सामग्री पर जाएँ
सर्वकोश
नाट्यशास्त्र: भाग २ (भरत मुनि - प्रदीप हिन्दी व्याख्या सहित: संगीत, वाद्य, ताल एवं रस-विधान)

नाट्यशास्त्र: भाग २ (भरत मुनि - प्रदीप हिन्दी व्याख्या सहित: संगीत, वाद्य, ताल एवं रस-विधान)

Natyashastra Part 2 of Bharata Muni with Pradipa Commentary

महर्षि भरत मुनि (टीकाकार: पं. बाबूलाल शुक्ल शास्त्री) द्वारा

DevanagariHindipublished668 पृष्ठ

पृष्ठ 255, कुल 668 में से

संदर्भ में पढ़ें
पृष्ठ 255

१४४ नाट्यशास्त्रम्
को उठी हुई रखकर नाभि पर रहे तथा दाहिना हाथ 'अराल' मुद्रा में
एक बाजू (पार्श्व) पर रखा जाए। ये अपने शरीर को स्थित, स्तब्ध या
हिलाते हुए न रखें (किन्तु वर्णित गति में ही शरीर को रखें) ॥७६-७८॥
यति, श्रमण (आदि की) गति—
यतीनां श्रमणानाञ्च ये चान्ये तपसि स्थिताः ।
तेषां कार्या गतिर्यै² तु नैष्ठिकं व्रतमास्थिताः ॥ ७९ ॥
अलोलंचक्षुश्च भवेद्युगमात्रनिरीक्षणः⁴ ।
उपस्थितस्मृतिश्चैव गात्रं सर्वं विधाय⁵ च ॥ ८० ॥
अचञ्चलमनाश्चैव यथावल्लिङ्गमाश्रितः ।
विनीतवेषश्च भवेत्काषायवसनस्तथा ॥ ८१ ॥
प्रथमं समपादेन स्थित्वा स्थानेन⁸ वै बुधः ।
हस्तञ्च चतुरङ्कृत्वो तथा चैकम्प्रसारयेत् ॥ ८२ ॥
प्रसन्नं¹¹ वदनं कृत्वा प्रयोगस्य वशानुगम् ।
अनिष्पणेन¹² गात्रेण गतिं गच्छेद्व्यतिक्रमात्¹³ ॥ ८३ ॥
उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः ।
एभिरेव विपर्यस्तैर्गुणैरन्येषु योजयेत् ॥ ८४ ॥
तथा¹⁵ व्रतानुगावस्था अन्येषां लिङ्गिनामपि ।
विभ्रान्ता चाप्युदात्ता वा ¹⁶विभ्रान्ता निभृतापि वा ॥ ८५ ॥
शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च ।
कार्या पाशुपतानाञ्च ¹⁷गतिरुद्धतगामिनी ॥ ८६ ॥
१. यतिनश्चाश्रमस्था ये—क०, यतीनाञ्चैव सर्वेषां—ख० ।
२. ऋषयस्तपसाञ्चैव—क० । ३. आलोलचक्षुः स्याच्चैव—क० ।
४. निरीक्षणे—क० । ५. नियम्य च—क० ।
६. तथा लिङ्गं समाश्रितः—ग० । ७. कृत्वा—ग० ।
८. स्थानेन नाट्यवित्—क० । ९. चतुरकं कृत्वा—क० ।
१०. प्रयोजनम्—ग० । ११. प्रसन्नवदनं—क० ग० ।
१२. सुनिष्पणेन—क० ।
१३. गच्छेदतिक्रमात्—क०, दतिक्रमान्—ग० । १४. लिङ्गिषु—क० ।
१५. व्रतानुगा च स्यादन्येषां लिङ्गिनां गतिः—ख०, ग० ।
१६. विभ्रान्ता विहृता तथा—क०; विभ्रान्तनिभृतापि वा—ख० ग० ।
१७. रुद्भ्रान्तगामिनी—क०; ग० ।