सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 110, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 110

७२ : न्यायबिन्दुः
अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वाद्विद्युदाकाशवद्¹घटवच्चेत्यनित्यत्वं स-
पक्षैकदेशवृत्ति विद्युदादावस्ति नाकाशादौ । विपक्षाव्यापि प्रयत्नानन्तरीयके
सर्वत्र भावात् । अनित्यत्वादप्रयत्नानन्तरीयकः शब्दो घटवद्विद्युदाकाश-
वच्चेत्यनित्यत्वं विपक्षैकदेशशब्दवृत्ति विद्युदादावस्ति नाकाशादौ । सप-
क्षाव्यापि सर्वत्र प्रयत्नानन्तरीयके भावात् । नित्यः शब्दोऽमूर्तत्वादाका-
शपरमाणुवत्कर्मघटवच्चेत्यमूर्तत्वमुभयैकदेशवृत्ति । उभयोरेकदेश आकाशे
कर्मणि च वर्तते । परमाणौ तु सपक्षैकदेशे घटादौ च विपक्षैकदेशे न
वर्तते । मूर्तत्वाद्घटपरमाणुप्रभृतीनाम् । नित्यास्तु परमाणवो वैशेषिकैरभ्यु-
पगम्‍यन्ते । ततः सपक्षान्तर्गताः । अस्य चतुर्विधस्य पक्षधर्मस्यासत्त्वम-
सिद्धं विपक्षे । ततोऽनैकान्तिकता । यथा चास्य रूपस्यासिद्धावनैका-
न्तिकस्तथास्यैव विपक्षेऽसत्त्वाख्यस्य रूपस्य संदेहेऽनैकान्तिकः ।
तमुदाहरति—
यथाऽसर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान्वे-
ति साध्ये वक्तृत्वादिको धर्मः संदिग्धविपक्षव्यावृत्तिकः ।
सर्वत्रैकदेशे वा सर्वज्ञो वक्ता नोपलभ्यते इति ।
यथेति । असर्वज्ञ इति । असर्वज्ञत्वं साध्यम् । कश्चिद्विवक्षित इति
वक्तुरभिप्रेतः पुरुषो धर्मी । राग आदिर्यस्य द्वेषादेः स रागादिः स यस्या-
स्ति स रागादिमानिति द्वितीयं साध्यम् । वाग्रहणं रागादिमत्त्वस्य पृथ-
क्साध्यत्वख्यापनार्थम् । ततोऽसर्वज्ञत्वे रागादिमत्त्वे वा साध्ये प्रकृते
वक्तृत्वं वचनशक्तिस्तदादिर्यस्योन्मेषनिमेषादेः स वक्तृत्वादिको धर्मोऽनै-
कान्तिकः । संदिग्धो³ विपक्षाद्व्यावृत्तिर्यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये
सर्वज्ञत्वं विपक्षः । तत्र वचनादेः सत्त्वमसत्त्वं वा संदिग्धम् । अतो न
ज्ञायते वक्ता सर्वज्ञ उतासर्वज्ञ इत्यनैकान्तिकं वक्तृत्वम् ।
ननु च⁴ सर्वज्ञो वक्ता नोपलभ्यते तत्कथं वचनं सर्वज्ञे संदिग्धम् ।
अत एव सर्वज्ञो वक्ता नोपलभ्यत इति ।
१ क० विद्युदाकाशद्वद्घटवत् । २ लेखकस्य प्रमादेन ख० पुस्तके 'नाकाशादौ'
द्वयमध्यस्थः पाठः परित्यक्तः । ३ संदिग्धा, ख० संदिग्ध० । ४ पदमिदं ख० पुस्तके
नोपलभ्यते ।