सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठम् २३०

इत्युक्तम् । न च प्रद्योतस्य निवृत्तिर्भाव इत्युपपद्यते । उच्यते । नैतदेवं विज्ञेयं
तृष्णायाः क्षयः तृष्णाक्षयः इति । किं तर्हि तृष्णायाः क्षयोऽस्मिन्निति निर्वाणाख्ये धर्मे सति
भवति, स तृष्णाक्षय इति वक्तव्यम् । प्रदीपश्च दृष्टान्तमात्रम् । तत्रापि यस्मिन् सति चेतसो
विमोक्षो भवतीति वेदितव्यमिति ॥
एवं भावे निर्वाण व्यवस्थापिते आचार्यो निरूपयति—भावस्तावन्न निर्वाणम् । किं
कारणम् ? यस्माज्जरामरणलक्षणं प्रसज्येत, भावस्य जरामरणलक्षणाव्यभिचारित्वात् । ततश्च
निर्वाणमेव तन्न स्यात्, जरामरणलक्षणत्वाद्विज्ञानवत्, इत्यभिप्रायः ॥
तामेव च जरामरणलक्षणव्यभिचारितां स्पष्टयन्नाह— अस्ति भावो हि न जरामरणं
विनेति । यो हि जरामरणरहितः, स भाव एव न संभवति, खपुष्पवत्, जरामरणरहितत्वात् ॥ ४ ॥
किं चान्यत्—
भावश्च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् ।
नासंस्कृतो हि विद्यते भावः कचन कश्चन ॥ ५ ॥
यदि निर्वाणं भावः स्यात्, तदा तन्निर्वाणं संस्कृतं भवेत्, विज्ञानादिवत् भावत्वात् । यस्तु
असंस्कृतः, नासौ भावः, तद्यथा खरविषाणवदिति व्यतिरेकमुपदर्शयन्नाह —
नासंस्कृतो हि विद्यते भावः कचन कश्चन ।
क्वचनेत्यधिकरणे देशे काले सिद्धान्ते वा । कश्चनेत्याधेये । आध्यात्मिको बाह्यात्मिको
वेत्यर्थः ॥ ५ ॥
किं चान्यत् —
भावश्च यदि निर्वाणमनुपादाय तत्कथम् ।
निर्वाणं नानुपादाय कश्चिद् भावो हि विद्यते ॥ ६ ॥
यदि भवन्मतेन निर्वाणं भावः स्यात्, तदुपादाय भवेत्, स्वकारणसामग्रीमाश्रित्य
भवेदित्यर्थः । न चैवमुपादाय निर्वाणमिष्यते, किं तर्हि अनुपादाय । तद्यदि भावो निर्वाणमनुपा-
दाय, तत् कथं निर्वाणं स्यात् ? नैव अनुपादाय स्यात्, भावत्वात्, विज्ञानादिवत् । व्यतिरेक-
कारणमाह — नानुपादाय कश्चिद्भावो हि विद्यते इति ॥ ६ ॥
अत्राह — यदि भावो हि न निर्वाणम्, यथोदितदोषप्रसङ्गात्, किं तर्हि अभाव एव
निर्वाणम्, क्लेशजन्मनिवृत्तिमात्रत्वादिति ? उच्यते । एतदप्ययुक्तम्, यस्मात्—
यदि भावो न निर्वाणमभावः किं भविष्यति ।
निर्वाणं यत्र भावो न नाभावस्तत्र विद्यते ॥ ७ ॥
यदि भावो निर्वाणं नेष्यते, यदि निर्वाणं भाव इति नेष्यते, तदा किमभावो भविष्यति
निर्वाणम् ? अभावोऽपि न भविष्यतीत्यर्थः । क्लेशजन्मनोरभावो निर्वाणमिति चेत्, एवं तर्हि


पादटिप्पणी:
१ T वेदितव्यम् for वक्तव्यम्.


पृष्ठम् २३१

क्लेशजन्मनोरनित्यता निर्वाणमिति स्यात् । अनित्यतैव हि क्लेशजन्मनोरभावो नान्यत्, इत्यतः
अनित्यतैव निर्वाणं स्यात् । न चैतदिष्टम्, अयत्नेनैव मोक्षप्रसङ्गादित्युक्तमेवैतत् ॥ ७ ॥
किं चान्यत्—
यद्यभावश्च निर्वाणमनुपादाय तत्कथम् ।
निर्वाणं न ह्यभावोऽस्ति योऽनुपादाय विद्यते ॥ ८ ॥
तत्र अभावः अन

२३२ मध्यमशास्त्रे [ १८. १०-
मिति व्यवस्थाप्यते । न च अप्रवृत्तिमात्रं भावोऽभावो वेति परिकल्पयितुं पार्यत इति। एवं न
भावो नाभावो निर्वाणम् ॥
अथवा । येषां संस्काराः संसरन्तीति पक्षः, तेषां प्रतीत्य प्रतीत्य य उत्पाद्यश्च विनाशश्च,
सोऽप्रतीत्याप्रवर्तमानो निर्वाणमिति कथ्यते । येषां तु पुद्गलः संसरति, तेषां तस्य नित्यानित्यत्वेना-
B 530 5 वाच्यस्य तत्तदुपादानमाश्रित्य य आजवंनवीभावः स उपादाय प्रवर्तते, स एवोपादायोपादाय
प्रवर्तमानः सन्निदानीमनुपादायाप्रवर्तमानो निर्वाणमिति व्यपदिश्यते । न च संस्काराणां
पुद्गलस्य वा अप्रवृत्तिमात्रकं भावोऽभावो वेति शक्यं परिकल्पयितुम् । इत्यतोऽपि न भावो नाभावो
निर्वाणमिति युज्यते ॥ ९ ॥
किं चान्यत् –
10 प्रहाणं चाब्रवीच्छास्ता भवस्य विभवस्य च ।
तस्मान्न भावो नाभावो निर्वाणमिति युज्यते ॥ १० ॥
तत्र सूत्र उक्तम्- ये केचिद्भिक्षवो भवेन भवस्य निःसरणं पर्येषन्ते विभवेन वा,
अपरिज्ञानं [ तं ? ] ततेषामिति । उभयं ह्येतत् परित्याज्यं भवे तृष्णा विभवे तृष्णा च । न
चैतन्निर्वाणं प्रहातव्यमुक्तं भगवता, किं तर्हि अप्रहातव्यम् । तद्यदि निर्वाणं भावरूपं
15 स्यादभावरूपं वा, तदपि प्रहातव्यं भवेत् । न च प्रहातव्यम् ।
तस्मान्न भावो नाभावो निर्वाणमिति युज्यते ॥
येषामपि क्लेशजन्मनोस्तत्राभावान्नाभावरूपं निर्वाणं स्वयं च भावरूपत्वाद्भावरूपमित्युभय-
रूपम्, तेषामुभयरूपमिति निर्वाणं नोपपद्यते, इति प्रतिपादयन्नाह –
B 531 भवेद्भावो भावश्च निर्वाणमुभयं यदि ।
20 भवेद्भावो भावश्च मोक्षस्तच्च न युज्यते ॥ ११ ॥
यदि भावाभावोभयरूपं निर्वाणं स्यात्, तदा भावश्च अभावश्च मोक्ष इति स्यात् । ततश्च
यः संस्काराणामात्मलाभः तस्य च विगतः, स एव मोक्षः स्यात् । न च संस्कारा एव मोक्ष इति
युज्यते । अत एवाह – तच्च न युज्यते इति ॥ ११ ॥
किं चान्यत् –
25 भवेद्भावो भावश्च निर्वाणमुभयं यदि ।
नानुपादाय निर्वाणमुपादायोभयं हि तत् ॥ १२ ॥
यदि भावाभावरूपं निर्वाणं स्यात्, तदा हेतुप्रत्ययसामग्रीमुपादाय आश्रित्य भवेत्, न
अनुपादाय । किं कारणम् ? यस्मादुपादायोभयं हि तत् । भावमुपादाय अभावः, अभावं
चोपादाय भावः, इति कृत्वा उभयमेतद् भावं च अभावं च उपादायैव भवति, न अनुपादाय ।
30 एवं निर्वाणं भवेद् भावाभावरूपम् । न चैतदेवम्, इति न युक्तमेतत् ॥ १२ ॥
१ The Pali text corresponding to it is उदान, iii. 10.
-२५. १६] निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम् । २३३
किं चान्यत् –
भवेद्भावो भावश्च निर्वाणमुभयं कथम् ।
असंस्कृतं च निर्वाणं भावाभावौ च संस्कृतौ ॥ १३ ॥
भावो हि स्वहेतुप्रत्ययसामग्रीसंभूतत्वात् संस्कृतः । अभावोऽपि [ भावं ] प्रतीत्य B 532
संभूतत्वात्, जातिप्रत्ययजरामरणवचनाच्च संस्कृतः । तद्यदि भावाभावस्वभावं निर्वाणं स्यात्, तदा 5
न असंस्कृतम, [ किं तु ] संस्कृतमेव । यस्मान्न च संस्कृतमिष्यते, तस्मान्न भावाभावस्वरूपं
निर्वाणं युज्यते ॥ १३ ॥
अथापि स्यात् – नैव हि निर्वाणं भावाभावस्वरूपम, किं तर्हि निर्वाणे भावाभावान्विति ।
एवमपि न युक्तम् । कुतः ? यस्मात् –
भवेद्भावो भावश्च निर्वाणे उभयं कथम् । 10
[ तयोरेकत्र नास्तित्वमालोकतमसोर्र्यथा ] ॥ १४ ॥
भावाभावयोरपि परस्परविरुद्धयोरेकत्र निर्वाणे नास्ति संभव इति, अतः,
भवेद्भावो भावश्च निर्वाणे उभयं कथम् ।
नैव भवेदित्यभिप्रायः ॥ १४ ॥
इदानीं यथा नैव भावो नैवाभावो निर्वाणं युज्यते, तथा प्रतिपादयन्नाह – 15
नैवाभावो नैव भावो निर्वाणमिति याऽञ्जना ।
अभावे चैव भावे च सा सिद्धे सति सिध्यति ॥ १५ ॥
यदि हि भावो नाम कश्चित् स्यात्, तदा तत्प्रतिषेधेन नैव भावो निर्वाणमित्येषा B 533
कल्पना, यदि कश्चिदभावः स्यात्, तदा तत्प्रतिषेधेन नैवाभावो निर्वाणं स्यात्। यदा च भावाभावावेव
न स्तः, तदा तत्प्रतिषेधोऽपि नास्तीति । तस्मान्नैव भावो नैवाभावो निर्वाणमिति या कल्पना, 20
सापि नोपपद्यत एव । इति न युक्तमेतत् ॥ १५ ॥
किं चान्यत् –
नैवाभावो नैव भावो निर्वाणं यदि विद्यते ।
नैवाभावो नैव भाव इति केन तदज्यते ॥ १६ ॥
यदि एतन्निर्वाणं नैवाभावरूपं नैव भावरूपमस्तीति कल्प्यते, केन तदानीं तदित्यंविधं 25
नोभयरूपं निर्वाणमस्तीति अज्र्यते गृह्यते प्रकाश्यते वा ? किं तत्र निर्वाणे कश्चिदेवंविधः प्रति-
पत्तास्ति, अथ नास्ति? यदि अस्ति, एवं सति निर्वाणेऽपि तवात्मा स्यात् । न चेष्टम्,
निष्पादानस्यात्मनोऽस्तित्वाभावात् । अथ नास्ति, केनैतदित्थंविधं निर्वाणमस्तीति परिच्छिद्यते ?
संसारावस्थितः परिच्छिनत्तीति चेत्, यदि संसारावस्थितः परिच्छिनत्ति, स किं विज्ञानेन
परिच्छिनत्ति, उत ज्ञानेन ? यदि विज्ञानेनेति परिकल्प्यते, तन्न युज्यते । किं कारणम् ? 30
१. This line of the Kārikā is missing in Mss. as also in the Tibetan transla-
tion, but is given in the translation of the text of Kārikās found in Mdo, XVII
and is also cited in the Madhyamakāvatāra by Candrakīrti. Poussin reads
न तयोरेकत्रास्तित्वम्.
म. ३०

..." -> wait, "अ" then "न" or "व्य"?
Look at the first akshara:
It is "अ", then "न" with something? Or "नज्यमानम्"?
Wait, in Poussin: "anajyamānam" or "avyajyamānam"?
Look at the print: "अनज्यमानमप्रकाशयमानमगृह्यमाणं" - wait, look at the letter:
It is "अ" followed by "न" with a loop below, or "नज्य"?
Wait, "न" has a horizontal line, then vertical down, and attached to it is "ज्य": "नज्यमानम्" or "व्यज्यमानम्"?
Wait, look at 'व्य' in line 6 "सर्वथा यथा च निर्वाणे": 'व्य' is not there. Look at line 14: "एतद्द्वयस्याभावात्": 'द्व' has similar shape.
Wait, in Poussin p. 534:
"anajyamānam aprakāśayamānam agṛhyamāṇaṃ tad evam astīti na yujyate || 16 ||"
Wait, some editions have "anajyamānam" (from anj - to manifest).
Here it clearly is printed: "अनज्यमानमप्रकाशयमानमगृह्यमाणं"!

Line 6:
"सर्वथा यथा च निर्वाणे एताश्वतस्रः कल्पना न संभवन्ति, एवं निर्वाणाधिग

२३६ मध्यमशास्त्रे [२५. २४-
B 538 स एवं सति व्यर्थ एव जायते । उच्यते – यदि कश्चिद्धर्मो नाम स्वभावरूपतः स्यात्, केचिच्च
सत्त्वास्तस्य धर्मस्य श्रोतारः स्युः, कश्चिद्वा देशिता बुद्धो भगवानात्मभावस्वभावः स्यात्,
स्यादेतदेवम् । यदा तु –
5 सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः ।
न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः ॥ २४ ॥
तदा कुतोऽस्माकं यथोक्तदोषप्रसङ्गः ? इह हि सर्वेषां प्रपञ्चानां निमित्तानां य उपशमोऽ-
प्रवृत्तिस्तन्निर्वाणम् । स एव चोपशमः प्रकृत्यैवोपशान्तत्वाच्छिवः । वाचामप्रवृत्तेर्वा प्रपञ्चोपशमश्चित्त-
स्याप्रवृत्तेः शिवः । क्लेशानामप्रवृत्त्या वा जन्मनोऽप्रवृत्त्या शिवः । क्लेशप्रहाणेन वा प्रपञ्चोपशमो
निरवशेषवासनाप्रहाणे शिवः । ज्ञेयानुपलब्ध्या वा प्रपञ्चोपशमो ज्ञानानुपलब्ध्या शिवः । यदा
10 चैवं बुद्धा भगवन्तः सर्वप्रपञ्चोपशान्तरूपे निर्वाणे शिवेऽस्थानयोगेन नमसीव हंसराजाः स्थिताः
स्वपुण्यज्ञानसंभारपक्षपातवाते वातगगने वा गगनस्याकिंचनत्वात्, तदा सर्वनििमत्तानुपलम्भान्न
B 539 क्वचिद्देवेषु वा मनुष्येषु वा न कस्यचिद्देवस्य वा मनुष्यस्य वा न कश्चिद्धर्मः सांकलेशिको वा
वैयवदानिको वा देशित इति विज्ञेयम् । यथोक्तमार्यतथागतगुह्यसूत्रे – “यां च रात्रिं शान्तमते
तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, यां च रात्रिमुपादाय परिनिर्वास्यति, अत्रान्तरे तथागते-
15 नैकल्पक्षरं नोदाहृतं न व्याहृतं नापि प्रव्याहरति नापि प्रव्याहरिष्यति । अथ च यथाधिमुक्ताः
सर्वसत्त्वा नानाधातवाशयास्तां तां विविधां तथागतवाचं निश्चरन्तीं संजानन्ति । तेषामेवं पृथक्
पृथग्भवति – अयं भगवानस्मभ्यमिमं धर्मं देशयति, वयं च तथागतस्य धर्मदेशनां शृणुमः । तत्र
तथागतो न कल्पयति न विकल्पयति । सर्वकल्पविकल्पजालवासनाप्रपञ्चविगतो हि शान्तमते
तथागतः” । इति विस्तरः ॥
20 तथा –
अवाचऽनक्षराः सर्वशून्याः शान्तादिनिर्मलाः ।
य एवं जानति धर्मान् कुमारो बुद्ध सोच्यते ॥
यदि तर्ह्येवं न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः, तत्कथमिमे एते विचित्राः
प्रवचनव्यवहाराः प्रज्ञायन्ते ? उच्यते । अविद्यानिद्रानुगतानां देहिनां स्वप्नायमानानामिव
25 स्वविकल्पाम्युदय एषः— अयं भगवान् सकलत्रिभुवनसुरासुरनरनाथः इमं धर्ममस्मभ्यं देशयतीति ।
यथोक्तं भगवता—
B 540 तथागतो हि प्रतिबिम्बभूतः
कुशलस्य धर्मस्य अनास्रवस्य ।
नैवात्र तथता न तथागतोऽस्ति
बिम्बं च संदृश्यति सर्वलोके ॥ इति ।


-२५. २४] निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम् । २३७
एतच्च तथागतवाग्गुह्यपरिवर्ते विस्तरेण व्याख्यातम् । ततश्च निर्वाणार्थं धर्मदेशनाया
अभावात् कुतो धर्मदेशनायाः सद्भावेन निर्वाणस्यास्तित्वं भविष्यति ? तस्मान्निर्वाणमपि नास्तीति
सिद्धम् । उक्तं च भगवता –
अनिर्वाणं हि निर्वाणं लोकनाथेन देशितम् ।
आकाशेन कृतो ग्रन्थिराकाशेनैव मोचितः ॥ इति । 5
तथा–न तेषां भगवन् संसारसमतिक्रमो ये निर्वाणं भावतः पर्येषन्ते । तत्कस्य हेतोः ?
निर्वाणमिति भगवन् यः प्रशमः सर्वनििमत्तानामुपरतिः सर्वेङ्गितसमिङ्गितानाम् । तदिमे
भगवन् मोहपुरुषा ये स्वाख्याते धर्मविनये प्रव्रज्य तीर्थिकदृष्टौ निपतिता निर्वाणं भावतः पर्येषन्ते B 541
तद्यथा तिलेभ्यस्तैलं क्षीरात्सर्पिः । अत्यन्तपरिनिर्वृतेषु भगवन् सर्वधर्मेषु ये निर्वाणं मार्गन्ति
तानहमाभिमानिकान् तीर्थिकानिति वदामि । न भगवन् योगाचारः सम्यक् प्रतिपन्नः 10
कस्यचिद्धर्मस्योत्पादं वा निरोधं वा करोति, नापि कस्यचिद्धर्मस्य प्राप्तिमिच्छति नाभिसमियमिति
विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
निर्वाणपरीक्षा नाम पञ्चविंशतितमं प्रकरणम् ॥
१ T om. आभिमानिकान्.

" = "कर्म" (nom/acc singular is 'कर्म', not 'कर्मम्'!).
Wait, can "कर्मम्" exist in Buddhist Hybrid Sanskrit?
Wait, what if the word is NOT "यथाकर्म"? What if it IS "यथास्वमपेक्ष्योपजायन्ते"?
WAIT! Look at "यथास्वम्":
Does it have three syllables: य - था - स्वम्?
Count the letters before 'मपेक्ष्यो':
Letter 1: य
Letter 2: था
Letter 3: स्व? Wait, is letter 3 'स्व' or 'क'?
Wait, what if it's "यथाक्रममपेक्ष्योपजायन्ते"?
"क्रमम्" + "अपेक्ष्य" = "क्रममपेक्ष्य"!
YATHĀKRAMAM!
य (1)
था (2)
क्र (3)
म (4)
म् (5) -> attached to अ = म (6)
पे (7)
क्ष्यो (8)
प (9)
जा (10)
य (11)
न्ते (12)
"यथाक्रममपेक्ष्योपजायन्ते"!
YES! "यथाक्रमम्" (in due order, respectively) + "अपेक्ष्य" (depending on...) + "उपजायन्ते"!
WAIT, does "यथाक्रममपेक्ष्य" make sense?
Look at the characters of "यथाक्रममपेक्ष्योपजाय

पृष्ठ २४०

२४० मध्यमकशास्त्रे [२६. २-
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः ।
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥
नैकत्वे सहभावोऽस्ति न तेनैव हि तत्सह ।
पृथक्त्वे सहभावोऽथ कुत एव भविष्यति ॥
एवं रक्तेन रागस्य सिद्धिर्न सह नासह ।
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥
[म० शा० - ६.३, ४, १०]
इति प्रतिषेधात् कुतः समानकालता भावानां मरणभवोपपत्तिभवयोरिति ? अतः सहभावो विनेय-
जनबोधानुरोधप्रवृत्त एवेति लक्ष्यते । तेन नैकस्मिन्नेव क्षणे नामोन्नामौ तुलायाः संभवतः
नामोन्नामयोः कालभेदात् । बलवत्पुरुषाच्छोटामात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीति पाठात्,
उत्पलपत्रशतसहस्रवेधवत् सूच्यग्रेणेति । तथापि अत्र उत्पलपत्रशतसहस्रवेधः सूच्यग्रेण क्रमशो
वेधोऽवसेयः क्षणानामतिसूक्ष्मत्वात् । एकक्षणेन श्लोकाक्षरपदोदाहरणवत् ॥
किं च -
अनिरोधमनुत्पादमनुच्छेदंमशाश्वतम् ।
अनेकार्थमनानार्थमनागममनिर्गमम् ॥
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् ।
[म० शा० - १.१ - २]
इति पाठादुत्पादनिरोधयोरसंभव एव प्रतिपादितः शास्त्रे मध्यमके । आगमसूत्रेषु-
अविनाशमनुत्पन्नं धर्मधातुसमं जगत् ।
सत्त्वधातुं च देशेति एषा लोकानुवर्तना ॥
त्रीषु अध्वसु सत्वानां प्रकृतिं नोपलभ्यति ।
सत्त्वधातुं च देशेति एषा लोकानुवर्तना ॥ इत्यादि ।
तथा -
फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा ।
मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः ।
मायोपमं च विज्ञानमुक्तमादित्यबन्धुना ॥
एवं धर्मान् वीक्षमाणो भिक्षुरारब्धवीर्यवान् ।
दिवा वा यदि वा रात्रौ संप्रजानन् प्रतिस्मृतः ।
प्रतिविध्येत्पदं शान्तं संस्कारोपशमं शिवम् ॥ इति ।
एताश्च गाथाः सर्वनिकायशास्त्रसूत्रेषु पठ्यन्ते । अतः फेनपिण्डादीनां हेतुप्रत्ययसामग्रीं
प्राप्य प्रतीत्य समुत्पन्नानां सारवस्तुविगतानां कुतः क्षणिकाक्षणिकचिन्तेति ? महायानसूत्रेषु च -
सुपिनोपमा भवगती सक्रला
न हि कश्चि जायति न चो म्रियते ।


पृष्ठ २४१

-२६. २] द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम् । २४१
न च कर्म नश्यति कदाचि कृतं
फलु देति कृष्णशुभ संसरतो ॥
न च शाश्वतं न च उच्छेद पुनो
न च कर्मसंचयु न चापि स्थितिः ।
न च सोऽपि कृत्व पुनरास्पृशती
न च अन्यु कृत्व पुन वेदयते ॥
[समाधिराजसूत्र-२९.१३-१६]
यथा कुमारी सुपिनान्तरस्मिं
स्वपुत्र जातं च मृतं च पश्यति ।
जातेऽतितुष्टा मृति दौर्मनस्यिता
तथोपमान् जानथ सर्वधर्मान् ॥
[समाधिराजसूत्र-९.१७]
यथैव ग्रामान्तरि लेखदर्शनात्
क्रियाः प्रवर्तन्ति पृथक् शुभाशुभाः ।
न लेखसंक्रान्ति गिराय विद्यते
तथोपमान् जानथ सर्वधर्मान् ॥
[समाधिराज-९.७]
मुद्राप्रतिमुद्र दृश्यते
मुद्रसंक्रान्ति न चोपलभ्यते ।
न च तत्र न चैव सान्यतो
एवं संस्कारऽनुच्छेदशाश्वताः ॥
बीजस्य सतो यथाङ्कुरो
न च यो बीजु स चैव अङ्कुरो ।
न च अन्यु ततो न चैव तत्
एवमनुच्छेद अशाश्वत धर्मता ॥
यथ मुञ्ज प्रतीत्य बल्वजं
रज्जु व्यायामबलेन वर्तिता ।
घटियन्त्र सचक्र वर्तते
तेषु एकैकेषु नास्ति वर्तना ॥
तथ सर्वभवाङ्गवर्तिनी
अन्यमन्योपचयेन निश्रिता ।
एकैकेषु तेषु वर्तनी
पूर्वमपरान्ततु नोपलभ्यते ॥
[ललितविस्तर-१३.१००-१०३, १०४]

तथागत, आर्यसत्य, निर्वाण एवं दृष्टि-परीक्षा उपसंहार (प्रकरण २१-२७)

२४२ मध्यमकशास्त्रे [ २६. ३-
अत एवोक्तमाचार्यार्यनागार्जुनपादैः-
स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाद्यैः ।
स्कन्धप्रतिसंधिरसंक्रमश्च विद्वद्भिरुपधार्यौ ॥ इति ।
शतकशास्त्रे च आर्यदेवपादैर्महाबोधिचर्यास्थिरप्रस्थानस्थितैः-
अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः ।
धूमिकान्तःप्रतिश्रुत्कामरीच्यभ्रैः समो भवः ॥ इति ॥
[ चतुःशतक - १३.२५ ]
तदेवं बिम्बप्रतिबिम्बादिन्यायेन मातुः कुक्षौ विज्ञाने संमूर्च्छिते विज्ञानप्रत्ययं नामरूपं
निष्षिच्यते, क्षरति प्रादुर्भवतीत्यर्थः । यदि इह गतौ विज्ञानं न संमूर्च्छितं स्यात्, तदा
नामरूपाप्रादुर्भावो न स्यात् ।
सचेदानन्द विज्ञानं मातुः कुक्षिं नावक्रामेत, न तत् कललं कललत्वाय संवर्तेत ।
इति वचनात् ॥ २ ॥
तदेवम्-
निष्षिक्ते नामरूपे तु षडायतनसंभवः ।
दुःखोत्पत्त्या आयद्वारभावेन दर्शनश्रवणघ्राणरसरस्पर्शनमनआख्यं षडायतनं नामरूपहेतुकमुप-
जायते । स चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते, अभिनिविष्टः सन् रागजं द्वेषजं
मोहजं कर्म करोतीत्यादिना दुःखोत्पत्तावायद्वारत्वं षण्णामायतनानाम् । तदेवं संभूते षडायतने
उत्तरकालम्-
षडायतनमागम्य संस्पर्शः संप्रवर्तते ॥३॥
कः पुनरयं संस्पर्शः, कथं वा संप्रवर्तते इति प्रतिपादयन्नाह-
चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च ।
नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते ॥४॥
संनिपातस्त्रयाणां यो रूपविज्ञानचक्षुषाम् ।
स्पर्शः सः
चक्षुरिन्द्रियं प्रतीत्य रूपाणि च समन्वाहारं च प्रतीत्य मनस्कारं विषयादिविलक्षणं
समनन्तरप्रत्ययं विज्ञानबीजभूतं चक्षुर्विज्ञानमुत्पद्यते । तत्र चक्षुश्च रूपायतनं च रूपम् । सम-
न्वाहारश्चतुःस्कन्धलक्षणं नाम । तदेतत्त्रयं प्रतीत्योत्पद्यमानं चक्षुर्विज्ञानं नामरूपं प्रतीत्योत्पद्यते ।
तदेवमेषामिन्द्रियविषयविज्ञानानां त्रयाणां यः संनिपातः सहोत्पादः अन्योन्योपकारेण तुल्यं या
प्रवृत्तिः, स स्पृष्टिलक्षणः स्पर्शः । तत उत्तरकालम्-
तस्मात्स्पर्शाच्च वेदना संप्रवर्तते ॥५॥
इष्टानिष्टोभयविपरीतविषयानुभूतिर्विविधानुभवो वेदनं वित्तिर्वेदनेत्युच्यते । दुःखा सुखा
अदुःखासुखा च त्रिविधा । यथा चैषां रूपविज्ञानचक्षुषां त्रयाणां संनिपातलक्षणं स्पर्शमागम्य
१ T resumes the translation from here. २ T om. from स चक्षुषा down to °मायतनानाम्.
-२६. ८ ] द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम् । २४३
वेदना उक्ता, एवं शेषेन्द्रियविषयविज्ञानत्रयसंनिपातलक्षणस्पर्शहेतुका वेदना व्याख्येया ॥ ५ ॥
तत उत्तरकालम्-
वेदनाप्रत्यया तृष्णा
संप्रवर्तते इति वर्तते । वेदना प्रत्ययो यस्यास्तृष्णायाः सा वेदनाप्रत्यया । किंविषया पुनः सा
तृष्णा ? वेदनाविषयैव । किं कारणम् ? यस्मादसौ तृष्णालुः
वेदनार्थं हि तृष्यते ।
वेदनानिमित्तमेव अभिलाषं करोतीत्यर्थः । कथं कृत्वा ? यदि तावत् सुखा वेदना
अस्योपजायते, स तस्याः पुनः पुनः संयोगार्थं परितृष्यते । अथ दुःखा, तदा तस्या
विसंयोगार्थं परितृष्यते । अथ अदुःखासुखा, तस्या अपि नित्यमपरिनैशार्थं परितृष्यते । स एवम्-
तृष्यमाण उपादानमुपादत्ते चतुर्विधम् ॥ ६॥
स एवं वेदनास्र्वभिनिविष्टः सक्तः तृष्णाप्रत्ययं कामदृष्टिशीलव्रतात्मवादोपादानाख्यं
चतुर्विधं कर्माक्षेपकारणं परिगृह्णाति । तदेवमस्य तृष्णाप्रत्ययमुपादानं भवति ॥ ६ ॥
तत उत्तरकालम्-
उपादाने सति भव उपादातुः प्रवर्तते ।
स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः ॥ ७॥
पञ्च स्कन्धाः स च भवः
चतुर्विधस्य यथोक्तस्य उपादानस्य उपादाता ग्रहीता उत्पादयिता । तस्य उपादातुः
उपादानप्रत्ययो भवः उपजायते । किं कारणम् ? यस्मात्, यो हि अनुत्पादितवेदनातृष्णः
प्रतिसंख्यानबलेन तृष्णामस्वीकुर्वन्, चतुर्विधमुपादानं प्रविहाय उपादाता अमलाद्वयज्ञानसंमुखी-
भावात् स्याद्धि यद्यनुपादानो मुच्येत सः । तदानीं तस्य न भवेद्भवः ॥
कः पुनरयं भवः ? पञ्च स्कन्धाः स च भवः । यः उपादानात् प्रवर्तते, स पञ्चस्कन्ध-
स्वभावो वेदितव्यः । त्रिविधमपि कायिकं वाचिकं मानसिकं च कर्म भवत्यस्मादनागतं स्कन्ध-
पञ्चकं भवः इति व्यपदिश्यते । तत्र कायिकं वाचिकं कर्म रूपस्कन्धस्वभावं कर्मविज्ञप्तित्वात् ।
मानसं तु चतुःस्कन्धस्वभावमिति । एवं स भवः पञ्च स्कन्धा इति विज्ञेयम् । तस्मात्-
भवाज्जातिः प्रवर्तते ।
अनागतस्कन्धोत्पादो जातिः । सा च भवात् प्रवर्तते । तत उत्तरकालम्-
जरामरणदुःखादि शोकाः सपरिदेवनाः ॥ ८॥
दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते ।
जातिहेतुका एते जरामरणादयः प्रवर्तन्ते । एषां च यथासूत्रमेव व्याख्यानं वेदितव्यम् ।
तत्र स्कन्धपरिपाको जरा । जीर्णस्य स्कन्धभेदो मरणम् । म्रियमाणस्य विगच्छतः संमूढस्य
साभिष्वङ्गो हृदयसंतापः शोकः । शोकजमुत्थितो वाक्प्रलापः परिदेवः । पञ्चेन्द्रियासातनिपातो
१ T om. नित्यं. २ T om. कर्मविज्ञप्तित्वात्.

[पृष्ठ २४४]

दुःखम् । मनोनिष्टनिपातो दौर्मनस्यम् । दुःखदौर्मनस्यबहुलसंभूता उपायासाः इति । तदेवं
यथोपवर्णितेन न्यायेन
केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः ॥ ९ ॥
केवलस्येति आत्मात्मीयस्वभावविगतस्य बालपृथग्जनपरिकल्पितमात्रस्य । दुःखात्मकस्य
सुखाभ्यामिश्रस्यैवेत्यर्थः । एवमिति हेतुप्रत्ययमात्रबलेनैवेत्यर्थः । दुःखस्कन्धस्येति दुःखसमुदायस्य
दुःखसमूहस्य दुःखराशेरित्यर्थः ॥ ९ ॥
यतश्चैवं यथोपवर्णितादविद्यादिकादेव भवाङ्गानां प्रवृत्तिः, अतः —
संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः ।
अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात् ॥ १० ॥
तत्र संसारस्य विज्ञानादिप्रवृत्तिलक्षणस्य मूलं प्रधानं कारणं संस्काराः । ततश्च
संसारमूलान् संस्कारानविद्वान् संस्करोति ॥
अविद्यानुगतो य² पुद्गलो³ भिक्षवः पुण्यानपि संस्कारानभिसंस्करोति, अपुण्यानपि
संस्कारानभिसंस्करोति, आनेञ्ज्यानपि संस्कारानभिसंस्करोति ॥
इति भगवद्वचनात् । यतश्चैवमविद्वान् कारकः, तस्मादविद्वानेव पुद्गलः कारको भवति संस्काराणाम्,
न विद्वांस्तत्त्वदर्शी प्रहीणाविद्यः । किं कारणम् ? तत्त्वदर्शनात् तत्त्वदर्शने हि सर्वपदार्थाना-
मेवानुपलम्भात् नास्ति किंचिद् यदालम्ब्य कर्म कुर्यादिति ॥ १० ॥
यतश्चैवमविद्यायामेव सत्यां संस्काराः प्रवर्तन्ते, असत्यां न प्रवर्तन्ते, अतः —
अविद्यायां निरुद्धायां संस्काराणामसंभवः ।
हेतुवैयर्थ्यात् । तस्याः पुनरविद्यायाः कुतो निरोधः इत्याह—
अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात् ॥ ११ ॥
अस्यैव प्रतीत्यसमुत्पादस्य यथावद्विपरीतभावनातः अविद्या प्रहीयते । यो हि
प्रतीत्यसमुत्पादं सम्यक् पश्यति, स सूक्ष्मस्यापि भावस्य न स्वरूपमुपलभते । प्रतिबिम्बखैर्म्रालात-⁴
चक्रमुद्रादिवत्तु स्वभावशून्यतां सर्वेषां भावानाभवतरति । स एव स्वभावशून्यतां सर्वेषां भावानाभवतीर्णो
न किंचिद्वस्तु उपलभते बाह्यैमाध्यात्मिकं⁵ वा । सोऽनुपलभमानो न कचिद्धर्मे मुह्यति, अमूढश्च
कर्म न करोतीति । एवं प्रतीत्यसमुत्पादभावनया तत्त्वमवतरति । तत्त्वदर्शिनो योगिनो नियतमेव
अविद्या प्रहीयते । प्रहीणाविद्यस्य संस्कारा निरुध्यन्ते ॥ ११ ॥
यथा चैवमविद्याविरोधात् संस्कारा निरुध्यन्ते, एवम्—
तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते ।
दुःखस्कन्धः केवलोऽयमेवं सम्यङ् निरुध्यते ॥ १२ ॥


¹ 1 Tom. from एवमिति up to दुःखराशेरित्यर्थः. ² 2 Tom. यः ३ 3 T पुरुषपुद्गलः for पुद्गलो.
⁴ 4 Tom. ॰स्वम्रालातचक्रमुद्रा. ⁵ 5 Tom. बाह्यमाध्यात्मिकं वा.


[पृष्ठ २४५]

पूर्वस्य पूर्वस्य अङ्गस्य निरोधेन उत्तरस्योत्तरस्य अङ्गस्य निरोधो भवतीति विज्ञेयम् ।
अनया चानुपूर्व्या अयं योगी आत्मात्मीयाद्यदर्शनाद्यासनिरस्तः कारकेवेदकरहितं भाव-
स्वभावशून्यं दुःखराशिं पुनरनुत्पत्या सम्यङ्गिरोधयति । यथोक्तमार्यशालिस्तम्बसूत्रे —
एवमाध्यात्मिकोऽपि प्रतीत्यसमुत्पादो द्वाभ्यामेव कारणाभ्यामुत्पद्यते । कतमाभ्यां द्वाभ्याम् ?
हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः ?
यदिदमविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं
षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम्,
उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्यो-
पायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदायो भवति । अविद्या
चेन्नाभविष्यन्नैव संस्काराः प्रज्ञास्यन्ते । एवं यावज्जातिश्चेन्नाभविष्यज्जरामरणं न प्रज्ञास्यते । अथवा,
सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति । एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति ।
अत्राविद्याया नैवं भवति अहं संस्कारानभिनिर्वर्तयामीति । संस्काराणामपि नैवं भवति
वयमविद्ययाभिनिर्वर्तिता इति । एवं यावज्जातेरपि नैवं भवति अहं जरामरणमभिनिर्वर्तयामीति ।
जरामरणस्यापि नैवं भवत्यहं जात्याभिनिर्वर्तितमिति । अथ च सत्यामविद्यायां संस्काराणामभिनिर्वृत्ति-
र्भवति प्रादुर्भावः । एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः । एवमाध्या-
त्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः ॥
कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इति ? षण्णां धातूनां
समवायात् । कतमेषां षण्णां धातूनां समवायात् ? यदिदं पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां सम-
वायादाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य
पृथिवीधातुः कतमः ? यः कायस्य संश्लेषात्कठिनभावमभिनिर्वर्तयति, अयमुच्यते पृथिवीधातुः । यः
कायस्यानुपरिग्रहकृत्यं करोति, अयमुच्यतेऽब्धातुः । यः कायस्याशितभक्षितं परिपाचयति, अयमुच्यते
तेजोधातुः । यः कायस्य आश्वासप्रश्वासकृत्यं करोति, अयमुच्यते वायुधातुः । यः कायस्यान्तः
शौषीर्यमभिनिर्वर्तयति, अयमुच्यते आकाशधातुः । यो नामरूपमभिनिर्वर्तयति नडकल्लापयोगेन
पञ्चविज्ञानकायसंयुक्तं सास्त्रवं च मनोविज्ञानम्, अयमुच्यते भिक्षवो विज्ञानधातुः । तत्र असत्तामेषां
प्रत्ययानां कायस्योत्पत्तिर्न भवति । यदा त्वाध्यात्मिकः पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वा-
काशविज्ञानधातवश्चाविकला भवन्ति, ततः सर्वेषां समवायात्कायस्योत्पत्तिर्भवति । तत्र पृथिवीधातोर्नैवं
भवति—अहं कायस्य कठिनभावमभिनिर्वर्तयामीति । अब्धातोर्नैवं भवति—अहं कायस्यानुपरिग्रहकृत्यं
करोमीति । तेजोधातोर्नैवं भवति-अहं कायस्याशितपीताखादितं परिपाचयामीति । वायुधातोर्नैवं भवति-
अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति । आकाशधातोर्नैवं भवति-अहं कायस्यान्तःशौषीर्यमभि-
निर्वर्तयामीति । विज्ञानधातोर्नैवं भवति—अहं कायस्य नामरूपमभिनिर्वर्तयामीति । कायस्यापि नैवं
भवति-अहमेभिः प्रत्ययैर्जनित इति । अथ च पुनः सतामेषां प्रत्ययानां समवायात्कायस्योत्पत्ति-
र्भवति । तत्र पृथिवीधातुर्नात्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न
पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित् । एवमब्धातुस्तेजोधातुर्वायुधातु-

पपत्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति । स च Wait,विरोहतorरोहति? वि रो ह ति! Wait, does it have an i-matra on त? Yes, there is a small dot/serif, but wait, look at विरोहत: no, look closely: वि रो ह ति- wait, the top ofतhas no curve? Ah, it saysविरोहत? Wait, no, it's विरोहतorविरोहीत? No, it looks like विरोहत ।wait, orविरोहीत? Actually, looking at it, it says विरोहत ।or is itविरोहीत? No, wait, look at the text: विप्रकीर्णं विरूढिमागच्छत्? In this edition: विप्रूयमानं विरोहत ।wait, maybeविरोहतis a typo forरोहतिorविरोहत? Wait, let's look closely at विरोहत: वि रो ह ति? Wait, there's no imatra, or maybe very faint? It looks likeविरोहत ।Wait, let's checkविरोहत: actually it looks like विरोहत । Wait, next word:

[पृष्ठम् २४८]

तत्र न कश्चिद्धर्मोऽस्माल्लोकात्परलोकं संक्रामति । अस्ति च कर्मफलप्रतिविज्ञप्तिहेतुप्रत्ययाना-
मवैकल्यात् । तथाथा भिक्षवः सुपरिशुद्धे आदर्शमण्डले मुखप्रतिबिम्बकं दृश्यते, न च तत्रादर्श-
मण्डले मुखं संक्रामति, अस्ति च मुखप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात्, एवमस्माल्लोकान्न
कश्चिच्च्युतो नान्यत्रोत्पन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात् । तथाथा
भिक्षवश्चन्द्रमण्डलं चत्वारिंशद्योजनशतमूर्ध्वं व्रजति, अथ च पुनः परीत्तऽप्युदकभाजने चन्द्रस्य
प्रतिबिम्बं दृश्यते, न च तस्मात्स्थानादूर्ध्वं नभसश्च्युतं परीत्ते उदकस्य भाजने संक्रान्तं भवति,
अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिच्च्युतो
नान्यत्रोत्पन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात् ॥
तथाथा—अग्निरुपादानप्रत्यये सति ज्वलति, उपादानवैकल्यान्न ज्वलति, एवमेव भिक्षवः कर्म-
क्लेशजनितं विज्ञानबीजं तत्रतत्रोपपत्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति,
अस्वामिकेषु धर्मेष्वपरिग्रहेषु मायालक्षणस्वभावेषु अममेषु कृत्रिमेषु हेतुप्रत्ययानामवैकल्यात् ॥
तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः । कतमैः पञ्चभिः ? न शाश्वततो
नोच्छेदतो न संक्रान्तितः परीत्तहेतुविपुलफलाभिनिर्वृत्तितस्तत्सदृशानुप्रबन्धतश्चेति । कथं न
शाश्वततः ? यस्मादन्ये मारणान्तिकाः स्कन्धाः, अन्ये औपपत्त्यंशिकाः स्कन्धाः । न तु य एव
मारणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः । अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव
च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति । अतो न शाश्वततः । कथं नोच्छेदतः ? न च
पूर्वनिरुद्धेषु मारणान्तकेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति नाप्यन्निरुद्धेषु । अपि तु
मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति
तुलादण्डोन्नामावनामवत् चन्द्रबिम्बप्रतिबिम्बवत् । अतो नोच्छेदतः । कथं न संक्रान्तितः ?
विसदृशाः सत्त्वनिकायाः सभागयां जात्यां जातिमभिनिर्वर्तयन्ति । अतो न संक्रान्तितः । कथं
परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः ? परीत्तं कर्म क्रियते, विपुलः फलविपाकोऽनुभूयते । अतः
परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः । कथं तत्सदृशानुप्रबन्धतः ? यथावेदनीयं कर्म क्रियते,
तथावेदनियो विपाकोऽनुभूयते । अतस्तत्सदृशानुप्रबन्धतश्च । इति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
द्वादशाङ्गपरीक्षा नाम षड्विंशतितमं प्रकरणम् ॥


[पृष्ठम् २७]

२७
दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम् ।
यश्चैवं प्रतीत्यसमुत्पादं यथाभूतं सम्यक् पश्यति, स न पूर्वान्तं प्रतिसरति, नापरान्तं
प्रतिसरति, —इत्यादि सूत्रे पठ्यते, तत्र कतमः पूर्वान्तः, कतमोऽपरान्तः, कथं न प्रतिसरतीति ?
तद्व्युत्पत्त्यर्थमिदमारभ्यते । तत्र वर्तमानमात्मभावमपेक्ष्य अतीता आत्मभावाः पूर्वान्त इत्युच्यते ।
पूर्वो हि जन्मपरंपराशः पूर्वान्तः । तं न प्रतिसरति, दृष्टिपक्रैरर्नालम्बते । प्रतीत्यसमुत्पादस्य
यथावदवस्थिततत्त्वदर्शनात् नान्यथावस्थितं वस्तु अन्यथा अभिनिविशते । तत्र अष्टौ दृष्टयः
पूर्वान्तमालम्ब्य अन्यथा प्रवृत्ताः । तद्यथा—
अभूमतीतमध्वानं नाभूमिति च दृष्टयः ।
यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः ॥ १ ॥
तत्र इतिशब्दः आद्यर्थः । अथवा दृष्टिश्रोपादानमुपलक्षणार्थम् । चतस्रस्त्वेता दृष्टयः ।
तद्यथा — किं न्वहमभूवमतीतमध्वानम्, नाभूवमतीतमध्वानम्, अभूवं च नाभूवं च, नैवाभूवं न
नाभूवम्, इति । एताश्चतस्रो दृष्टयः पूर्वान्तं समाश्रिताः । अपरा अपि चतस्र इत्याह —
यास्ताः शाश्वतलोकाद्याः
पूर्वं प्रसङ्गेन उपवर्णिताः, ता अपि
पूर्वान्तं समुपाश्रिताः ॥
तत्र यद्यपि पूर्वान्ताद् दृष्टिचतुष्टयादुत्तरं दृष्टिचतुष्टयं नातिभिद्यते, तथापि तावन्मात्र-
विशेषाश्रित्य पृथगुपादीयते । तच्च उत्तरत्र व्याख्यास्यामः । तत्र शाश्वतो लोकः इत्येतत्,
अभूवमतीतमध्वानम्, इत्येतस्मान्नातिभिद्यते । अथवा अयं विशेषः-यच्छाश्वतो लोकः इत्येषा
दृष्टिः सामान्येन पूर्वान्तमाश्रिता । अभूवमतीतमध्वानम्, इत्येषा तु आत्मन एव पूर्वान्तपरामर्शेन
प्रवृत्ता, न सामान्येनेति । एवमन्यास्वपि दृष्टिषु विशेषो वक्तव्यः । इत्येवं तावत् अष्टावेता दृष्टयः
पूर्वान्तं समुपाश्रिताः ॥ १ ॥
उक्तः पूर्वान्तस्तदालम्बिकाभिर्दृष्टिभिः सार्धम् । इदानीमपरान्त उच्यते । तत्र वर्तमान-
मात्मभावमपेक्ष्य भाविनः आत्मभावाः अपरान्त इत्युच्यते । अपरो हि जन्मपरंपराशोऽपरान्तः, तं
न प्रतिसरति, दृष्टिपक्रैरर्नालम्बते । प्रतीत्यसमुत्पादस्य यथावदवस्थिततत्त्वदर्शनात्, नान्यथावस्थितं
वस्तु अन्यथाभिनिविशते । तत्र अष्टौ दृष्टयः अपरान्तमालम्ब्य अन्यथा प्रवृत्ताः । तद्यथा —
दृष्टयो न भविष्यामि किमन्योऽनागतेऽध्वनि ।
भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः ॥ २ ॥
इहापि दृष्टिश्रोपादानमुपलक्षणार्थम् । चतस्रस्त्वेता दृष्टयः । तद्यथा — किं नु भवि-
ष्याम्यनागतमध्वानम्, न भविष्यामि, भविष्यामि च न भविष्यामि च, नैव


[पादटिप्पणी]
1 The Mss. have a lacuna for this line : It is reconstructed on the strength
of T. It is likely that the kārikā may begin with दृष्टयः in which case we may have
दृष्टयोऽभूवं नाभूवं किं न्वतीतेऽध्वनीति च.
म. ३२

२५० मध्यमकशास्त्रे [२७. ३-
भविष्यामि न च न भविष्याम्यनागतमध्वानम्, इत्येताश्चतस्रो दृष्टयः अपरान्तं समाश्रिताः ।
किमेता एव चतस्रो दृष्टयः अपरान्तं समाश्रिताः ? नेत्याह । किं तर्हि अपरा अपि चतस्रो
विद्यन्ते अन्ताद्या अपरान्तं समाश्रिताः । तत्र अन्ताद्याश्चतस्रो दृष्टयः सामान्येन अपरान्तमाश्रित्य
प्रवृत्ताः, किं तु भविष्याम्यनागतमध्वानमित्येतास्तु आत्मन एवापरान्तमाश्रित्य प्रवृत्ताः, इत्येवं
५ दृष्टिचतुष्टयस्य विशेष इति बोद्धव्यम् ॥ २ ॥
तत्र आद्यस्य तावत् पूर्वान्तालम्बिकस्य दृष्टिचतुष्टयस्य यथा न संभवः, तथा
प्रतिपादयन्नाह -
अभूमतीतमध्वानमित्येतन्नोपपद्यते ।
यो हि जन्मसु पूर्वेषु स एव न भवत्ययम् ॥ ३ ॥
B 574 १० तत्र य एव अतीतेषु जन्मसु बभूव, यदि स एवायमधुना स्यात्,

पृष्ठम् २५२

इदानीं यथोपपादितमर्थं निगमयन्नाह -
एवं नान्य उपादानान्न चोपादानमेव सः ।
आत्मा नास्त्यनुपादानः
अथ स्यात् - यदि आत्मा उपादानस्वरूपो न भवति, उपादानोपादात्रोरेकत्वप्रसङ्गात्,
उदयव्ययप्रसङ्गाच्च । स हि अन्योऽपि न भवति उपादानमनपेक्ष्य भेदेन ग्रहणप्रसङ्गात् । न
चाप्यनुपादानः, उपादाननिरपेक्षस्य ग्रहणप्रसङ्गात् । एवं तर्हि नास्ति आत्मेत्यस्तु । उच्यते -
नापि नास्त्येष निश्चयः ॥ ८ ॥
यो हि नाम स्कन्धानुपादाय प्रज्ञप्यते, स कथं नास्तीति स्यात् ? न हि अविद्यमानो
वन्ध्यातनयः स्कन्धानुपादाय प्रज्ञप्यते । कथं सति उपादाने उपादाता नास्तीति युज्यते ?
तस्मान्नास्तित्वमप्यस्य न युज्यते । तस्मान्नास्ति आत्मेति निश्चयोऽप्येष नोपपद्यते । अस्य त्वात्मनो
व्यवस्थानं विस्तरेण मध्यमावतारान्नावसेयम् । इहापि च पूर्वमेव स्थानस्थानेषु कृता व्यवस्थेति न
पुनरिह तद्व्यवस्थाने यत्न आस्थीयते ॥ ८ ॥
एवं तावदभूवमतीतमध्वानमित्येषा कल्पना नोपपद्यते । इदानीं नाभूवमतीतमध्वान-
मित्येदपि यथा नोपपद्यते तथा प्रतिपादयन्नाह -
नाभूमतीतमध्वानमित्येतन्नोपपद्यते ।
यो हि जन्मसु पूर्वेषु ततोऽन्यो न भवत्ययम् ॥ ९ ॥
यदि पूर्वकादात्मनः अस्य अधुनातनस्य आत्मनोऽन्यत्वं स्यात्, तदानीं नाभूमतीत-
मध्वानमिति स्यात् । न चैतदेवं संभवति । तस्मान्नाभूवमतीतमध्वानमित्येतन्नोपपद्यते ॥ ९ ॥
यदि पुनः पूर्वकादात्मनः अस्य अन्यत्वं स्यात्, को दोष इति ? उच्यते -
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् ।
तथैव च स संतिष्ठेत्तत्र जायेत वामृतः ॥ १० ॥
यदि हि अयमधुनातन आत्मा पूर्वकादात्मनः अन्यः स्यात्, तदा तं पूर्वकमात्मानं
प्रत्याख्याय परित्यज्य तन्निरपेक्षः अतद्धेतुक एव स्यात् । किं चान्यत् । तथैव च स संतिष्ठेत्तत्र ।
यदि पूर्वकादात्मनः अस्य अन्यत्वं स्यात्, तदा अन्यत्वाद् घटोत्पादे पटाविनाशवत् पूर्वस्यात्मनः
उत्तरस्मिन्नपि आत्मनि समुत्पद्यमानेऽपि अनिरोधः स्यात् । अनिरुद्धत्वाच्च यत्र पूर्वं देवमनुष्यादि-
जन्मसु उत्पन्नः, येन वर्णसंस्थानादिना पूर्वमुपलभ्यमानः, तेनैव प्रकारेण तथैव स तत्रावतिष्ठेत ।
पूर्वत्र वा अमृत एव इहोत्पद्येत । न चैष संभवोऽस्ति यदस्य मनुष्यभूतस्य पूर्वको देवाद्यात्मा
तथैवावतिष्ठेतेति । तस्मान्नाभूवमतीतमध्वानमित्येतन्नोपपद्यते ॥
अत्राह - तत्र यदुक्तम् -
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् । इति,


पृष्ठम् २५३

यदि पुनः पूर्वकमात्मानं प्रत्याख्याय [ अयमिह भवेत्, को दोषः स्यात् ? तत्र दोषा बहवः
स्युः । कथमिति चेत्, यस्मादेवं सति -
उच्छेदः कर्मणां नाशस्तथान्यकृतकर्मणाम् ।
अन्येन परिभोगः स्यादेवमादि प्रसज्यते ॥ ११ ॥
यदि पूर्वकमात्मानं प्रत्याख्याय अयमात्मा भवेत्, तदा ] पूर्वकस्य आत्मनः तत्र
नष्टत्वाद्, इह च अन्यस्यैव चोत्पादनात्पूर्वकस्यात्मन उच्छेदः स्यात् । तस्मिंश्च आत्मनि उच्छिन्ने
कर्मणामदत्तफलानामेवाश्रयविच्छेदेन विच्छेदात्, भोक्त्रभावाच्च विप्रणाश एव स्यात् । अथ
पूर्वकेनात्मना कृतस्य कर्मणः उत्तरेणात्मना फलपरिभोगः परिकल्प्यते, तथापि अन्येन कृतस्य
कर्मणः फलस्य अन्येनोपभोगः स्यात् । ततश्च -
अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि ।
[ म० शा०-१७-२१ ]
इत्येवमादि अनिष्टमापद्येत ॥ ११ ॥
अपि च । यदि अयमात्मा पूर्वकादात्मनः अन्य एव अत्रोपपन्नः स्यात्, तदा पूर्वमभूत्वा
पश्चादुत्पन्न इति स्यात् । न चैतद्युक्तमिति प्रतिपादयन्नाह -
नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते ।
कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः ॥ १२ ॥
इति । यदि हि आत्मा पूर्वमभूत्वा पश्चादुत्पन्नः स्यात्, तदा कृतक एव आत्मा स्यात् । न च
कृतक आत्मेष्यते, अनित्यत्वप्रसङ्गात् । व्यतिरिक्तस्य च तन्निष्पादकस्य कर्तुरभावात् कुतः
कृतकत्वमात्मनो योज्येत ? कृतके चात्मनि परिकल्प्यमाने आदिमान् संसारः स्यादेव,
अपूर्वसत्त्वस्य प्रादुर्भावश्च । न चैतदेवम् । तस्मान्न कृतक आत्मा । अपि च । संभूतो
वाप्यहेतुकः । अभूत्वा प्रागात्मा समुत्पद्यमानो निर्हेतुक एवोपपद्यते । पूर्वे हि आत्मा नास्तीति
अकृतको निर्हेतुकः स्यात् । वाशब्दो विकल्पे । कृतको वा भवेदात्मा यदि वा नाभूवमतीत-
मध्वानमित्येतन्नाभ्युपेयम् । संभूतो वाप्यहेतुकः, यदि वा -
नाभूमतीतमध्वानमित्येतन्नोपपद्यते ।
इत्यभ्युपगम्यताम् ॥ १२ ॥
इदानीं यथोपवर्णितमेवार्थं निगमयन्नाह -
एवं दृष्टिरतीते या नाभू महमभूमहम् ।
उभयं नोभयं चेति नैषा समुपपद्यते ॥ १३ ॥
एवं यथोपवर्णितेन न्यायेन अभूमतीतमध्वानमिति या दृष्टिः, एषापि नैवोपपद्यते ।
एतद्द्वयस्याभावाच्च उभयमपि नोपपद्यते । किं कारणम् ? यस्माद् द्वयं ह्येतत्समाहृतमुभयमिति
कल्प्यते । एकैकस्य च पृथक्पृथगभावात् कुतस्तत्समाहार इति उभयमपि न संभवति ।
1 The portion in brackets is missing in Mss. It is reconstituted from T.

२५४ मध्यमकशास्त्रे [ २७. १४-
उभयस्याभावात् कुतस्तत्प्रतिषेधेन नोभयं भविष्यतीति ? तस्मान्नैवाभूवं न नाभूमित्येतदपि
नोपपद्यते ॥ १३ ॥
B 582 तदेवं पूर्वान्तं समाश्रित्य दृष्टिचतुष्टयस्य असंभवमुद्भाव्य इदानीमपरान्तसमाश्रित्य
प्रतिषेधमाह –
5 अध्वन्यनागते किं नु भविष्यामीति दर्शनम् ।
न भविष्यामि चेत्येतदतीतेनाध्वना समम् ॥ १४ ॥
यथैव हि अतीतेऽध्वनि दृष्टिचतुष्टयं निषिद्धम्, एवमनागतेऽप्यध्वनि दृष्टिचतुष्टयं
निषेधनीयमुक्तपाठपरिवर्तनेन । तद्यथा –
अध्वन्यनागते किं नु भविष्यामीत्यसंगतम् ।
10 ऐष्यज्जन्मनि यो भावो स एव न भवेत्ययम् ॥
इत्येवमादिना सर्वं समं योज्यमेकत्वप्रतिषेधे । एवमन्यत्वप्रतिषेधेऽपि समं योज्यम् –
न स्या

पृष्ठम् २५६

२५६ मध्यमकशास्त्रे [ २७. २०-
अतश्च, एवं यथोदितन्यायेन —
नास्ति चेच्छाश्वतः कश्चित् को भविष्यत्यशाश्वतः ।
B 587 शाश्वतोऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृतः ॥ २० ॥
यदा चैवं शाश्वत एव पदार्थो न संभवति, तदा कस्य विगमनादशाश्वतः स्यात् ?
शाश्वताशाश्वतानुपलम्भाच्च कुतः उभयं कुतो नोभयमिति ? तस्मादेवं शाश्वतादिदृष्टिचतुष्टयं
पूर्वान्ते संसारस्य न संभवति ॥ २० ॥
इदानीमन्तानन्तादिचतुष्टयमपरान्ते यथा न संभवति, तथा प्रतिपादयन्नाह —
अन्तवान् यदि लोकः स्यात्परलोकः कथं भवेत् ।
अथाप्यनन्तवांल्लोकः परलोकः कथं भवेत् ॥ २१ ॥
10 यदि हि अन्तवान्, विनाशादूर्ध्वं पूर्वलोको न स्यात्, तदा परलोको न स्यात् ।
अस्ति च परलोक इति अन्तवांल्लोक इति नोपपद्यते । अथापि अनन्तवांल्लोकः स्यात्, तदानीमपि
परलोकः कथं भवेत् ? नैव परलोकः स्यादित्यभिप्रायः । न च परलोको नास्ति । अतः
परलोकसद्भावादन्तवानपि लोको न भवति ॥ २१ ॥
इदानीमन्तवत्त्वमनन्तवत्त्वं च उभयमेतल्लोकस्य यथा न संभवति, तथा प्रतिपादयन्नाह —
15 स्कन्धानामेष संतानो यस्माद्दीपार्चिषामिव ।
प्रवर्तते तस्मान्नान्तानन्तवत्त्वं च युज्यते ॥ २२ ॥
B 588 पूर्वोत्तरहेतुफलभावसंबन्धनैरन्तर्याविच्छिन्नक्रमवर्ती यस्मादयं प्रदीपवत् प्रतिक्षणविनाशी
स्कन्धसंतानः प्रवर्तते, तस्माद्धेतुफलप्रवृत्तिदर्शनान्नान्तवत्त्वं नानन्तवत्त्वं च युज्यते ॥ २२ ॥
कथं कृत्वा ?
20 पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोकोऽन्तवान् भवेत् ॥ २३ ॥
यदि पूर्वे मनुष्यस्कन्धा नश्येयुः, तांश्च प्रतीत्य उत्तरे देवगत्युपपत्तिसंगृहीता
नोत्पद्येरन्, तदा अन्तवान् लोको भवेत् तैलवर्त्तिक्षयानिरुद्धप्रदीपवत् । उत्तरात्मभावोत्पादान्नास्ति
अन्तवत्त्वम् ॥ २३ ॥
25 पूर्वे यदि न भज्येरन्नुत्पद्येरन्न चाप्यमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमांल्लोकोऽनन्तो भवेदयम् ॥ २४ ॥
अथ यदि पूर्वकाः स्कन्धा न नश्येयुः, तान् प्रतीत्य उत्तरे फलभूताः स्कन्धा नोत्पद्येरन्,
तदा अनन्तोऽविनाशी लोकः स्यात् स्वरूपादप्रच्युतत्वात् । यदा तु पूर्वकाः स्कन्धा निरुध्यन्ते,
तद्धेतुकाश्यापरे स्कन्धा उत्तरकालं जायन्ते, तदा पूर्वकानामनवस्थानात् कुतोऽनन्तवत्त्वं संसारस्य
30 स्यात् ? ॥ २४ ॥
इदानीं तृतीयमुभयपक्षमात्रं प्रतिपादयन्नाह —
B 589 अन्तवानेकदेशे चेदेकदेशस्त्वनन्तवान् ।
स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते ॥ २५ ॥

१ Tom. पूर्वे०


पृष्ठम् २५७

-२७. २८] दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम् । २५७
यदि हि कस्यचिदेकदेशस्य विनाशः स्यात्, एकदेशस्य च गत्यन्तरगमनं स्यात्,
स्यात्तदानीमन्तवांश्च लोकोऽनन्तांश्च । न चैतदेवं संभवति यदेकदेशो नश्यति, एकदेशो न
नश्यतीति । अतः अन्तवांश्च अनन्तांश्च लोक इति न युज्यते ॥ २५ ॥
कस्मात् पुनरेकदेशस्य विनाशः एकदेशस्य चावस्थानं न युज्यते इति प्रतिपादयन्नाह —
5 कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते ॥ २६ ॥
इह एकदेशस्य विनाशे एकदेशस्य चावस्थाने परिकल्प्यमाने यदि वा उपादातु-
रेकदेशस्य विनाशः अवस्थानं वा परिकल्प्येत, यदि वा उपादानस्य ? तत्र यदि तावदुपादातु-
रेकदेशस्य विनाशः एकदेशस्य चावस्थानं परिकल्प्यते, तन्न युज्यते । किं कारणम् ? यस्मात् —
10 कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेशः
नैव हि अत्र काचिदुपपत्तिरस्ति यया एकदेशस्य विनाशमेकदेशस्य चाविनाशं
परिकल्पयिष्यामः । अत एव उपपत्तिमपश्यन्नाचार्य आह —
एवं चैतन्न युज्यते ॥ इति ।
अथवा । उपादाता हि नाम आत्मा । स च स्कन्धेषु पञ्चधा मृग्यमाणो न संभवति । 15 B 590
यश्च न संभवति, तस्य कथमेकदेशो विनङ्क्ष्यते, एकदेशश्च न नङ्क्ष्यते ? अत एवाह—एवं
चैतन्न युज्यते इति । अथवा । यदि उपादातुरेकदेशो नश्येदैकदेशश्च न नश्येत्, तदा एकस्यैव
उपादातुर्देवनरभेदेनान्येन मनुष्यत्वं स्यात् । न चैतदिष्यते इत्याह—एवं चैतन्न युज्यते इति । एवं
तावदुपादातुरन्तवत्त्वमनन्तवत्त्वं च न युक्तमिति ॥ २६ ॥ 20
इदानीमुपादानस्यापि यथा न संभवति तथा प्रतिपादयन्नाह—
उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते ॥ २७ ॥
उपादानुत्रेदेतदपि व्याख्येयम् ॥ २७ ॥
तदेवमुभयदर्शनासंभवं प्रतिपाद्य इदानीं यथा नोभयमपि न संभवति तथा प्रतिपादयन्नाह— 25
अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि ।
सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि ॥ २८ ॥
प्रतिषेध्यस्य वस्तुनोऽसंभवात् प्रतिषेधस्याप्यसंभव इति । अतः अन्तवत्त्वे च अनन्तवत्त्वे
च उभयस्मिन्नप्रतीते कस्य प्रतिषेधेन नैवान्तवान् नानन्तवान् लोकः इति दृष्टिसंभवः
स्यादिति ॥ २८ ॥
एवं तावत् सांप्रतं प्रतिबिम्बकारमुपादातारमुपादानं चाम्युपेत्यापि शाश्वतादिदृष्ट्यसंभवं 30 B 591
प्रतिपाद्य इदानीं सर्वथा भावस्वभावानुपलम्भेन वन्ध्यापुत्रस्यामगौरतादिवत् शाश्वतादिदृष्टीनामसंभवं
प्रतिपिपादयिषुराह —
म. ३३

[पृष्ठम् २५८]

मध्यमकशास्त्रे
[२७. २९-

अथवा सर्वभावानां शून्यत्वाच्छाश्वतादयः ।
क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः ॥ २९ ॥
इह सर्वभावानां प्रतीत्यसमुत्पन्नत्वात् शून्यत्वं सकलेन शास्त्रेण प्रतिपादितम्। ततश्च
सर्वभावानां शून्यत्वात् कतमास्ताः सर्वभावबाह्याः शाश्वताद्या दृष्टयो भविष्यन्ति, याः कश्चिद्
ग्रहीष्यति यतस्तन्निराकरणमारप्स्यामहे ? तथा किं वा आलम्बनं यत् सर्वभावानन्तर्गतं यत्रैता
दृष्टय उत्पत्स्यन्ते यत्रैता दृष्टीर्निवारयिष्यामः ? कतमश्चासौ भावः पुद्गलो वा सर्वभावबाह्यः
यस्यैता दृष्टयः उत्पत्स्यन्ते यं दृष्टिभ्यो निवारयिष्यामः ? किं वा दृष्टीनामुत्पत्तिकारणमालम्बन-
निमित्तं सर्वभावबाह्यं यस्मानिमित्तादुत्पद्यमानाः शाश्वतादिकाः दृष्टीः वारयिष्यामः ? सर्वेषामेव
हि पदार्थानां सर्वभावान्तर्गतत्वात् शून्यत्वम्, शून्यत्वाच्च सर्वे एव हि ते पदार्था नोपलभ्यन्त इति,
क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः ।
नैव काश्चित्, नैव क्वचित्, नैव कस्यचित्, नापि केनचिदाकारेण संभविष्यन्ती-
त्यभिप्रायः । असंभवे च सति आसां परिकल्पनैव नोपपद्यते इत्युक्ता एवैता दृष्टयः ॥ २९ ॥
तदेवम्—
सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत् ।
अनुकम्पामुपादाय तं नमस्यामि गौतमम् ॥ ३० ॥
तत्र संसारनिर्वाणप्रहाणाधिगमोपलम्भप्रपातापतनसंधारणात् धर्मः। सतामार्याणां कृतकार्याणां
धर्मः सद्धर्मः । यदि वा शोभनो धर्मः सद्धर्मः, सकलसंसारदुःखक्षयकरत्वेन प्रशंसनीयत्वात् ।
यः सद्धर्मम्—
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् ।
अनेकार्थमनानार्थमनागममनिर्गमम् ॥
[ म० शा० - १·१ ]
प्रपञ्चोपशमं शिवं प्रतीत्यसमुत्पादसंज्ञया हि देशितवान् सर्वदृष्टिप्रहाणार्थं जगतामनुकम्पामुपादाय
महाकरुणामेवाश्रित्य प्रियै¹कपुत्राधिकतरप्रेमपात्रसकलत्रिभुवनजनः न लाभसत्कारप्रत्युपकारादि-
लिप्सया, तं नमस्यामि निरन्तरमद्वितीयं शास्तारम्। किंनाम

प्रथमं परिशिष्टम् ।
कारिकासूची ।
अकृताभ्यागमभयं – १७.२३ अप्रतीत्य समुत्पन्नो – २४.१९
अग्नीन्धनभ्यां व्याख्यात – १०.१५ अप्रहीणमसंप्राप्तं – २५.३
अजातमनिरुद्धं च – २४.३८ अप्राप्यैव प्रदीपेन – ७.११
अज्यते केनचित्कश्चित् – ९.५ अभावाचार्यसत्यानां – २४.३
अतश्च प्रत्युदावृत्तं – २४.१२ अभूमतीतमध्वानं – २७.३
अतीतो वर्तमानश्च – १९.८,९ अयमुत्पद्यमानस्ते – ७.७
अत्र ब्रूमः शून्यतायां – २४.७ अलक्षणो न कश्चिच्च – ५.२
अथावृतः फलेनासौ – २०.११ अविद्यमाने ग्राह्ये च – २३.१६
अध्वन्यनागते किं नु – २७.१४ अविद्यमाने च शुभे – २३.१२
अनपेक्ष्य पुनः सिद्धिः – १९.३,७ अविद्यमाने भावे च – ५.६
अनपेक्ष्य शुभं नास्ति – २३.११ अविद्यानिर्वृतो जन्तुः – १७.२८
अनपेक्ष्याशुभं नास्ति – २३.१० अविद्यायां निरुद्धायां – २६.११
अनालम्बन एवायं – १.१० अशाश्वतं शाश्वतं च – २७.१८
अनित्ये नित्य इत्येवं – २३.१३,१४ अशुभं वा शुभं वापि – २३.९
अनिरोधमनुत्पादं – १.१ असतोऽपि न भावस्य – ७.३१
अनुत्पन्नः कथं नाम – २३.१९ असत्यां संगतो हेतुः – २०.१५
अनुत्पन्नेषु धर्मेषु – १.११ असंस्कृतस्य च प्राप्तिः – २४.३९
अनुत्पन्नोऽयमुत्पादः – ७.१३ अस्तित्वं ये तु पश्यन्ति – ५.८
अनेकार्थमनानार्थं – १८.११ अस्ति यद्धि स्वभावेन – १५.११
अन्तवच्चाप्यनन्तं च – २७.२८ अस्तीति शाश्वतग्राहः – १५.१०
अन्तवानेकदेशश्चेद – २७.२५ आगच्छत्यन्यतो नाग्निः – १०.१३
अन्तवान् यदि लोकः स्यात् – २७.२१ आत्मनश्च सतत्त्वं ये – १०.१६
अन्य उत्पादयेद्येन – ७.१९ आत्मनोऽस्तित्वनास्तित्वे – २३.३
अन्य एव पुनर्गन्ता – २.२० आत्मन्यसति चात्मीयं – १८.२
अन्य एवेन्धनादग्निः – १०.६,७ आत्मसंयमकं चेतः – १७.१
अन्यदन्यत्प्रतीत्य – १४.५ आत्मा च शुचि नित्यं च – २३.२१
अन्यः पुनरुपादानात् – २७.७ आत्मा स्कन्धा यदि भवेत् – १८.१
अन्येनान्यस्य संसर्गः – १४.३ आत्मेत्यपि प्रज्ञपितं – १८.६
अन्यो न प्राप्यते – १०.५ इन्धनं पुनरग्निर्न – १०.१४
अपरप्रत्ययं शान्तं – १८.९ इमां पुनः प्रवक्ष्यामि – १७.१३
अपेक्ष्येन्धनमग्निर्न – १०.१२ उत्पद्यन्ते प्रतीत्येमान् – १.७
अप्रतीत्यापि बोधि च – २४.३१ उत्पद्यमानमुत्पत्तौ – ७.१५
अप्रतीत्य समुत्पन्नं – २४.२१ उत्पद्यमानमुत्पादो – ७.१८

पृष्ठम् २६२

२६२मध्यमकशास्त्रे

[स्तम्भः १]

उत्पादस्थितिभङ्गानां – ७.४, ३३
उत्पादादाख्यो व्यस्ता – ७.२
उत्पादोत्पाद उत्पादो – ७.४, ५
उदयव्ययसंतानः – २१.१६
उपादानविनिर्मुक्तो – २७.५
उपादानादुपादानं – १६.३
उपादाने सति भवः – २६.७
उपादानैकदेशश्च – २७.२७
एकत्वे फलहेत्वोः स्याद् – २०.२०
एकत्वे सहभावश्चैत् – ६.५
एकीभावेन वा सिद्धिः – २.२१
एतेनैवावशिष्टौ द्वौ – १९.४
एवं विद्यादुपादानं – ८.१३
एवं शून्यमुपादानं – २२.१०
एवं त्रिष्वपि कालेषु – २१.२१
एवं दृष्टिरतीते या – २७.१३
एवं नान्य उपादानात् – २७.८
एवं निरुध्यतेऽविद्या – २३.२३
एवं रक्तेन रागस्य – ६.१०
एवं रागश्च रक्तश्च – १४.२
कथं वा सर्वभावानां – २७.२९
कथं ह्यविद्यमानस्य – ९.२
कथमुत्पत्स्यते शून्यं – २०.१८
कथमुत्पद्यमानेन – ७.१०
कथं तावदुपादातुः – २७.२६
करोति यद्यसद्भूतो – ८.३
करोति सदसद्भूतो – ८.११
कर्मक्लेशामकं चेदं – १७.२६
कर्म क्लेशाश्च देहानां – १७.२७
कर्म चेन्नास्ति कर्ता च – १७.३०
कर्म नोत्पद्यते कस्मात् – १७.२१
कर्म स्वभावतश्चेत् – १७.२२
कर्मक्लेशक्षयान्मोक्षः – १८.५
कर्मणः कर्मणो दृष्टे – १७.१८
कस्य स्यादन्यथाभावः – १३.४
कात्यायनाववादे च – १५.७


[स्तम्भः २]

कारकः सदसद्भूतः – ८.७
कार्यं च कारणं चैव – ११.७ ; २४.१७
कालोऽतीतोऽनागतश्च – १९.६
किं तदेव किमन्यत् – २५.२३
कुतश्चिदागतः कश्चित् – २७.१९
कुतः स्वभावस्याभावे – १५.३
क्रिया न प्रत्ययवती – १.६
क्लेशाः कर्माणि देहाश्च – १७.३३
क्षयस्य संभवो नास्ति – २१.७
गतं न गम्यते तावत् – २.१
गते नारभ्यते गन्तुं – २.१२
गत्या ययोच्यते गन्ता – २.२२, २३
गन्ता तावद्गच्छतीति – २.९
गन्ता तावत्तिष्ठतीति – २.१६
गन्ता न गच्छति तावत् – २.८
गन्ता न तिष्ठति तावत् – २.१५
गन्तारं चेत्तिरस्कृत्य – २.७
गमनं सदसद्भूतं – २.२५
गमने द्वे प्रसज्येते – २.११
गमनं संप्रवृत्तिश्च – २.१७
गम्यमानस्य गमनं – २.३, ४
गम्यमानस्य गमने – २.५
घनग्राहगृहीतस्तु – २२.१३
चक्षुः प्रतीत्य रूपं च – २६.४
चत्वारः प्रत्यया हेतुः – १.४
चरमे न निरुद्धे च – २१.१८
चित्ताच्च यस्मात्संतानः – १७.१०
चेतना चेतयित्वा च – १७.२
चेष्टा यत्र गतिस्तत्र – २.२
जनयेत्फलमुत्पन्नं – २०.१०
जरामरणधर्मेषु – ७.२४
तत्त्वान्यत्वेन यो नास्ति – २२.८
तत्र यच्चैतनोद्युक्तं – १७.३
तत्रैतस्माद्विद्यमानं – १०.४
तथागतो यत्स्वभावः – २२.१६


पृष्ठम् २६३

कारिकासूची२६३

[स्तम्भः ३]

तथा निर्मितकाकारः – १७.३२
तदभावान्न विद्यन्ते – २४.३
तद्विपक्षविपाकं च – १७.२५
तन्मृषा मोषधर्मं यद् – १३.१, २
तथैवावस्थयावस्था – ७.२८
तस्मान्न विद्यते लक्ष्यं – ५.५
तस्य चेदन्यथाभावो – १३.६
तस्य तस्य विरोधेन – २६.१२
तस्यैव नान्यथाभावो – १३.५
तिरस्कृत्य द्रष्टा नास्ति – ३.६
तिष्ठत्या पाककालाच्चेत् – १७.६
तिष्ठमानोऽपि भगवान् – २५.१८
त्वमेव दोषानात्मीयान् – २४.१५
दर्शनं श्रवणं घ्राणं – ३.१
दर्शनश्रवणादिभ्यो – ९.३
दर्शनश्रवणादीनि – ९.१, १०, ११
दृष्टयोऽभूदं नाभूवं – २७.१
द्रष्टव्यं दर्शनं द्रष्टा – १४.१
द्रष्टव्यदर्शनाभावात् – ३.८
द्रष्टा स एव स श्रोता – ९.८
द्रष्टान्य एव श्रोतान्यो – ९.९
दिव्यो यथैकदेशः स्यात् – २७.१७
देवादन्यो मनुष्यश्चेत् – २७.१६
दौर्मनस्यमुपायासाः – २६.९
द्वे सत्ये समुपाश्रित्य – २४.८
द्वौ गन्तारौ प्रसज्येते – २.६
धर्मस्य साधनोपायाः – १७.११
धर्माधर्मनिमित्तं वा – २४.३५
धर्माधर्मौ न विद्येते – ८.५
धर्मे चासति संघे च – २४.५
न कर्तव्यं भवेत्किंचित् – २४.३७
न कारणस्य सदृशं – ४.६
न केवलं हि दुःखस्य – १२.१०
न च केवलमन्यत्वं – १४.४
न च धर्ममधर्मं वा – २४.३३


[स्तम्भः ४]

न च प्रत्ययहेतूनां – २०.२३
न च व्यस्तसमस्तेषु – १.१३
न चाजनयमानस्य – २०.२२
न चापि विपरीतस्य – २३.१७
न चेन्निरुध्यमानश्च – २१.२०
न चोपादानमेवात्मा – २७.६
न जरामरणेनैव – ११.५
न जातस्य हि जातेन – २०.१४
न जातस्य ह्यजातेन – २०.१३
न तावत्स्वकृतं दुःखं – १२.८
न तेन तस्य संसर्गो – १४.८
न निरोधः स्वभावेन – २४.२३
न निर्वाणसमारोपो – १६.१०
न पर्यातोऽग्निदृष्टान्तो – ३.३
न पूर्वं गमनाद्रम्भात् – २.१३
न प्रत्ययमयं फलं – १.१६
न प्रत्ययसमुत्पन्नं – १७.२९
न बध्यन्ते न मुच्यन्ते – १६.५
न भवत्यनुपादानं – २२.६
न भावाज्जायते भावो – २१.१२
न विपर्यस्यमानस्य – २३.१८
न संसारस्य निर्वाणात् – २५.१९
न संन्नासन्न सदसत् – १.९
न संभवः स्वभावस्य – १५.१
न सामग्रीकृतं फलं – २०.२४
न स्वतो जायते भावः – २१.१३ ; २३.२०
न स्वतो नापि परतो – १.३
न स्वात्मना निरोधोऽस्ति – ७.३२
न हि स्वभावो भावानां – १.५
नाकाशं विद्यते किंचित् – ५.१
नातीतास्य ह्यतीतेन – २०.१२
नात्मा च शुचि नित्यं च – २३.२२
नान्यस्मिन् विद्यतेऽन्यत्वं – १४.७
नापश्यमानं भवति – ३.४
नाप्यभूत्वा समृद्भूतो – २७.१२
नाभूमतीतमध्वानं – २७.९

पृष्ठ २६४

स्तम्भ १

नालक्षणे लक्षणस्य — ५.३
नासद्भूतं न सद्भूतः — ८.९
नासद्भूतोऽपि सद्भूतं — ८.१०
नास्थितौ गृह्यते कालः — १९.५
नित्यप्रदीप्त एव स्यात् — १०.२
निरुद्धे चेत्फलं हेतौ — २०.९
निरुध्यते नानिरुद्धं — ७.२६
निरुध्यमानस्योत्पत्तिः — ७.२१
निर्ममो निरहंकारः — १८.३
निर्वाणस्य च या कोटिः — २५.२०
निर्वास्याम्यनुपादानः — १६.९
निवृत्तमभिधातव्यं — १८.७
निष्कारणं पुनः रूपं — ४.५
नैकत्वे सहभावोऽस्ति — ६.४
नैव सतो नैवासतः — १.८
नैवाग्रं नावरं यस्य — ११.२
नैवाभावो नैव भावो — २०.१५, १६
नोत्पद्यमानं नोत्पन्नं — ७.१४
पक्षो गन्ता गच्छतीति — २.१०
पञ्च स्कन्धाः स च भवः — २६.८
पत्र यथाविप्रणाशः — १७.१४
परत्र निरपेक्षत्वात् — १०.२
परं निरोधाद्भगवान् — २५.१७
परं निरोधान्नाथायाः — २५.२१
परपुद्गलजं दुःखं — १२.५, ६
परिज्ञा च प्रहाणं च — २४.२
परिभोगान्वयं पुण्यं — १७.५
पश्चाज्जातिर्यदि भवेत् — ११.४
पश्यति दर्शनं नैव — ३.५
पुद्गलः संसरति चेत् — १६.२
पुनर्भवाय संसारान् — २६.१
पूर्वं जातिर्यदि भवेत् — ११.३
पूर्वमेव च सामग्र्याः — २०.८
पूर्वा प्रज्ञायते कोटिः — ११.१, ८
पूर्वे यदि च भवेरन् — २७.२३
पूर्वे यदि न भवेरन् — २७.२४

स्तम्भ २

पृथक्त्वे सहभावश्च — ६.६
पृथङ् न सिध्यतीत्येवं — ६.८
पृथग्भावाप्रसिद्धिश्च — ६.९
प्रकृतौ कस्य चासत्यां — १५.९
प्रतीत्य कारकः कर्म — ८.१२
प्रतीत्य परभावं यः — २२.३
प्रतीत्य मातापितरौ — ३.७
प्रतीत्य यद्यद्भवति — ७.१६; १८.१०
प्रत्युत्पन्नोऽनागतश्च — १९.१, २
प्रदीपः स्वपरात्मानौ — ७.८, १२
प्रदीपे नान्धकारोऽस्ति — ७.९
प्रपञ्चयन्ति ये बुद्धं — २२.१५
प्रहाणं चाब्रवीच्छास्ता — २५.१०
प्रहाणतो न प्रहेयो — १७.१५
प्रहाणसाक्षात्करणे — २४.२७
फलं सहैव सामग्र्या — २०.७
फलं स्वभावासद्भूतं — २०.२१
फलं नोत्पत्स्यतेऽशून्यं — २०.१७
फलं च प्रत्ययमयं — १.१५
फलव्यतिक्रमाद्वा स — १७.१९
फलाभावे फलस्था नो — २४.२९
फलेऽसति न मोक्षस्य — ८.६
बद्धो न मुच्यते तावत् — १६.८
बध्नीयाद्वन्धनं कर्म — १६.७
बंधनं चेदुपादानं — १६.६
बहवश्च महान्तश्च — १७.१२
बीजाच्च यस्मात्संतानः — १७.८
बुद्धः स्कन्धानुपादाय — २२.२
भविष्यति कथं नाम — २१.२, ४
भवेद्भावो भावश्च — २५.११, १२, १३, १४
भावमभ्युपपन्नस्य — २१.१४, १५
भावं प्रतीत्य कालश्चेत् — १९.६
भावश्च यदि निर्वाणं — २५.६
भावस्तान्न निर्वाणं — २५.५
भावस्य चेदप्रसिद्धिः — १५.५


पृष्ठ २६५

स्तम्भ १

भावानां निःस्वभावानां — १.१२; १३.८
ममेत्यहमिति क्षीणे — १८.४
य आजवंनवीभावो — २५.९
यत्र न प्रभवन्त्येते — ११.६
यथा निर्मितकं शास्ता — १७.३१
यथा माया यथा स्वप्नो — ७.३४
यदपीदमुपादानं — २२.९
यदा दुःखं समुदयो — २४.२५
यदिन्धनं स चेदग्निः — १०.१
यदिकश्चिदनुत्पन्नो — ७.७
यदि नास्ति स्वभावश्च — २२.४
यदि भावो न निर्वाणं — २५.७
यदि भूतः स्वभावेन — २३.२४
यदि शून्यमिदं सर्व २४.१; २५.१
यदि संस्कृत उत्पादः — ७.१
यदि ह्ययं भवेद्न्यः — २७.१०
यदिन्धनमपेक्ष्याग्निः — १०.८, ९
यदेव गमनं गन्ता — २.१८, १९
यदैव सर्वधर्माणाम् — ७.२९
यद्यतीतोऽनागतश्च — १९.५
यद्यन्यदन्यदन्यस्मात् — १४.६
यद्यभावश्च निर्वाणं — २५.८
यद्यभूतः स्वभा

२६६ मध्यमकशास्त्रे
स ते मौलेन जनितो – ७.६
स त्वं दोषानात्मनीयान् – २४.१५
स दैवः स मनुष्यश्चेत – २७.१५
संसारमूलान् संस्कारान् – २६.१०
संस्काराः संसरन्ति चेत् – १६.१
संस्काराणां न निर्वाणं – १६.४
संकल्पप्रत्ययो रागो – २३.१
संघो नास्ति न चेत्सन्ति – २४.४
सतश्च तावदुत्पत्तिः – ७.२०
सतश्च तावद्भावस्य – ७.३०
सता च क्रियते नासत् ८.८
सद्भावस्य स्वभावेन – २१.१७
सद्भूतः कारकः कर्म – ८.१
सद्भूतस्य क्रिया नास्ति – ८.२
सद्भूतो गमनं गन्ता – २.२४
सर्वं च युज्यते यस्य – २४.१८
सर्वं तथ्यं न वा तथ्यं – १८.८
सर्वेभ्यो दर्शनादिभ्यः – ९.६,७
सर्वेषां विषभागानां – १७.१७
सर्वदृष्टिप्रहाणाय २७.३०
सर्वसंव्यवहारांश्च – २४.३६
सर्वोपलम्भोपशमः – २५.२४
सहान्योन्येन वा सिद्धिः – २१.६
सदैव पुनरुद्भूतिः – ६.३
संनिपातस्त्रयाणां यो – २६.५
संबुद्धानामनुत्पादे – १८.१२
संभवेनैव विभव – २१.३ः
संभवो विभवश्चैव – २१.८,९,१०
संभवो विभवेनैव – २१.५
सिद्धः पृथक्पृथग्भावो – ६.७
स्कन्धा न नान्यः स्कन्धेभ्यः – २२.१
स्कन्धानामेष संतानः – २७.२३
स्कन्धांश्चाप्यनुपादाय – २२.६
स्कन्धान्यद्यनुपादाय – २२.५
स्थितस्य तावद्भावस्य – ७.२७
स्थितिर्निरुध्यमानस्य – ७.२३
स्थित्यान्यया स्थितेः स्थानं – ७.२५
स्यादुभाभ्यां कृतं दुःखं – १२.९
स्वमात्मानं दर्शनं हि – ३.२
स्वकायदृष्टिविक्लेशाः – २३.५
स्वपुद्गलकृतं दुःखं – १२.४
स्वभावः कृतको नाम – १५.२
स्वभावतश्च शून्येऽस्मिन् – २२.१४
स्वभावतो न विद्यन्ते – २३.६
स्वभावपरभावाभ्यां – १५.४
स्वभावतो विद्यमाने – २४.२२
स्वभावं परभावं च – १५.६
स्वभावेनानधिगतं – २४.२८
स्वभावेनापरिज्ञातं – २४.२६
स्वयं कृतं यदि भवेत् – १२.२
स्वयं कृतं परकृतं – १२.१
स्वयं कृतस्याप्रसिद्धेः – १२.७
स्वाभाव्ये सति मार्गस्य – २४.२४
हेतुः फलेन शून्यश्चेत् – २०.१६
हेतुं फलस्यादत्वा च – २०.६
हेतोः फलस्य चैकत्वं – २०.१९
हेतोश्च प्रत्ययानां च – २०.१,२,३,४
हेतावसति कार्यं च – ८.४
हेतुकं फलस्य दत्वा – २०.५
द्वितीयं परिशिष्टम् ।
टीकाकृतोद्धृतानां पद्यांशानां सूची ।
[ अङ्कः पत्राङ्कं बोधयति ]
अज्ञानकल्पितं पूर्वं – (रत्नावली) – ७९
अथ पण्डितु कश्चि मार्गेते – (ललित०) – ९३
अनक्षरस्य धर्मस्य – (भगवत्) – ११५
अनित्यस्य ध्रुवा पीडा – २०१
अनित्याश्च ते संस्कारा – (भगवत्) – १३
अनिर्वाणं हि निर्वाणं – (भगवत्) – २३७
अनुत्पादधर्मः सततं तथागतः – (हस्तिकक्ष्य) – १९५
अनुत्पाद शान्त अनिमित्तपदं – (समाधिराज) ४२, ८५
अन्यप्रतीत्य यदिनाम – (मध्यमकावतार) – ११
अपरोऽप्यस्य दुर्ज्ञात – (रत्नावली) – २१६
अप्रतीत्यास्तिता नास्ति – (चतुःशतक) – १७१; २२०
अमेदि कायो .... – २२७
अमेध्यपुञ्जप्रच्छन्ने – २०१
अरणि यथ चोत्तराणि – (ललित०) – ९३
अलभन्त फलं तथ प्राप्तिं – (उपालि) – ६३; १७७
अलातचक्रनिर्माणं – (चतुःशतक) – ७२; २४२
अवाचनक्षराः सर्व – २३६
अविद्यया नैव कदाचि विद्यते – २०२
अविनाशमनुत्पन्नं – (आगमसूत्रेषु) – २४०
असंलीनेन कायेन – २२७
अस्तीति नास्तीति उभेऽपि अन्ता – (समाधि०) ५४; ११८
अस्तीति नास्तीति विवाद एष – (समाधि०) ५४; ११८
अस्थिता हि इमे धर्माः – (भगवत् ?) – ६९
अस्मिन् सतीदं भवति – (आचार्य) – ३
अहंकारस्तथा स्कन्धान् – (रत्नावली) – १४७
अहंकारोद्भवाः स्कन्धाः – (रत्नावली) – १४७; २००
आकाशं शशशृङ्गं च – (लङ्का०) – २३१
आकाशादीनि कल्प्यन्ते – (चतुःशतक) – २२०
आकाशनिश्श्रित समारुत आपखन्धो – (गाथासु) – ६९
आत्मा तीर्थ्यैः कल्प्यते नित्यरूपो – (मध्यमकावतार) – १४६
आत्मा हि आत्मनो नाथो – (भगवत् = धम्मपद) – १५१
आत्मोच्छेदो निवृत्तौ स्यादवश्यं – (मध्यमकावतार) – १४६
आदर्शपृष्ठे तथ तैलपात्रे – (समाधि.) – ४१; २०७
आदिमध्यावसानानि – (मध्यमकसिद्धान्त) – २३९
आदित शून्य अनागत धर्मा – (रत्नाकर ?) – ९८
आदिशान्ता ह्यनुत्पन्नाः – (रत्नमेघ) – ९८
आलोकसमाश्रित पश्यति चक्षुः – (उपालि०) – ४६; ११३
इमु ईदृश धर्मलक्षणा – (ललित०) – ९३
इष्टो नात्मा रूपवान्नास्ति यस्मात् – (मध्यमकावतार) – १८८
इह यद्यपि तत्त्वज्ञो – (चतुःशतक) – १६१
इह शासनि सूरमणीये – (उपालि०) – १७६
उत्पादकाले हि तथागतस्य – १६६
उत्पादव्ययं विपश्यते – (ललित०) – १७६
उपसर्गेण धात्वर्थो – २
उह्लापनाः कामगुणा हि पञ्च – १६६
ऊर्णापक्ष्म यथैव हि – २०९
एकत्वान्यत्वरहितं – (निरुपम०) – ९३
एकस्य भाषमाणस्य – (आगम) – १४२
एकस्वरात्तु तव लोकहितो – १५६
एकेन कल्पेन भवेद्धि लोको – १६६
एकेन धर्मेन यु सर्वधर्मान् – (गगनगञ्ज) – ५०
एकेन सर्वं जानाति – (समाधि०) – ५०
एतावानेव पुरुषो – (लोकायत) – १५३
एतेनैव विचारेण – (चतुःशतक) – २४

पृष्ठम् २६८

[वामस्तम्भः]

२६८ मध्यमकशास्त्रे
एवंविधार्थश्रवणात् — (रत्नावली) — १४७
एवं धर्मान्वीक्षमाणे — १३; २४०
एवं पूर्वसुशुद्धत्वात् — (सूत्रे) — १५६
एविमे संखत धम्मा — (गाथा) — ९७
कण्ठोष्ठं प्रतीत्य तालुक — (ललित०) — १७६
करतलसदृशो बालो — २०९
कर्मक्रिया च प्रवर्त्तति एवं — ९८
कल्पवशेन विकल्पितु लोकः — (उपालि०) १८; ८०
कल्पितं बुध्यति कल्पितमात्रं — ९८
काम जानामि ते मूलं — (सूत्र, गाथा) १४९; १९७
कारणं विकृतिं गच्छद् — १७१
कालः पचति भूतानि — १६५
कुर्वतां श्रद्धानानां — (सूत्र) — २१२
कृष्णं शुभं च न नश्यति कर्म —
(समाधि०) — १०३; १५१
केचि स्पृह जनेन्ति तत्र काले — (समाधि०) — १४३
केशोण्डुकं यथा मिथ्या — (लङ्का०) — ११५
केषांचिद्वदद्धर्म — (आचार्य) — १५३
क्रियावान् शाश्वतो नास्ति — (चतुःशतक) — ४४
क्षणिकै सर्वथाभावात् — (मध्यमकसिद्धान्त) — २३९
गीतं न नृत्यमपि वाद्यरुतं न ग्राह्यं — (उपालि०) — ४७
गृहीत नैव च जगद्यदि हेतुशून्यं —
(मध्यमकावतार) — १२
चक्षुश्च प्रतीत्य रूपतः — (ललित०) — ४६
चित्र मनोरम सज्जितपुष्पाः — (उपालि०) — १८; ८०
जन्मोन्मुखं न सदिदं यदि जायमानं —
(मध्यमकावतार) — २३९
जायते च्यवते चापि — (भगवत्) — १८४
जायमानार्थजातत्वात् — २७
ज्ञानं तथा आर्य प्रतीत्य नास्रवं — (रत्नकूट) — ६४
ज्ञानं न कल्पेति अज्ञानु नो भवेत् —
(रत्नकूट) — ६४
ज्ञानेन जानाम्यह स्कन्धशून्यतां — (समाधि०) — २०८
तत्तत्प्राप्य यदुत्पन्नं — (नागार्जुन) — ३
तत्र प्रणष्टु जगं इमं सर्वं — (रत्नाकर) — १०७
तत्रार्थदृष्टिर्विज्ञानं — (मध्यान्तविभङ्ग) — २२


[दक्षिणस्तम्भः]

तथ सर्वभवाङ्गवर्तिनी — (ललित०) — २४१
तथा समानेन समानकालं — (मध्यमकावतार) — २३९
तथागतो हि प्रतिबिम्बभूतः —
(हस्तिकक्ष्य) — १९५; २३६
तस्माद्धि तस्य भवने न गुणोऽस्ति कश्चित् —
(मध्यमकावतार) — ५
तमोऽन्धकारस्य न शक्तिरस्ति — (रत्नकूट) — ६४
तहि कालि सो दशबलो अनघो —
(समाधि०) — ४१; ८४
तेन विजानित बोधिज्ञानं — (रत्नाकर) — १०७
ते परिनिर्वृत लौकिक शूरा — (उपालि?) —
११३; २०८
त्रीषु अध्वसु सत्त्वानां — (पूर्वशैल) — २४०
त्वक्स्नायुमांसास्थिसमुच्चये च — (समाधि०) — ७४
दुन्दुभि वादित शक्रमरुद्भिः — (सूत्र) — १५६
दूरंगमायां तु धियाधिकः — (मध्यमकावतार) — १५१
दूरादालोकितं रूपं — (आचार्य) — १४८
दूरीभूतैस्तथामृतो — (आचार्य) — १४८
दृष्टश्रुतार्थं मुनिना — (रत्नावली) — १५३
देवत चोदयि दुन्दुभि दिव्य — (सूत्र) — १५६
देवा पि सर्वे प्रमुमोचु शब्दं — (समाधि०) — १२१
द्वयानिश्रितमेकेषां — (आचार्य) — १५३
धर्मगणौ सुखं शेते — १३२
धर्मतो बुद्धा द्रष्टव्या — (भगवत्) — १९५
धर्म दशबलप्रभाषितेऽत्र — (समाधि०) — १४३
धर्म स्वभावतु शून्य विविक्तो — १९२
धर्म समासेतो ऽहिंसां — (चतुःशतक) — १५०
धर्मयौतकमिह्यस्मात् — रत्नावली — १२०
न च अस्मिन लोकि मृत्यु कश्चिनरो —
— (समाधि०) — ४१; ८५
न च कारकु कारण सन्ति — (उपालि०) — १८; ८०
न चक्षुः प्रेक्षते रूपं — (भगवत्) — ४६
न च शाश्वतं न च उच्छेद —
(समाधि०) — ४२; ८५
न च संक्रमो न च पुनरागमनं —
(समाधि०) — ४२; ८५


पृष्ठम् २६९

[वामस्तम्भः]

पद्यांशसूची। २६९
न च सत्त्वु लभ्यति न जीवु नरो —
(समाधि०) — ४१; ८५
न चाभावोऽपि निर्वाणं — (रत्नावली) २२९
न प्रणश्यन्ति कर्माणि — (भगवत्) — १३९; १६८
न शून्यं नापि चाशून्यं — (मध्यान्तविभङ्ग) — १९३
न स्थितिनर्नापि चो जातिः — (भगवत्) — ६९
न स्वभावो न विज्ञप्तिः — (लङ्का०) — ११५
नान्यया भाषया म्लेच्छः — (चतुःशतक) — १५७
नास्तिको दुर्गतिं याति — (रत्नावली) — ५४
नास्तीह सत्त्व आत्मा वा — (भगवत्) — १५१
नित्यमरक्त अदुष्ट अमूढाः — (समाधि०) — ७४
निरोधसत्यं सुफिनं यथैव — (समाधि०) — १२६
निर्वाणं निवृत्तिरेव — (समाधि०) — २०८
निर्वृत्ति धर्मोण न अस्ति धर्मा —
(भगवत्) — २२८
नीतार्थसूत्रान्तविशेषजानति — (समाधि०) —
१४, १२०
नैरात्म्याशुभाश्च धर्मि — (ललित०) — ४६
नैवमात्मा न चानात्मा — (रत्नावली) — १५३
नो पि च सत्त्व न जीविह कश्चि —
(उपालि०) — ११३
पटः कारणातः सिद्धः — ३१
परमार्थसत्य सुफिनेन समं — (समाधि०) — १२६
परिनिर्वृत लोकि त शूराः — (भगवत्) — २०८
पारगतोऽसि भवार्णवतीर्णः — (रत्नाकर) — १०७
पृष्टः स देवराजेन — (सूत्रे) — २१२
प्रतिपन्नकाश्चत्वारः — (सूत्रे) — २१२
प्रतिश्रुत्कादयः शब्दाः — (सूत्रे) — १५६
प्रतीत्य धर्मानधिगच्छते — (भगवत्) — २२०
प्रव्रजित्व गृहालिङ्गं जहित्वा — (उपालि०)
— ६३; १७७
प्राणिशतसहस्रं तं शृणित्वा — (समाधि०) — १४२
फेनपिण्डोपमं रूपं — (भगवत्) — १३; २४०
बीजस्य सतो यथाङ्कुरो — (ललित०)
८; ४१; १६०; १८५; २४१
बुद्धसहस्रशता य अतीत — १६६


[दक्षिणस्तम्भः]

बुद्धो यदा भेष्यति धर्मराजो —
(समाधि०) १२१; १५६
भयं दर्शित नैरयिकं — (उपालि०) — ५३; ८०
भाव अभाव विभावयि ज्ञानं —
(समाधि०) — १२१; १८६
भावस्यैकस्य यो द्रष्टा — ५०
भावानभावानिति यः प्रजानति — (समाधि०) —
५३; ११६; १२१
भावितु मार्ग प्रवर्तितु ज्ञान — (उपालि०) — ११३
मरीचितोयसदृशी — (आचार्य) — १४८
मरीचिप्रतिमं लोकं — (रत्नावली) — ७९
मरीचि तोयमित्येतत् — (रत्नावली) — ७९
मायोपमं जगदिदं — (सूत्र) — १९३
मुखस्य संक्रान्ति यदा न विद्यते —
(समाधि०) — ४१; २०७
मुद्राप्रतिमुद्र दृश्यते — (ललित०)
— ४१; १८५; २४१
यः प्रत्ययैर्जायति स ह्यजातो — (अनवतप्त०)
— १०५; २१४; २१८; २१९
यच्छास्ति वः क्लेशरिपुनशेषान् — १
यथ शङ्कितेन विषसंज्ञ अभ्युपेति — २२९
यथ उत्क्षिप्तो लोष्टम्भि (द्वादशारनयचक्र) — ९७
यथ गगण न जातु दग्धपूर्वं — ९३
यथ मुञ्ज प्रतीत्य वल्वजं — (ललित०) २४१
यथ कुमारी सुपिनान्तरस्मि — (समाधि०)
— ७४; २४१
यथा जात स्व्यात्मसंज्ञा — (समाधि०) — ५०
यथादर्शमनादाय — (रत्नावली) — १४७
यथादर्शमुपादाय — (रत्नावली) — १४७
यथा निर्वाणु गम्भीरं — २०७
यथान्तोऽस्ति क्षणस्यैव — (मध्यमकसिद्धान्त)
— २३९
यथा बीजस्य दृष्टोऽन्तः — (चतुःशतक) — ९५
यथा यन्त्रकृतं तूर्यं (सूत्रे) — १५५
यथा हि दीपो लयने चिरस्य — (रत्नकूट) — ६४
यथैव गन्धर्वनगरं — (समाधि०) — ७४