नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
सप्तम उच्छ्वासः । २१३
ष्ठीव्यतिकरे, नर्मसुखालापलीलयातिक्रामति स्तोककालकलापे, पुष्क-
राक्षोऽप्यभाषत ॥ क ॥
‘देवि१, विज्ञापयामि यद्यभयम् ॥ ख ॥
एवमनुश्रुतमस्माभिः ‘किल सकलनाकिनायकपुरंदरपुरःसराः स-
र्वेऽपि लोकपालास्त्वामभिलषन्तोऽन्तःकरणारण्यलभ्रमदनदावानला-
नलमायान्तमभ्यर्थितवन्तः यथा महानुभावा भवन्ति हि भवादृशोः
परोपकारव्रतधर्माणः, तदेष प्रार्थ्यसे स्वप्रयोजननिरपेक्षेण त्वयास्मदर्थे
दमयन्ती वरणीया, इति’ ॥ ग ॥
तदेवि, देवदूतकार्येणागतो निषेधेश्वरः ॥ घ ॥
पृच्छतु वा देवी पर्वतकम्’ ॥ ङ ॥
इति श्रुत्वा पुष्कराक्षभाषितम्, ईषद्विषाद्विलक्षस्मितस्मेरां दृशं
मयि साचि संचारितवती ॥ ॥ च ॥
मयापि संवादिते पुष्कराक्षवचने तस्मिन्, आकस्मिककठोरका-
ष्ठप्रहारव्यथामिवानुभवन्ती, विन्दतु वीणाक्वणो माधुर्यमितीव प्रतिप-
न्नमौनव्रता, लभेतां कर्णोत्पले परभागमितीव मुकुलितनयना, प्राप्नोतु
शोभां मुक्तावलीदीप्तिजालमितीव मुक्तस्मिता, गच्छतु छायां कण्ठा-
वलम्बिनी चम्पकमालेयमितीवाङ्गीकृतवैवर्ण्या, लभतां लीलकमल-
मिदं सौभाग्यमितीवोच्छ्वसितवदना, सा क्षणमभूत् ॥ छ ॥
तत्र च व्यतिकरे
विगलितविलासम्परसमाकस्मिकजातभङ्गशृङ्गारम् ।
मूकितमिव मूर्च्छितमिव मुद्रितमिव भवनमिदमासीत् ॥ २३ ॥
राजा तु ‘पर्वतक, ततस्ततः’ ॥ ज ॥
पर्वतकोऽपि ‘देव, श्रूयताम् ॥ झ ॥
अतः परम्
ईषन्निःसृतकुन्दकुङ्गलसहग्दन्तप्रभामञ्जरी
रोचिष्णुस्मितमन्थरां मयि दृशं संचारयन्ती मनाक् ।
अस्यन्ती करपद्मभृङ्गमधरे बन्धूकबुद्ध्यागतं
वारंवारमकम्पयत्तचलितस्तोकावतंसं शिरः ॥ २४ ॥
ततः परम् । वारितवारविलासिनीचाटुवचनक्रमम्, आकस्मिक-
विस्मयविस्तृतस्मितविलासम्, अतनुतुहिनाहतनवनलिनदलदीनदीर्घ-
१ ‘देव विज्ञापयसि’. २ ‘भवादृशः’.
२१४ नलचम्पूः ।
क्षणम्, उष्णसरलश्वासारम्भविषमविषादविच्छायिताननेन्दुद्युति,
तस्याः स्थानकमवलोक्य सखेदं सखीजनेन 'देवि, भवन्निःश्वासपवनप-
रंपरया पर्यस्त इवास्ताचलहस्तावलम्बनमयमाश्रयति भगवान्भानुः,
इयं च सौभाग्यशालिनि नले निलीनचित्तायास्तव लोकपालपार्थिव-
प्रार्थनाव्यतिकरमिममाकर्ण्य लज्जितेव पिहितश्रवणा दूरे भवति वास-
रश्रीः, इमानि निश्चलनिलीनमधुपनिपीयमानगर्भमधूनि संकोचयन्ति
लोचनानीव कमलानि, संविभागीकृतविषादा इव विलासवयस्याः
सरसीसरोरुहिण्यः, इमाश्च 'कथमस्मत्पतयो मनुष्यकन्यकां कामयन्ते'
इतीर्ष्याशोकवशादिव दिशः श्यामायन्ते, तत्प्रेष्यतामयं पर्वतकः' इत्य-
भिधीयमाना कथंकथमपि चिन्तान्तरायतिरस्कृतालापमीषदुन्नमय्य
मुखं समुल्लसदशोकपल्लवानुकारि करतलमुत्तानीकृत्य मामविस्मरणी-
यसंमानदानावसाने व्यसर्जयत् ॥ क ॥
विसर्जितश्च तया तत्कालमाविर्भवद्विषादवशसंपन्नमौनया न पुनः
संभाषितोऽस्मि, न वीक्षितोऽस्मि, न पृष्टम्, न संदिष्टं किमपि, केवलं
चलन्नेत्रविभागप्रान्ततरत्तारया दृष्टया समवलोक्य समुत्तानितकरक-
मलसंज्ञयैव कथमपि संप्रेषितः 'कष्टम्' इति चिन्तयन्नलसालसैरसम-
ञ्जसपातिभिः पश्चिममुखैरिव पादैरिहायातवान् ॥ ख ॥
तदेव दमयन्ती देवदूतकार्याङ्गीकरणव्यतिकरमिममाकर्ण्य परं
विषादमापद्यत ॥ ग ॥
अन्यच्च । मन्ये च ।
परिम्लानच्छायाविरहितसनिद्रद्रुमवनं
पतत्पक्षीभूतध्वनितशकुनोन्नादितनभः ।
वियोगव्याकूतादुपनदि रुदच्चक्रमिथुनं
विषीदन्त्यां देव्यामिदमपि विषण्णं जगदभूत् ॥ २५ ॥
इत्यभिधाय स्थिते पर्वतके तत्कालोचितमिममेवार्थं समर्थयन्नवस-
रपाठकः पपाठ ॥ घ ॥
ततः परमिति ॥ तस्याः स्थानकमवस्था । लज्जितेव पिहितश्रवणा । श्रवणं
नक्षत्रं श्रोत्रं च ॥ क ॥
-----------------------------------------------------------------
१ 'लोकपालपार्थिवयोः'. २ 'इमान्याश्चर्यनिश्चल'. ३ 'सरसीषु'. ४ 'उन्नम्य'.
५ 'पल्लवाकारि'. ६ 'सानेऽपि न किंचिदवादीत् व्यसर्जयच्च'. ७ 'दृशा'. ८ 'लालसै-
रिव'. ९ 'रिहाहमागतवान्'. १० 'व्याघाता'.
सप्तम उच्छ्वासः। २१५
'कन्यामन्यानुरक्तां कथममृतभुजो मानुषीं कामयन्ते
तन्वङ्गीः सस्मितास्याः स्मरविवशदृशो नाकनारीर्विहाय।
वक्तुं खेदादिवैतद्दिनपतिरधिकं व्रीडयैवावनम्रः
कोपेनेवारुणांशुः प्रविशति वरुणस्यालयं पश्चिमाब्धिम् ॥२६॥'
राजा तु तदाकर्णयन्, अवतीर्य सौधशिखरतलाल्लीलापदप्रचारेण
संध्यावन्दनैविधिरामोपविष्टजैपदद्विजजनसनाथसैकते सरित्संगमे
संध्याह्निकमकरोत् ॥ क ॥
ततश्च पश्चिमायां दिशि स्फुरति संध्यारागे, रुधिरासवपिपासया
कालवेतालमण्डलीव प्रधावमाना, त्रिभिः स्रोतोभिः प्रवृत्तया गङ्गया
सह संघर्षादिवानैकैः स्रोतसां सहस्रैर्गगनतलमिव प्लावयन्ती कालि-
न्दीव, व्यजृम्भत तिमिरपटलपङ्क्तिः ॥ ख ॥
अनन्तरं च चन्द्रमसा गर्भिणी पौरंदरी दिक्केतकीपुष्पपत्रपाण्डि-
मानमंगमत् ॥ ग ॥
उल्लास चै चण्डतरमारुतान्दोलितोदयाद्रिद्रुमकुसुमकिंजल्करेणु-
राजिरिव कपिशा शशाङ्कद्युतिः ॥ घ ॥
अथ क्रमेण पूर्वपयोधिपुलिनाद्राजहंस इव गगनमन्दाकिनी मुच्च-
लितः, केसरिकिशोर इवोदयगिरिगुहागह्वरात्तिमिरकरियूथपृष्ठलग्नः,
स्फटिकमयः पूर्णकुम्भ इव जगद्विजयप्रस्थानस्थितस्य मङ्गलाय मकर-
कतोः केनापि सज्जीकृतः, श्रीखण्डपिण्ड इव मण्डनाय माहेन्द्रदिशा
हस्तश्लेषोपलालितः, शङ्खिकापुष्पस्तबक इव गगनश्रिया श्रवणे संयो-
जितः, कुम्भ इवैकः प्राचीवनविहारिसुरकरीन्द्रस्य प्रकटतां गतः,
वासरविरामवल्लीमुल्लय कन्द इवोद्धतो निशाशवरिकया, पाण्डुपुष्पा-
क्षतगुञ्जापुञ्ज इव सिद्धवधूभिरुदयाचलंचतुष्पथे विरचितः, गण्ड-
शैल इव कैलासशिखराल्लुठित्वागतः, सीमन्तमौक्तिकमिव पूर्वदि-
ङ्मुखस्य, सितातपत्रमिव पूर्वाशाधिपतेः पुरंदरस्य, क्रीडामौक्ति-
कन्यामन्येति ॥ 'वक्तुं खेदात्' इत्यस्योपयोगि 'वरुणस्यालयम्' इति । वाचो
हि श्रोतारमपेक्षन्ते ॥ २६ ॥
अनन्तरमिति ॥ गर्भिणी हि केतकपत्रवत्पाण्डुतां धत्ते ॥ ग ॥
अथेति ॥ वनगहने हि विचरतः करिणः प्रायेणैक एव कुम्भस्थलविभागो
१ 'गाङ्गः'. २ 'विधीति क्वचित्'. ३ 'नृपद्विज'. ४ 'मगात्'. ५ 'प्रचण्ड'.
६ 'यूथशङ्कया'. ७ 'माहेन्द्रदिशा'. ८ 'पुष्प इव'. ९ 'गच्छतः'. १० 'चलचलच्चतुः'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
२१६ नलचम्पूः ।
ककन्दुक इव कालकुमारस्य क्षीरडिण्डीरपिण्डसदृशो दृष्टिपथमवत-
तार तारापतिः ॥ क ॥
तदनु च
मदनमिति युवानं यौवराज्येऽभिषिञ्च-
न्कृतकुमुदविकासा भासयन्दिङ्मुखानि ।
इमममृततरङ्गैः प्लावयञ्जीवलोकं
गगनमवजगाहे मन्दमन्दं मृगाङ्कः ॥ २७ ॥
तदनन्तरम्, आप्लावितमिव मुक्तमर्यादेन दुग्धवार्धिना, सिक्तैर्भू-
भागाङ्गणमिवामन्दचन्दनाम्बुच्छटाभिः, विलिप्तदिग्भित्तिकमिव सौ-
न्द्रसुधापङ्कपिण्डितैः, पूरितमिवोत्सर्पिकर्पूरपांसुवृष्ट्या, प्रविष्टमिव
स्फाटिकमणिमहामन्दिरोदरदरीम्, उत्प्लवमानमिव द्रवीभूततुहिना-
चलमहाप्लवेन, भुवनमासीत् ॥ ख ॥
ततश्च ।
कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्त्रायितं
मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः ।
मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः
श्वेतद्वीपजनायितं जनपदैर्जाते शशाङ्कोदये ॥ २८ ॥
अपिच ।
सर्वेऽपि पक्षिणो हंसाः सर्वेऽप्यैरावता गजाः ।
जाताश्चन्द्रांशुभिः सर्वे रौप्यपुञ्जाः शिलोच्चयाः ॥ २९ ॥
अपिच ।
सुधापङ्कोपलिप्तेव बद्धेव स्फटिकोपलैः ।
विलीनहिमदिग्धेव मेदिनी ज्योत्स्नया कृता ॥ ३० ॥
अपिच ।
सौधस्कन्धतलानि दीपपटलैः कम्पेन पाण्डुध्वजा
हंसाः पक्षविधूननेन मृदुना निद्रान्तनादेन च ।
लक्ष्यते । पाण्डुगुञ्जा हि मङ्गलाय स्युः । उदयाचलशब्दश्रुतेः सोमागमनसूचा ।
क्रीडार्थं मौक्तिककन्दुकः ॥ क ॥
मदनमिती ॥ यौवराज्याभिषेकाद्यनेककार्यव्यग्रतया मन्दमन्दावगाहः ॥ २७॥
१ 'हा'. २ 'संसिक्त'. ३ 'सारं'. ४ 'स्फटिक'. ५ 'दरीपु'. ६ 'सप्तम्यन्तम्'.
७ 'मृत्पिण्डेन'. ८ 'पक्षतिधून'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
लक्ष्यन्ते कुमुदानि पद्धदरुतैरुत्सर्पिगन्धेन च
क्षुभ्यत्क्षीरपयोधिपूरसदृशे जाते शशाङ्कोदये ॥ ३१ ॥
तथाविधे च चन्द्रोदयप्रपञ्चे हठादुत्कण्ठयाभिभूयमानो निषधना-
थश्चिन्तयांचकार ॥ क ॥
'इतश्चन्द्रः सान्द्रान्किरति किरणानप्रिपरुषा-
नितोऽपि प्रोन्मीलत्कुमुद्वनवायुर्विलसति ।
इतः कादम्बानां ध्वनितमपि निद्रालसदृशा-
मसह्यः सर्वोऽयं मनसिजमहिम्नः परिकरः ॥ ३२ ॥
अपि च ।
इतो मकरकेतनः किरति दुर्निवारः शरा-
नितोऽपि वयमाकुलाः कुलिशपाणिदत्ताज्ञया ।
तदेतदतिसंकटं यदिह कैश्चिदुक्तं जनै-
रितो विषमदुस्तटी भयमतो महान्व्याघ्रतः ॥ ३३ ॥
तदिदानीं किमिह कर्तव्यम्, कथं वा हास्येनाप्यवन्ध्यवचसामल
ङ्घनीयः खल्वादेशो लोकपालानाम्' इति चिन्तयन्नेकाकी पन्द्यामेव
विनिर्गत्य निजनिकेतनात्समन्तादापतद्भिः शशाङ्ककिरणैर्जालैः परिजनै-
रिख परिदर्शितवर्त्मा कैश्चित्काललवैः कैलासकूटायामानाट्टालकाभो-
गभव्यं भीमभूपालभवनमवाप्य कन्यान्तःपुरं पुरंदरवरप्रदानाददृश्य-
मानरूपः प्रासादपालकैः प्रविवेश ॥ ख ॥
प्रविश्य च दूरादभिमुखागतेनानवरतदह्यमानकृष्णागुरुधूपधूमव-
र्तिनर्तकेन बहलयक्षकईमाम्वुसिक्तसौधस्कन्धसंधिसंचारिणा गन्धवा-
हेन कृताभ्युत्थान इव, परिक्रम्य स्तोकमन्तरम् 'इत इतो देवी वर्तते'
इति गीतगोष्ठीस्थितसखीगीतझंकारेणाहूयमान इव, यत्रास्ते दमयन्ती
तत्सौधपृष्ठमारूढवान् ॥ ग ॥
आरुह्य च मनागव्यवहितोऽनुपलक्ष्यमाण इव, वेणुवीणाकणानुसा-
रिणा कोमलकाकलीप्रायेण किंनरीप्रमुखसखीनां गीतेन विनोद्यमा-
प्रविश्य चेति ॥ कर्पूरकस्तूरिकादीनां क्षोदो यक्षकर्दमः ॥ ग ॥
आरुह्य चेति ॥ ईषत्कलोऽस्यास्तीति काकली । 'निषादः काकलीसंज्ञो द्विश्रु-
त्युत्कर्षणाद्भवेत्' । कज्जलेन कलङ्किता कलङ्क इवाचरितवती नयनोत्पलपक्ष्मपा-
१ 'क्षारपयोधि'. २ 'इतोऽपि विषमा तटी म', 'इतो विषमदुस्तटीतटमि'. ३ 'किरण
प्रभाभी'. ४ 'कुत्रचिन्नास्ति'. ५ 'अक्षनप्रमवाव्द'.
९S
नाम्, अलकवल्लरीमध्यनिवेशिततारानुकारिमौक्तिकेने कज्जलकलङ्कि-
तनयनोत्पलपक्ष्मपालिना मुखेन सचन्द्रगगनस्पर्धया भूतलमपि पूर्णो-
दितेन्दुमण्डलमिवापादयन्तीम्, उच्चकुचमण्डलविलोलया सस्मरसप्त-
र्षिग्रहगणपङ्क्त्येव हारलतया कृतकण्ठकन्दलाश्लेषाम्, ईषत्कपोलपालिं
परामृशता चाटुकारेण वसन्तसमयप्रहितदूतेनेव कर्णलग्नेन कुसुमम-
ञ्जरीद्वितीयेन बालपल्लवेन विराजितवदनाम्, अच्छाच्छैः कस्तूरिका-
पङ्कपत्रभङ्गैर्भुजंगैरिव लावण्यामृतरक्षागतैरलंकृतभव्यभुजशिखराम्,
आसन्नभुवि विकीर्णैः पाण्डुपुष्पप्रकरैर्गगनादवतीर्य रूपालोकनकुतूह-
लिभिर्नक्षत्रैरिव परिवृताम्, ऊरुनितम्बमण्डलस्पर्शसुखलम्पटतया
नीवीप्रान्तपुञ्जिततरङ्गं क्षीरोदमिव वस्त्रतां गतमच्छपाण्डु नेत्रपट्टं
परिदधानाम्, 'अहमेव त्वया स्वयंवरे वरणीयः' इत्यार्थितया पादल-
ग्नेन शेषोरगेणेव रौप्यनूपुरवलयेन विराजितवामचरणपल्लवाम्, वि-
विधविलासवर्त्तिकाभिरिवाकारिताम्, अमृतद्रववर्णकैरिव चित्रिताव-
यवाम्, आनन्दकन्दलैरिव घटिताम्, मोहनमणिशिलायामिवोत्की-
र्णाम्, शृङ्गारदारुणीवोत्कुट्टिताम्, वशीकरणपरमाणुभिरिव विनिर्मि-
ताम्, मँदनमृत्पिण्डेनेव निष्पादिताम्, वज्रलेपपुत्रिकामिव दृशोः,
आकर्षणमणिशलाकामिव हृदयस्य, जीवनौषधिमिवानुरागस्य, जय-
पताकामिव मदन॑स्य, बहलचन्दनाम्बुच्छटार्द्रितभुवि विकीर्णसुरभिप-
रिमलमिलन्मधुकररवानुमेयपाण्डुरपुष्पप्रकरे मसृणसितसुधाबन्धपि-
च्छले सौधस्कन्धे ज्योत्स्नामृतस्पर्शसुखमनुभवन्तीम्, अच्छांशुस्फटि-
कमणिपर्यङ्किकाङ्कभाजं दमयन्तीमलब्धनिद्रामद्राक्षीत् ॥ क ॥
तां चावलोक्य विचिन्तितवान् ॥ ख ॥
'अहो स्थानेऽभिनिवेशो लोकपालानाम् । अशेषसुखनिधानाय को
न स्पृहयतिँ ॥ ग ॥
मन्ये च ।
लियंन्त्र । कलङ्क इवाचरति स्मेत्याचारे क्विन्निष्टे ॥ अच्छेति ॥ अमृतं हि भुजंगै
रक्ष्यते । विविधविलासवर्त्तिकाश्चित्रकूर्चिकास्ताभिराकारितामालिखिताम् । आकार-
शब्दादाचारक्विबन्तान्निष्ठायां सिद्धम् ॥ क ॥
१ 'मौक्तिकेनवीनकज्ज' . २ 'उरुनितं', 'गुरुनि'. ३ 'वोत्कुट्टिताम्'. ४ 'मदनमदमृ-
त्पिण्डेन', 'मदनचन्दनकुंकुमह्ररिद्रामृ'. ५ 'शृङ्गारस्थ'. ६ 'वानयम्'. ७ 'स्पृहयति भट्ट-
सोमेश्वरः'
सप्तम उच्छ्वासः । २१९
विस्फारिततारैक्षगणैरिमामेव पश्यन्नयमाकाशः सग्रहोऽभूत् ॥ क ॥
अयं च चन्द्रश्चन्दनपाण्डुभिः करैरिमामेव परामृशन्मदनानल्दा-
ह्मयीं व्रणलेखां कलङ्कच्छलेन हृदयेनोद्वहति ॥ ख ॥
अयमपि समीपोद्यानमारुतोऽस्याः समर्पितकुसुमगन्धः शनैरुत्त-
रीयांशुकमाक्षिपन्मदनातुरस्तिर्यक् पतति ॥ ग ॥
सर्वथा २ जितं मनुष्यलोकेन, यत्रैवंविधमचिन्त्यम्, अनालोचनगो-
चरम्, अप्रतिमरूपम्, अद्भुतम्, अमूल्यमुदपद्यत स्त्रीरत्नम् ॥ घ ॥
आः प्रजापते, परिणतशिल्पोऽसि । संसार, सनाथोऽसि । मदन,
महोत्सवानसि । चक्षुः, कृतार्थमसि । हृदय, पूर्णमनोरथमसि ।
दूरागमनश्रम, सफलोऽसि ॥ ङ ॥
सकलयुवजनमनोमधुकराकृष्टिकुसुमितलतिके निजनयननिर्जित-
राजीवे जीव चिरम् ॥ च ॥
तथाहि ।
लक्ष्मीं बिभ्राणयोः कांचिच्चञ्चद्भ्रूभङ्गभागयोः ।
बलिं यामो वयं तन्वि तवाब्जसदृशोर्दृशोः ॥ ३४ ॥
अपि च ।
किंनरवदनविनिर्गतपञ्चमगीतामृते श्रुतिं श्रयति ।
हरति हरिणीदृशो दृक् सालसवलिता च लुलिता च' ॥ ३५ ॥
विस्फारीति ॥ तारा नक्षत्राणि कनीनिका च । ग्रहाः सूर्यादयो भूताद्यभि-
निवेशाश्च ॥ क ॥
अयमपीति ॥ अन्योऽपि स्मरातुरः कुसुमगन्धं कस्तूरिकादि चार्पयन्संव्या-
नाकर्षणपरस्तिर्यक्पतति ॥ ग ॥
आः प्रजेति ॥ ‘संसार’ इत्यादीनि प्रत्येकं संबोधनानि ॥ ङ ॥
लक्ष्मीमिति ॥ हे तन्वि, तव नेत्रयोर्वयं बलिं याम उपहारीभवाम इति परम-
प्रीतिगर्भा लोकोक्तिः । अब्जानि लक्ष्मीं बिभ्रति । तथा भ्रूरेव भङ्गस्तरङ्गः स भाग
एकदेशो ययोः । यदा तु ‘चञ्चद्भ्रूभृङ्गसङ्गयोः’ इति पाठः तदा भ्रुवावेव भृङ्गौ
तयोः सङ्गो यत्र ॥ ३४ ॥
किंनरेति ॥ यत एव हरिणीदृक्, अत एव गीतानुरागलक्षणं हरिणी हेवाक-
मनुसरति ॥ ३५ ॥
१ 'अयमपि समीरणः समीपोद्यानगतोऽस्याः'. २ 'सर्वथा स्वलोकायितं म'.
३ 'कृतश्रवणासङ्गयोः'.
१२० नलचम्पूः ।
इत्यनेकविधानि चिन्तयन्मृदुलीलापदैरागत्य गीतगोष्ठीस्थितस्य
'कोऽयम्' इति विस्मयैविस्फारितलोचनस्य संभ्रमवतः सखीकदम्बकस्य
मध्यमविशत् ॥ क ॥
प्रविष्टे च तस्मिन्, आकस्मिकविस्मयेन विस्फारितानि, भयेन
भ्रमितानि, कौतुकेनोत्तानितानि, व्रीडया वलितानि, मुदा मिलदरा-
लपक्ष्मणि, स्मराकूतेन विलुलितानि, दिदृक्षारसेनानिमिषाणि, दृष्टि-
संघट्टनेन मुकुलितानि, विलासेन मिलितानि, चिरं चक्षूंषि बिभ्राणाः
किमपि चलितासनम्, उत्कम्पितहृदयम्, अपसरद्धैर्यम्, अवगल-
त्स्वेदसलिलम्, उत्फुलकिताङ्गम्, अनङ्गभङ्गुरम्, अवलोकितान्योन्य-
मुखमवतस्थिरे तदभिमुखाः सख्यः ॥ ख ॥
दमयन्त्यपि 'देवी, वर्धयामो वर्धयामः । कोऽपि कस्याश्चिज्जीविते-
श्वरोऽयमैत्रावगतो दृश्यते' इति हर्षोत्कर्षगद्गद्गिरां, गीतमुत्सृज्य स-
संभ्रमोत्थितकुब्जवामनकन्यकानां मृदुकरतलतालिकाकलितकलक-
लेन मनाग्विलासवलितमुखी तदभिमुखमवलोक्य शय्यातलादुदच-
लत् ॥ ग ॥
'आः कुतोऽस्यानेकप्रकाररक्षक रक्षते पक्षिणामपि दुष्प्रवेशे विशे-
षतो राजन्यां कन्यान्तःपुरे प्रवेशः' इत्यद्भुतरसावेशस्तिमितेन किंचि-
त्संचारितेन चक्षुषा पुनःपुनर्नलमवलोक्य चिन्तयांचकार ॥ घ ॥
धन्या काप्युपराधितांद्रितनया यस्यास्त्वमाह्लादय-
न्मुक्ताहार इव प्रसारितभुजः कण्ठे विलोठिष्यसि ।
धातस्तात तवापि धन्यममुना सृष्टेन मन्ये श्रमं
मातर्मेदिनि वन्द्यसे किमपरं यस्यास्तवायं पतिः' ॥ ३६ ॥
एवं चिन्तयन्त्येव तत्कालमाकूतकौतुकहर्षभयाद्यनेकरसपरम्परा-
परावर्तितनयनोत्पला लज्जावनमितमुखी विधेयविवेकवैकल्यमभजत
॥ ङ ॥
धन्याकेति ॥ मातृशब्दं जननीपर्यायमपि स्त्रियः सपत्न्यादिष्वपि प्रणयसं-
बोधने प्रयुञ्जते इति नले भूपतावप्यर्थिन्या दमयन्त्या 'मातर्मेदिनि' इति संबो-
धनं न दुष्टम् । अन्यथा सपत्नीं प्रति मातरित्यामन्त्रणमनुचितम् ॥ ३६ ॥
१ 'इत्यनेकविधं'. २ 'विस्मयविस्मित'. ३ 'सखीजनकद'. ४ 'तानि चचि'.
५ 'तलाज्जवादुद'. ६ 'अनेकप्रासादरक्षणारक्षि', 'प्रकाररक्ष'. ७ 'राजकन्या'. ८ 'किंचि-
त्साञ्चितं'. ९ 'करः'.
सप्तम उच्छ्वासः । २२१
नलोऽपि 'विहंगवागुरिके, भवत्स्वामिन्याः किमेवंविधः समाचारः,
यदभ्यागतजनेन सह स्वागतालापमात्रेणापि न क्रियते व्यवहारः'
इति तस्याः समीपवर्तिनीं पूर्वपरिचितां किंनरीमभाषत ॥ क ॥
सापि ससंभ्रमप्रणामपूर्वमिदमवादीत् ॥ ख ॥
'किंचित्कम्पितपाणिकंकणरवैः पृष्टं ननु स्वागतं
व्रीडानम्रमुखाव्जया चरणयोर्न्यस्ते च नेत्रोत्पले ।
द्वारस्थस्तनयुग्ममङ्गलघटे दत्तः प्रवेशो हृदि
स्वामिन्किं न तवातिथेः समुचितं सख्याऽनयाऽनुष्ठितम्॥३७॥
तदितः ससंभ्रमोत्थितयानया समर्पितमिदमुल्लसन्मणिपर्यङ्किका-
पृष्ठमधितिष्ठतु देवः ॥ ग ॥
त्वमपि देवि, विद्रुममणिपर्यङ्किकामिमामदूरवर्तिनीमध्यास्व ॥ घ ॥
भवतु च भवतोः परमुखेन श्रुतान्योन्यस्वरूपयोरिदानीमात्मानुभ-
वेन नयननिर्वृतिः, फलन्तु मनोरथाः सखीनाम्' इति ॥ ङ ॥
तयाभिहितौ तौ सर्वसत्वरसखीकरपरामृष्टयोः स्फटिकप्रवालपर्य-
ङ्किकयोरुत्सङ्गभागं भेजतुः ॥ च ॥
ततश्च तौ
हर्षाद्वाष्पचिते, भयाच्चरलिते, विस्फारिते विस्मया,-
दौत्सुक्यात्स्तिमिते, स्मराद्विलुलिते, संकोचिते लज्जया ।
रूपालोकनकौतुकेन रमसादन्योन्यवक्त्राम्बुजे
किंचित्साचि च संमुखं च नयने संचारयामासतुः ॥ ३८ ॥
तत्र च व्यतिकरे
अन्तः केवलमुल्लसन्ति न पुनर्वाचां तु ये गोचरा
येषां नो भरतादयोऽपि कवयः कर्तुं विवेकं क्षमाः ।
लज्जामन्थरयोः परस्परमिलद्दृष्टिप्रपाते तयो-
स्ते सर्वे समकालमेव हृदये केऽप्याविरासंन्नरसाः ॥ ३९ ॥
अपि च । तत्र च व्यतिकरे
कर्णान्तकृष्टवलयीकृतचापचक्र-
श्वञ्चद्गुणस्खलनजर्जरितप्रकोष्ठः ।
लक्ष्यद्वयेऽपि युगपद्विशिखान्विमुञ्च-
न्संधानसत्वरकरः श्रमवान् स्मरोऽभूत् ॥ ४० ॥
१ विनोदाः २ रासाः
२३२ नलचम्पूः ।
अनन्तरमाप्तसखीवचनेन स्वयमर्घदानोद्यतां ताम् 'अलमलमुत्प-
लाक्षि, प्रयासेन । न खल्वसि पात्रं परिश्रमस्य । न पारिजातमञ्जरी
जरठपवनप्रेङ्खोलनायासं सहते' इति दमयन्तीमभिधाय तस्याः स्वादु-
दुर्लभसूक्तिसुधासेककोमलालापपण्डिताभिः सखीभिः सह परिमित-
परिहासेन, किमपि जल्पन्, किमपि हसन्, किमपि हासयन्, मुहू-
र्तमिवासांचक्रे ॥ क ॥
चिन्तितवांश्च ।
लीलाताण्डवितध्रुवोः स्मरभरभ्रान्तोल्लसत्तारयो-
रन्तर्मौक्तिकमालिकाधवलयोर्मुग्धस्मितस्मेरयोः ।
किंचित्साचिदृशोः कृतानिलचलन्नीलोत्पलस्पर्धयो-
रुल्लोलैरिव याति पक्ष्मलदृशः कान्तिर्मदीये मुखे ॥ ४१ ॥
अपि च ।
दरमुकुलितनेत्रप्रान्तपर्यस्ततारं
तव तरुणि सलज्जं सस्मितं सस्मरं च ।
क्षणमभिमुखवक्त्रे विस्मयस्मेरदृष्टौ
मयि वलति वलक्षं वीक्षितं मा निरौत्सीः ॥ ४२ ॥
किंचान्यदपरमिदमाशास्महे ।
लावण्यामृतदीर्घिका कुलगृहं सौभाग्यसौन्दर्ययो-
स्त्रैलोक्याकररत्नकन्दलिरियं जीव्यात्सहस्रं समाः ।
लोकालोकनकौतुकाय बहुना शिल्पश्रमेणादरा-
न्मन्ये यां विधिना विधाय विहितं सृष्टेर्ध्वजारोपणम् ॥४३॥
अहो आश्चर्यम् ।
रङ्गत्यङ्गे कुरङ्गाक्ष्याश्चक्षुर्मे यत्र यत्र तु ।
दृश्यते तत्र तत्रैव बलोद्वाणकरः स्मरः ॥ ४४ ॥
लीलेति ॥ उल्लोलैर्याति तरङ्गैः स्फुरति ॥ ४१ ॥
दरेति ॥ तवाभिमुखवक्त्रे मयि एवं गुणविशिष्टं वीक्षितं वलक्षं धवलं मा
निरौत्सीः ॥ ४२ ॥
लावण्येति ॥ आलोकनाय कौतुकमालोकनकौतुकम् । लोकस्यालोकनकौतु-
कम् । तेन पश्यतु लोको, द्रष्टव्यदर्शनादृष्टफलमाप्नोत्वित्यर्थः ॥ ४३ ॥
रङ्गेति ॥ तुः पुनरर्थे । किं पुनः यत्र यत्राङ्गे चक्षू रङ्गति तस्य साधिष्ठान-
त्वात् । स्मरवाणबाधा प्राप्यते ॥ ४४ ॥
१ 'निरोधीः', 'विरोधीः'. २ 'सौन्दर्यसौभाग्ययोः'. ३ 'विहाय'. ४ 'हि'. ५ 'ब्लान्-
बाण', 'चलद्वाण'.
सप्तम उच्छ्वासः। २२३
तत्कथमियमन्यार्थे$^१$ प्रार्थ्यते। तद्ह्यतामयं परप्रेष्यभावः ॥ क ॥
यतः। तिरयति स्वातन्त्र्यसुखम्, अभिमुखयति$^२$ पारवश्यक्लेशम्,
आमन्त्रयति तिरस्कारम्, आदरयति दैन्यम्, आह्वयति लघिमानम्,
आवाँहयति हास्यपदम्, समानयत्यौचित्यभङ्गम्$^४$, अङ्गीकारयति कार्प-
ण्यम्, अपहस्तयति वस्तुभावम्$^५$, पुरुषस्य ॥ ख ॥
तथाहि।
सोच्छ्वासं मरणं निरग्नि दहनं निःशृङ्खलं बन्धनं
निष्पङ्कं मलिनं$^६$ विनैव नरकं सैषा महायातना।
सेवासंजनितं जनस्य सुधियो धिक्पारवश्यं यतः
पञ्चानां सविशेषमेतदपरं षष्ठं महापातकम् ॥ ४५ ॥
किं चान्यत्।
प्रस्तुतस्य विरोधेन ग्राम्यः सर्वोऽप्युपक्रमः।
वीणायां वाद्यमानायां वेदोद्गारो न रोचते ॥ ४६ ॥
तत्किमिदानीमिदमुच्यते। 'लोलाक्षि, लोकपालास्त्वामस्मन्मुखेन
वृण्वन्ति इति प्रस्तुतानुरागभङ्गः, तदादेशोऽपह्नूयते$^७$ स्वामिन्यन्यथा
कथ्यते$^८$ श्रेयस्खलनम्, यथावृत्तमेवाख्यायते$^९$ स्वार्थहानिः, तद्वरमस्तु
स्वार्थविघातो न तु विश्वस्तदेवतावञ्चनापातकम्' इति चिन्तयन्नशेष-
ममपि तस्यै पुरंदरादेशं$^{११}$ सप्रपञ्चमाचचक्षे ॥ ग ॥
सोपि$^{१३}$ स्तोकस्मितस्निग्धधम्रमुखी$^{१४}$ 'हं हे प्रियंवदिके, प्रियास्मज्जी-
वितयाम्बया तातेन च$^{१५}$ मध्याह्ने समाहूय किमुक्तासि, किं शिक्षिताऽसि।
न नाम बालेयम्, अविनीतेयम्, आग्रहग्रहमस्तेयम्$^{१६}$, इति
तत्कथमिति ॥ अन्येषामिन्द्रादीनामर्थेऽन्यार्थे ॥ क ॥
यत इति ॥ आङ्पूर्वस्य वहेतेः करोत्यर्थत्वादावाहयति कारयतीत्यर्थः ॥ ख ॥
प्रस्तुतेति ॥ उभयानुरागौचित्यादात्मार्थस्य प्रस्तुतत्वम् ॥ ४६ ॥
सापीति ॥ स्तोकेत्यादिना अर्थिनोऽपि लोकपालानन्त्यवज्ञा, नलं प्रत्यनुरा-
१ 'तत्किमय'; 'अथ कथमियमन्यथाप्रा'. २ 'मुखरयति पार'; 'अतिमुखरय'. ३ 'आरो-
हयति प्रतिदास्यपदम्'. ४ 'आनयति'. ५ 'पुरुषभावम्'. ६ 'गलनं'; 'नलिनं'. ७ 'अप-
धीयते'. ८ 'कथ्याने'. ९ 'श्रेयःसंवलनम्'. १० 'यथावृत्तमाख्या'. ११ 'वचनपात'. १२
'देशप्रपञ्चमा'. १३ 'ततः सापि'; 'सोऽपि'. १४ 'स्तोकस्मितमुग्धनम्र'; 'स्तोकस्मितस्नि-
ग्धमुग्धनेत्रमुखी'; 'स्निग्धमुक्तनम्र'. १५ 'कुप्यता तातेन च'. १६ 'आग्रहग्रस्ते'; 'आग्र-
हम्रस्तेयम्'.
१२४ नलचम्पूः ।
केनापि कर्णेजपेन तातस्य हृदयाद्दूरीकृताहम् । वन्द्याः खलु गुरवो
देवाश्च बिभेमि तेभ्योऽहम्' इति । प्रियंवदिकाख्यया सख्या सार्ध-
मैन्यालापमकरोत् ॥ क ॥
नलोऽपि 'मदिराक्षि, मदयति मदिरा, तरलयति तारुण्यम्, अन्ध-
यति धनम्, उत्पथयति मन्मथः, विरूपयति रूपाभिमानः, खर्वयति
गर्वः । सर्वजनप्रसिद्धमेतत् । किंतु त्वमिदमसत्यतां मौनैषीः । व्यभि-
चरतु तवाङ्गे सर्वमेतत् । नहि शशिनि वह्निः, अमृते च विषाङ्कुरः
संभवति । तदिमं देवादेशं मावज्ञासीः । सर्वथा प्रभवन्ति प्राणिना-
ममी लोकपालाः । तत्रापि विशेषतः सकलत्रिदशाधिपतिरशेषसुरकि-
रीटमाणमयूखमालाचितचरणारविन्दः पुरंदरो देवः । तद्गृह्णीं कमप्य-
मीषाममृतभुजां मध्ये । मानय स्वर्गसुखानि । अभूमिरसि मर्त्यलोक-
स्तोकसुखानाम्' इति पुनस्तामभ्यधात् ॥ ख ॥
एवंविधे च व्यतिकरे दमयन्त्या पुनरुक्तमिमं जल्पमरण्यकरि-
ण्येवारंतुदमङ्कुशमसहमानया मनाक्तरलिते शिरसि, स्तोकीकृते
मनसि, मुक्ते निःसहनिःश्वासमरुति, परावर्तिते चक्षुषि, विवर्णतामा-
नीते वदनारविन्दे, प्रस्तावपण्डिता प्रियंवदिका प्राह ॥ ग ॥
'देव, श्रुतं श्रोतव्यम्, अवधारितो देवादेशः । किं तु न स्वतन्त्रे-
यम्, ईश्वरेच्छया प्रवृत्तिनिवृत्तयो यतः प्राणिनाम्, अनालोचनगोच-
रश्चायमनुरागोऽङ्गनाजनस्य ॥ घ ॥
तथाहि ।
तीव्रतपनतापप्रियाम्भोजिनी न सहते स्तोकमप्यमृतमुचो रुचश्च-
न्द्रस्य, परिम्लायति मालतीमालिका सलिलसेकेन ॥ ङ ॥
प्रसिद्धं चैतत् ।
भवति हृदयहारी कापि कस्यापि कश्चि-
न्न खलु गुणविशेषः प्रेमबन्धप्र्रयोगे ।
किसलयति वनान्ते कोकिलालापरम्ये
विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ ४७ ॥
गाग्रहं चान्यालापव्याजेन दमयन्ती प्रतिपादितवती । न नामेति वितर्के । 'किं
दूरीकृताहम्' इति वितर्कः ॥ क ॥
१ 'अहमिति'; 'अहमपि' २ 'मन्योन्यालापलीलामकरोत्' ३. 'इति' ४ 'मनैषीः'
५ 'व्यसिचरति' ६ 'तमिमं' ७ 'वृणुष्व' ८ 'अयोगिनि' ९ 'प्रासकल्पनप्रयोगे'
एवमनेकविधोपाख्याननिपुणया तत्कालोचितम्, अनुच्छस्मितसुधा-
स्निग्धम्, अविरुद्धम्, परिमितपरिहाससुन्दरम्, अनुवृत्तिबृंहितानुरा-
गम्, उचितचाटुचटुलम्, अशाठ्यम्, अकठोरम्, अनुज्झितप्रियम्,
प्रियंवदिकया सहाल्पालपं जल्पन् 'अयुक्तमिह कन्यान्तःपुरे चिरं
स्थातुम्' इति चिन्तयन्नापृच्छथ दमयन्तीं नलः पर्यङ्किकापृष्ठादुदति-
ष्ठत् ॥ क ॥
प्रथमोत्थितया च तया लज्जावनम्ववदनारविन्दया सह सखीकद-
म्बकेन द्वित्राणि पदान्यनुगम्यमानो विहँसन् 'अलमलमायासेन,
स्थीयतां सुखम्' इत्यभिधाय स्वगृहानयासीत् ॥ ख ॥
गत्वा च शिरीषकुसुमदाममृदुनि शय्यातले निषण्णश्चिन्तयांच-
कार ॥ ग ॥
हर्षादुत्पुलकं विकासि रभसादुत्तानितं कौतुका-
च्छृङ्गारादलसं, भयात्तरलदृङ् नम्रं च लज्जाभरात् ।
तस्यास्तन्नवसंगमे मृगदृशो दृश्येत भूयोऽपि किं
किंचित्काञ्चनगौरगण्डगलितस्वेदाम्बुरम्यं मुखम् ॥ ४८ ॥
अपिच।
अपसरति न चक्षुषो मृगाक्षी
रजनिरियं च न याति नैति निद्रा ।
प्रहरति मदनोऽपि दुःखितानां
बत बहुशोऽभिमुखीभवन्त्यपायाः ॥ ४९ ॥
इति विविधवितर्कापेशविध्वस्तनिद्रः
सजलजडिम मीलत्पक्ष्म चक्षुर्दधानः ।
हरचरणसरोजद्वन्द्वमाधाय चित्ते
नृपतिरैपि विदग्धः स त्रियामामनैषीत् ॥ ५० ॥
इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो-
जाङ्कायां सप्तम उच्छ्वासः समाप्तः ॥ ग्रन्थोऽपि समाप्तः ॥
इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः ।
शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥
१ 'चितमुवा', 'स्निग्धम्'. २ 'परिमितं'. ३ 'असाध्यकठोरम्'. ४ 'पर्यङ्किकातलादुद'.
५ 'विरहातुरामलमलभ्रया'. ६ 'चक्षुषोः'. ७ 'नृपतिरयम सञ्जीतां त्रि०'.
२२६ नलचम्पूः ।
श्रीप्राग्वाटकुलान्धिवृद्धिशशभृच्छ्रीमान् यशोराज इ-
त्यार्यो यस्य पिता प्रबन्धसुकविः श्रीचण्डसिंहोऽग्रजः ।
श्रीसारस्वतसिद्धये गुरुरपि श्रीलूलिगः शुद्धधीः
सोऽकार्षीद्दमयन्त्युदारविवृतिं श्रीचण्डपालः कृती ॥
इति श्रीचण्डपालविरचिते दमयन्तीकथाविवरणे सप्तम
उच्छ्वासः समाप्तः ॥
नलचम्पूस्थश्लोकानामकारादिक्रमेणानुक्रमणिका ।
उच्छ्वासः मूलानि श्लोकसंख्या उच्छ्वासः मूलानि श्लोकसंख्या
५ अंससंसिजलार्द्र- ३७ ६ अयि भवत कृतार्थाः ८०
१ अक्षमालाप्रवृत्तिज्ञा ७ ६ अरुणमणिकिरण- ३९
२ अखण्डितप्रभावोऽथ ३१ ४ अलंकृतनिशान्तेन १२
१ अगाधान्तःपरिस्पन्दम् ३ ५ अवतरति घृताची- ५१
७ अगस्त्यामिव चेतसः १५ ५ अविरतमिदमम्भः ६१
७ अङ्गाः कङ्कलिङ्ग- ६ ४ अवृष्टिनष्टधूलीक- १३
१ अच्छाच्छैः शुकपिच्छ- ४६ ५ असमहरितीरं ९
१ अजनि जनित- ५० १ अस्ति स्वर्गसमः ५४
६ अजनि रजनिः ३५ १ अस्तु स्वस्ति समस्त- ५५
४ अतिललिततरं ५ ४ अहीनां मालिकां २९
३ अत्रान्तरे तरणि- ३ १ आकर्ण्य सरयौवराज्य- ४०
१ अत्रिजातस्य या ९ १ आकारः स मनोहरः ५८
१ अथ कथमपि नाथं ५१ ७ आज्यं प्राज्यमभिन्न- ११
३ अथ नरपतिदत्ते ८ ७ आज्यप्राज्यपरान्न- १२
३ अथ विमलदुकूल- २१ ६ आनन्ददायिनस्ते ४२
३ अथ मे सुबहोः १२ ५ आनन्दिसुन्दर- १२
७ अथास्मत्कुलसंततिः १ ७ आ पूर्वापर- ४
७ अनुगुणघटनेन ५ ३ आवभ्रत्परिवेष- ३२
५ अनुभवतु चिराय २८ ७ आ ब्रह्मावधि २
२ अनेकधा यः किल- २० ६ आरुह्यैताः शिखरि- ६७
७ अन्तः केवल ३९ ६ आवासाः कुसुमा- ६१
७ अपसरति न चक्षुषो ४९ ५ आविर्भूतविषा- १६
६ अपसृताम्बुतरङ्गि- ७४ ५ आसीद्विपण्डित- ३१
५ अपहस्तितान्तराया- ५६ ७ आसेतोः कपिकी- ३
१ अप्रगल्भाः पदन्यासे ६ ४ आस्यश्रीः संनिमे- १६
३ अपि रेणुकृतक्रीडं २७ ५ आहूतोदीच्यभूपेन २४
१ अब्जश्रीसुभगं ५३ ५ आह्लादयन्ति मृदवो ६८
५ अभिलषति नाल- ७ २ आह्लादयन्ति सौम्याम्बः २४
३ आमन्दानन्दनिष्यन्द- २५ ७ इतश्चन्द्रः सान्द्रा- ३२
६ अयं हि प्रथमो रागः ४६ २ इति जनितमुदिन्दोः ३९
२ नलचम्पूस्थश्लोकानां
उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या
६ इति विविधमुदञ्च- ४७ | ४ एताः प्राप्य परोपकार- २१
७ इति विविधवितर्कां- ५० | ४ एताः सान्द्रद्रुमतल- ४
७ इतो मकरकेतनः ३३ | ६ एतास्ताः परिपक्व- ७१
१ इत्थं काव्यकथा १५ | २ एषा मे हृदयं जीव २१
४ इदं गोदावर्या- २५ | ५ एषा सा विन्ध्यमध्य- ३५
४ इदं मन्दाकिन्या २४ | ४ कंदर्पस्य जगज्जैत्र- ६
३ इदं राज्यमियं १३ | ५ कः करोति गुणवा- १४
१ इन्दोः सौन्दर्य- ५७ | ६ कदा किल भविष्य- २१
५ इक्षा क्रतून्युग- ५४ | ७ कन्यामन्याऽनुरक्तां २६
२ इह कवलितकन्दं ११ | ५ कर्णमूलविषये ६२
५ इह चरति चकोरः ७३ | ७ कर्णान्तकृष्टवलयी- ४०
२ इह पुनरनिशं १२ | १ कर्णान्तविभ्रमभ्रान्त- १३
६ इह भवतु निवासः ७३ | ५ कर्पूराम्बुनिषेक- २१
७ ईषन्निःसृतकुन्द- २४ | ७ का नाम तत्र चिन्ता ७
४ उचितमुचित- २२ | ६ कालमिव कलाबहुलं ३७
६ उच्चैः कुम्भः कपिश- ६० | १ काव्यस्याग्रफलस्येव १७
७ उच्चैः शाखाप्रसंलग्ना ४७ | २ किं कर्पूरकणाः ३८
६ उज्ज्वलसुवर्णपदक ४१ | १ किं कवेस्तेन काव्येन ५
५ उड्डीय वाञ्छितं ४ | ७ किंचित्कम्पितपाणि ३७
६ उत्कम्पाङ्गलितां- ६९ | ४ किं तेन जातु जातेन १९
१ उत्फुल्लगल्लै- २३ | ७ किंनरवदनविनि- ३५
६ उदयगिरिगतायां १ | १ किं लक्ष्मीः स्वयमागता- ५६
१ उदात्तनायकोपेता २५ | १ किं स्यादञ्जनपर्वतः ४४
५ उन्मादिनी मद- १० | ४ किमपि परिजनेन ३३
५ उन्मादि यौवन- ६५ | १ किमश्वः पार्श्वेषु ४९
३ उपकर्तुं प्रियं वक्तुं १४ | ५ किमु कुवलयनेत्राः ५०
५ उपनदि पुलिने ६९ | ७ कुन्दे सुन्दरी ९
६ उपनयति करे ५९ | ५ कुररभरसहं ४०
६ उपरम रमणीया- ५४ | ५ कुरुते नालकव- ६
४ उपरि परिम्लानैः २३ | ६ कूजत्क्रौञ्चं चटुल- २५
२ एकान्ते सेवते योगं १८ | ५ कृतक्रीडाः क्रोडै- ४८
५ एतस्याः करिकुम्भ- ५९ | ३ कुलातिथ्यक्रियां १०
६ एतस्याः सलिलाव- १६ | ५ केनापि व्यवहारेण १३
अकाराद्यनुक्रमणिका. ३
उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या
७ कैलासायितमद्रिभिः २८ | ४ तदेत्पुण्यानां २६
४ कोष्णं किं नु निपिच्यते ९ | ४ तद्वार्तामृतपानार्थि- २
५ क्वचिच्चटुल- ४४ | ५ तया दत्ता मया नीता १३
५ क्वचित्प्रवरगैरिका ४३ | ६ तव सुभग रम्यदशया ४०
५ क्वचिदपि कार्यारम्भे ५५ | ६ तव सुहृदपभुक्त- १२
२ क्षुभ्यत्क्षीरसमुद्र- ३४ | १ तस्मिन्स्मितमुखे ५९
६ गीतेर्ग्रामाः किल द्वित्राः ५२ | १ तस्य विषयस्य मध्ये २९
२ गौरवं गौरवंशस्य १० | २ तस्याः कान्तिनिरुद्ध- ३०
५ ग्रीवालम्बित- ५८ | २ ता एव निर्वृतिस्थान- २६
६ चक्रधरं विषमाक्षं ३२ | ५ तात तावन्ममा- ३
१ चार्वा सदा सदाचार ३३ | ३ तास्तास्तं ज्ञपयामासु- २०
५ चिरविरचितचाटु- ७२ | ३ तुभ्यं नमो नमलोक- १
१ जननीति मुदित- ३० | १ तेषां वंशे विशद- १९
२ जनयति जलवृद्धिं ९ | १ तैस्तैरात्मगुणै- २०
१ जयति गिरिसुतायाः १ | १ त्रिदिवपुरसमृद्धि- ३२
६ जयति जगदेकचक्षु- ३१ | ६ त्वत्तो भयेन १३
१ जयति मधुसहायः २ | ६ त्वद्देशागतमारुतेन २३
६ जयत्यखिललोक- ८ | ६ त्वद्देशागतवायसाय २२
६ जयत्यमरसारथि- ९ | ७ दग्धो विधिविंधत्ते २१
६ जयत्यमलकौस्तुभ- ५ | ३ दत्त्वार्घमर्हणीयाय ९
६ जयत्यमलभावना- ११ | ७ दरमुकुलितनेत्र- ४२
३ जयत्यम्भोजिनीखण्ड- ५ | ४ दिशः प्रसेदुः २८
६ जयत्यम्भोजिनीबन्धु- ३ | ५ दिशि दिशि किमि- ३३
६ जयत्यसमसाहसः १० | ५ दिष्ट्या दिवौकसां ५३
६ जयत्यसुरसुन्दरी- ७ | ३ दूराभोगभरेण ३४
६ जयत्युदधिनिर्गत- ४ | २ देवो दक्षिणदिक्मुखस्य २९
६ जयत्युदरनिःसर- ६ | १ देशः पुण्यतमोदेशः २८
१ जाताकस्मिकविस्मयैः ४८ | २ देशानां दक्षिणो देश- २८
५ जातिर्यत्र न तत्र ५७ | २ देशो भवेत्कस्य न २७
१ जानन्ति हि गुणा- १८ | २ धन्याः शरदि सेवन्ते १
३ तत्तस्याः कमनी- ३१ | ७ धन्या काप्युपराधिता- ३६
४ ततातस्य कृतादरस्य ३१ | १ धन्यास्ते दिवसाः ३४
४ तथा सद्य यथा तात १७ | ५ धीरं रञ्जत- २९
२०
४ नलचम्पूस्थश्लोकानां·
| उच्छ्वासः | मूलानि | श्लोकसंख्या | उच्छ्वासः | मूलानि | श्लोकसंख्या |
|---|---|---|---|---|---|
| १ | धुतकदम्ब- | ४३ | ३ | प्रभासंयोगिविख्यात- | २४ |
| ६ | धुतरजनि- | ५६ | १ | प्रसन्नाः कान्तिहारिण्यो | ४ |
| १ | नक्षत्रभूः क्षत्र- | ३७ | ६ | प्रसरति रणरणकरसः | ४३ |
| ७ | न गम्यो मन्त्राणां | १७ | ५ | प्रसृतकमलगन्धं | ८ |
| ३ | न तत्काव्यं न तद्भाष्यं | २८ | ७ | प्रस्तुतस्य विरोधेन | ४६ |
| ५ | नद्यास्तीरे विदर्भाया | २७ | ४ | प्रायः सैव भवे- | १ |
| २ | गमिताः फलभारेण | २ | २ | प्रावृषं शरदं | ३ |
| ६ | नलोऽपि मां | १९ | ६ | प्रियविरहविषा- | ४५ |
| १ | नास्ति सा नगरी यत्र | २६ | ५ | प्रेमप्रपञ्च | ११ |
| ५ | निजप्रियमुखभ्रान्त्या | ६० | ५ | वक्रकृतनिनदं | ४१ |
| २ | नित्यमुद्वहते | ३३ | २ | वाणकरवीरदमनक- | १७ |
| ६ | निपतति किल | २० | ५ | बालोन्मील- | ३९ |
| १ | निर्मोसं मुखम- | ४७ | ४ | विभर्ति यो ह्यर्जुन- | १८ |
| ४ | निर्माय स्वयमेव | ७ | ४ | विभ्रते हरिणीं | ३२ |
| १ | निश्चितं ससुरः | १० | १ | ब्रह्मण्योऽपि | ४९ |
| १ | नीरं नीरजनिर्मुक्तं | ४२ | १ | भङ्गश्लेषकथाबन्धं | २२ |
| २ | नीरञ्जनपदे | २९ | ६ | भजत वलसमूहाः | ७५ |
| ६ | नृप चलसि | ६८ | ५ | भवति यदि सहस्रं | १ |
| ७ | नोद्याने न तरङ्गिणी | १६ | ७ | भवति हृदयहारी | ४७ |
| १ | नो नेत्राञ्जलिना | ६२ | १ | भवन्ति फाल्गुने | २७ |
| २ | पटलमलिकुलाना- | ४ | ६ | भानोः सुता | १५ |
| ५ | पद्मान्यातपवारणानि | ७२ | १ | भिन्दन्कन्द- | ४५ |
| ७ | परिम्लानच्छाया | २५ | ७ | मुक्तान्ते धृत- | १३ |
| ३ | परिहरति वयो | २९ | ५ | भूपालामन्त्रणे | २२ |
| १ | पर्णैः कर्णपुटायितै- | ४१ | १ | भूमयो बहिरन्त- | ३१ |
| ६ | पर्वतभेदि पवित्रं | २९ | ३ | भोगान्भो गङ्गवीची- | २२ |
| ५ | पश्यैताः करिकुम्भ- | ३८ | ५ | भ्रमकरं | ६३ |
| २ | पाण्डुपङ्कजसंलीन- | १४ | २ | भ्राम्यद्विरेफाणि | ५ |
| ६ | पीनोन्नमद्धन- | ६४ | ६ | भ्राम्यद्भृङ्गभरा- | ६२ |
| १ | पुनरपि तदभिज्ञा- | ६४ | ५ | मज्जत्कुञ्जर- | ३६ |
| ५ | पूर्वापरपयोराशि- | ३० | ४ | मण्डलीकृतकोदण्डः | ३ |
| ५ | पूर्वाधं विहितोदया | ७४ | ७ | मदनमतियुवानं | २७ |
| ७ | पौष्पाः पञ्चशराः | १८ | ५ | मध्यं त्रिवली | ५७ |
अकाराद्यनुक्रमणिका. ५
उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या
५ मन्दं मन्दरमन्दिरेषु ३२ | ६ लब्धार्धचन्द्र ईशः ३८
५ मन्दायते दिनमिदं ६४ | ३ ललाटपट्टविन्यस्त ११
६ महावराहाङ्गविनि- ३० | ७ लावण्यपुण्यपरमाणु २२
५ माद्यद्दन्तिकपोल ३४ | ३ लावण्यातिशयः ३३
५ माद्यन्मांसलतुङ्ग- २५ | ७ लावण्यामृत- ४३
६ माल्यं मूर्धनि ७० | ५ लास्यं पांसुकणायते २०
१ मित्रं च मन्त्री च ३८ | ५ लिप्तेवामृतपङ्केन १९
२ मुक्तादाममनोरथेन ३७ | ४ लीलया मण्डलीकृत्य ३०
६ मुक्तास्रैः श्रूयमाणं २७ | ७ लीलाताण्डवितभ्रुवोः ४१
३ मुग्धस्निग्ध- ६ | ३ वररजनीकरकान्ते १९
२ मुग्धा दुग्धधिया ३६ | २ वरसहकारकरञ्जक- १६
३ मुञ्चन्त्याः शिशुतां ३० | ६ वर्धमानोल्लसद्रागा ४८
५ मुहुरधिवसतां ४२ | १ वल्लीवल्कपिनद्ध- ५२
६ मृगेषु मैत्री २८ | २ वहति नवविकाशो- १३
६ मृदुकरपरिरम्भा- ५८ | १ वाचः काठिन्यमायान्ति १६
७ यं श्रुत्वैव मनोभवा- १० | ५ वायुस्कन्धमवष्टभ्य ४५
६ यत्र न फलिता- ६३ | ३ वासरश्रीमहावल्ली- ४
३ यथा चित्तं तथा १५ | ५ विक्लयति कला- ६६
५ यथेयमाकृति- २६ | ७ विगलितविलास- २३
३ यथावदादर्शं १७ | ६ विचित्राः पन्नाली २४
६ यन्नेतस्याः सकृदपि १७ | ६ विपिनोद्देशं सरसं ३४
४ याः स्कन्दस्य जगाद २७ | ३ विभो विभूतिसंपन्न २
६ यात्यस्ताचलमन्ध- २ | ३ वियति विशद- १८
१ ये कुन्दद्युतयः ३५ | ५ विरचितपरिवेषाः ५२
५ रक्तेनाक्तं विनि- ७६ | ३ विवेकः सह संपत्त्या १६
७ रङ्गत्वङ्गे कुरङ्गाक्ष्या ४५ | ५ विश्राम्यन्ति न ५
५ रजनिमवनिनाथः ७७ | ५ विश्लेषाकुलचक्र- ७५
४ रसे रसायने १४ | ५ वीचीनां निचयाः ४९
२ राजते राजतेनायं ८ | ६ वीरपुरुषं तदेत- ६६
२ राजनराजीवपत्राक्ष २६ | ६ वेदविद्योपमा देवी ५३
२ रूपसंपन्नमग्राम्यं २२ | ६ वेधा वेदनयाश्लिष्टो १४
१ रोहणं सूक्तरत्नानां ८ | १ व्यासः क्ष्माभृतां १२
७ लक्ष्मीं विश्राणयोः ३४ | ६ शतगुणपरिपाट्या ५५
६ नलचम्पूस्थश्लोकानां.
उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या
१ शश्वद्भाणद्वितीयेन १४ | ६ सिच्यन्तां राजमार्गाः ७८
५ शिथिलितसकला १५ | ३ सिन्दूरस्पृहया ७
६ शुष्काङ्गी घनचावरुज्याः ५१ | ६ सुगमस्तवास्तु ३३
२ शृङ्गाररसभृङ्गार २५ | ७ सुधापङ्केोपलिप्तेव ३०
२ श्च्योतच्चन्दनचारु- ३५ | ६ सुरसदननिवासं ७७
५ श्च्योतच्चन्द्रमणि- १७ | ७ सुस्थिततेजोराशे- १९
७ षड्रसाः किल वैद्येषु १४ | ६ सैषा चलचन्द्रकि- २६
१ संघता सुरसार्थेन २४ | ७ सोच्छ्वासं मरणं ४५
६ संगीतका लदौत्सुक्या- ५० | २ सोऽयं क्रीडाचलो ७
४ संग्रहं नाकुलीनस्य २० | ४ सोऽयं यस्तेन पान्थेन ८
५ संसाराम्बुनिधौ २ | ४ सोष्णीषमूर्धा १५
६ स एष निषधेश्वरः ३६ | १ सोऽहं हंसयितुं २१
६ सकलविषयवृत्ती ४४ | ७ सौधस्कन्धतलानि ३१
६ सत्काव्यश्चन्दनाई ७९ | ५ स्कन्धशाखान्तरालेषु ४६
१ सदाहंसाकुलं ३६ | १ श्रीमाणिक्यमहाकरः ६१
१ सदूषणापि निर्दोषा ११ | ६ स्थित्वा लदागमन- १८
२ सरलप्रियंगुणाढ्य १५ | ७ स्मरराजराजधानी- २०
५ सरसिजमरुन्दा- ७० | ६ स्मर विहरणवेदीं ७६
३ सर्गव्यापारखिन्नस्य २६ | ६ खःसौन्दर्यविडम्बि ७२
७ सर्वेऽपि पक्षिणो हंसाः २९ | ७ हंहो हंसि चकोरि ८
४ समुद्द्वालाः काले ११ | ३ हरचरणसरोजा- ३५
४ सांश्रुकोन्नतवंशस्य १० | २ हरिति हरिणयूथं ६
१ सा त्वं मन्मथमञ्जरी ६० | ७ हर्षादुत्पुलकं ४८
६ सानूनां सानूनां ६५ | ७ हर्षाद्बाष्पचिते ३८
६ साप्यनेककलोपेता ४९ | १ हृद्योद्यानमरु- ६३
६ सालानकमनालान- ५७ | ५ हृद्योद्यानसर- १८
३ सा समीपस्थितज्येष्ठा २३ |