निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 340, कुल 1282 में से
संदर्भ में पढ़ें'गन्धर्वाः, पितरः, देवाः, असुराः, रक्षांसि'-इत्येके ।
'चत्वारो वर्णाः निषादः पञ्चमः'- इति औपमन्यवः ।
'निषादः' कस्मात् ? 'निषण्ण मस्मिन् पापकम्'-
इति नैरुक्ताः । "यत् पाञ्चजन्या विशा ।" पञ्चज-
नीनया विशा । 'पञ्च' पृक्ता संख्या । स्त्रीपुंनपुंसकेषु
अविशिष्टा । बाहुनामानि उत्तराणि द्वादश ।
'बाहू' कस्मात् ? प्रबाधत आभ्यां कर्माणि ।
अङ्गुलिनामानि उत्तराणि द्वाविंशतिः । अङ्गुलियः
कस्मात् ? अग्रगामिन्यो भवन्ति-इति वा । अग्र
गालिन्यो भवन्ति इति वा अग्रकारिण्यो भवन्ति-
इति वा । अङ्कना भवन्ति-इति वा । अञ्चना
भवन्ति इति वा । अपि वा अभ्यञ्जनादेव स्युः ।
तासामेषा भवति ॥ २ ॥
अर्थ ।
"तदद्य वाचः"-इति सौचीकस्य अग्नेरार्षम् ।
तस्य विश्वैर्देवैः सह संवादः । तत्रेयं होतृजपे
विनियुक्ता ।
मन्त्रार्थः-हे देवाः ! अद्य अहम् "तत्"
"प्रथमं" 'परमम्' उत्कृष्टम् "वाचो" वीर्यं "संसीय"