निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 339, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । ३१
हरितः ( १२) । स्वसारः ( १३ ) । जामयः ( १४) ।
सनाभयः ( १५) । योक्त्राणि ( १६) । योजनानि
( १७) । धुरः ( १८) । शाखाः ( १९) । अभी-
शवः ( २०) । दोधितरयः ( २१) । गभस्तयः
( २२) । इति द्वाविंशतिरङ्गुलिनामानि ॥ ५ ॥
( खं० २)
[ निरु० ] तदद्यवाचः प्रथमं मंसीय
येनासुरां अभि देवा असाम ।
ऊर्जाद उत यज्ञियासः पञ्चजना
मम होत्वं जुषध्वम्” ।
[ ऋ० सं० ८, १, १३, ४ ]
“तदद्य वाचः” परम “मंसीय” “येन-असुरान्-
अभि भवेम देवाः” असुराः असुरताः स्थानेषु ।
अस्ताः स्थानेभ्यः-इति वा । अपि वा ‘असुः’
इति प्राणनाम । अस्तः शरीरे भवति । तेन
तद्वन्तः । “सोर्देवान्-असृजत, तत् सुराणां सुर-
त्वम् । असोः असुरान् असृजत, तद् असुराणाम्-
असुरत्वम्” इति विज्ञायते । “ऊर्जाद उत यज्ञि-
यासः । अन्नादाश्च यज्ञियाश्च । ‘उर्क’-इति अन्न-
नाम । ऊर्जयति इति-सतः । पक्कं सुमवृक्णाम्-
इति वा । “पञ्चजना मम होत्रं जुषध्वम् ।”