणवैकल्यादभावः। तेन विरोध-
गतिः। तथा च सति यो यस्य विरुद्धः स तस्य किंचित्कर एव। तथा
हि। शीतस्पर्शस्य जनको भूत्वा शीतस्पर्शान्तरजननशक्तिं प्रतिबध्नञ्शी-
तस्प