मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ६ अ. ४५ | पान १२६
शांतिमयाय च । शांतीनां शांतिरूपाय परात्मने नमो नमः ॥१७॥ हेरंबाय नमस्तुभ्यं कवये कविरूपिणे । कविभ्यः
पददात्रे च कवीशाय नमो नमः ॥१८॥ सिद्धिवुद्धिवरायैव सिद्धिवुद्धिप्रदायिने । सिद्धिवुद्धिप्रचालाय तद्रूपाय नमो नमः
॥१९॥ मायामायिकचिह्नाद्यैः प्रखेलकस्वरूपिणे । योगशांतिस्वभावाय शांतिदाय नमो नमः ॥२०॥ शक्तये भानवे तुभ्यं
विष्णवे शंकरात्मने । नानारूपधरायैव खेलकाय नमो नमः ॥२१॥ किं स्तुमस्त्वां गणाधीश यत्र शांतिं प्रलेभिरे । वेदादयः
शिवाद्याश्च नमामो मयूरध्वज ॥२२॥ भक्तिं ते देहि सर्वेश वासं क्षेत्रे त्वदीयिके । तथेति ता गणाधीशो ह्यगदद्भक्तियंत्रितः
॥२३॥ इदं स्तोत्रं पठेद्यस्तु शृणुयात् स लभेत् परम् । इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाप्नुयात् ॥२४॥ एवं दक्ष महच्चित्रं
चरितं कथितं मया । विकटस्य समासेन सर्वसिद्धिप्रदायकम् ॥२५॥ नानेन सदृशं किंचित् सर्वदं कुत्र वर्तते । साक्षाद्ब्रह्मप्रदं
पूर्णं तत्र किं वर्णयाम्यहम् ॥२६॥ इदं विकटमाहात्म्यं शृणुयाद्यो नरोत्तमः । श्रावयेच्च पठेत्सोऽपि सर्वसिद्धिमवाप्नुयात्
॥२७॥ एकमावर्तनं नित्यं यः कुर्यात् स मतो परः । साक्षाद्विकटरूपः स दर्शनात् पावनो नृणाम् ॥२८॥ यावंति साधना-
न्येव साधयेत् परमादृतः । शतवारं लभेत् पुण्यं खंडस्यास्य श्रवाच्च तत् ॥२९॥ इष्टापूर्तादिकं यस्तु कुर्याद्भक्तिसमन्वितः ।
तस्माच्छतगुणं पुण्यं श्रवणादस्य संलभेत् ॥३०॥ पुराणोपपुराणानि सेतिहासानि नित्यशः । शृणुयाच्च ततः पुण्यमनेन
स्याच्छताधिकम् ॥३१॥ बहुनात्र किमुक्तेन यत्र ब्रह्मपतिः परः । वर्णितो विकटस्तेन समं किं संभवेद्वद ॥३२॥ सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हर्षयुतोऽत्यंतं प्रणाम च मुद्गलम् ॥३३॥ मया संपूर्णभावेन कथितं ते
द्विजोत्तम । कामनाशकरं पूर्णं विकटस्य चरित्रकम् ॥३४॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । नानेन सदृशं
किंचित् किं भूयः श्रोतुमिच्छसि ॥३५॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विकटचरितसमाप्तिवर्णनं नाम पंचचत्वारिंशत्तमोऽध्यायः ॥
॥ इति श्रीमुद्गलपुराणे षष्ठः खंडः समाप्तः ॥
॥ श्रीगजाननार्पणमस्तु ॥
श्रीभूस्वानंद मोरेश्वर उर्फ मोरगांव
दक्षिण
अथ नित्य यात्रा ॥ नित्य यात्रां प्रवक्ष्यामि मयूर क्षेत्र वासिनाम् ॥ अन्यथा सर्वदा पुण्यान्नृणां भवेत्सुसमाहिताः ॥१॥ मयूरेशं समभ्यर्च्य परिवार समन्वितम् । ततो ऽष्टगणपान्पूज्य कुंडं नदीं प्रपूजयेत् ॥२॥ शमी मंदारकं दुर्वां चतुर्थीत्वचितः परम् ॥ मुद्रलं शुक योगींद्रं ततो मंडपगोभवेत् ॥३॥ चतुर्दिक्षु पूर्वादि क्रमेण संस्थितान्नरः ॥ तत्र धर्मार्थकामान् श्रुत्वाथथावकाश मागतः ॥४॥ पुनर्गणेश्वरं पूज्य गच्छेत्स्वंगृहंकृतः ॥ एवं कुर्यान्नित्ययात्रां सगणेशप्रियो भवेत् ॥ नित्ययात्रानरो यस्तु नकुर्याद्यदि देवपाः ॥ क्षेत्र वासफलं तस्य न भवेत्तूर्णं मंश्रसा ॥६॥ यातना सलभेदैर्ता संपूर्णा नैन्वी परौ ॥
[उजवीकडील उभा मजकूर / Right Border]
॥ इतिस्तव्ययात्रा ॥
॥ अथ गया तीर्थमाहात्म्यम् ॥ तत्र सिद्ध प्रचेतेन ब्रह्म भूताः पितामहाः ॥ पितरश्च तयांत्येवं गदाधरेति भाविते ॥ क्षेत्रकाणनानो ऽष्टगाः सर्ववित्तिर्बुधुकः सर्वैगणेशतत्तः परम् ॥ द्वितीया यात्रा ॥
द्वारद्वि भुज गणेश आश्रव्या
दक्षिणे विद्या-
मार्कंडेय.
मुकंड.
अगस्त्य
त्रैध्रुव.
कौशिश
दुर्वासा
गालव
पराशर
षष्ठिदश कन्याः
२१ वीस प्रजाः
पतीतितीर्थं
धनुष्ये ८०० दशप्रजा
बभ्रुव्यादित्येवरून
कुंतिकेस नाग धनुष्ये
कार्तिकेय कुण्ड
शक्ति. लांगूलगणेश.
दंडि
षडपदकोमारी.
मातुका
विद्यालक्ष्मी देवी विष्णू
विष्णू धनुष्ये ८००
कुंड. स्वानन्दतीर्थ गणेश क्षेत्र मध्य भागीं कुंड
चामुंडा
शक्ति
ब्राह्मि
माहेश्वरी
कौमारी
वैष्णवी
वाराहि
इंद्राणी
बुद्धिश
सरस्वंती
शेष.
कऱ्हा नदी
गणेश गया तीर्थ
पांडवेश्वर.
देवी रति कंदर्प धनुष्ये १०००
परसाधिश्रिऋक्षर.
[डावीकडील उभा मजकूर / Left Border]
॥ अथपंचमी तीर्था ॥ अन्दोस्वात्वालु गणेशो मेचे चर्चितः परं ॥ कीर्ते व्यासतीर्थेच नाहिती क्रमनेरतः ॥ दृष्टिपंचथी थी यात्रा कुर्यातं ॥४॥ अथ सप्तमीतीर्था यात्रा॥ आंदोस्वान्यास गणंगेशे भौमे भर्विच्यमके ॥ पुष्येदा देव्या तो नैर्ऋत्ये कपिले गाणेषे पुनः॥ इति सप्तम्य याञा ॥
मार्जारी देवी लक्ष्मी नारायण २१५०
दिगधर्व.
अप्सरा.
वल्क्य.
शौनक.
धाता.
च्यवन.
भृगुऋषीतितीर्थं.
श्री ब्रह्म कमंडलू गंगा
द्वार द्वि भुज गणेश
विश्वावस्वा
उर्वश्यादि
याज्ञ
पराशर
भार्गव.
विधाता.
धनुष्य २००
चंद्र.
हयव्याह.
[मध्यवर्ती भाग / Central Diagram - Outer & Inner Details]
वरचा भाग (दक्षिण द्वार व परिसर)
अथ मौद्दल पुराणोक्त मयूरेश्वर क्षेत्रवर्णनम्.
द्वार द्विभुज गणेश विरजादेवी पार्वती शंकर धनुष्यें ७,५००
गौतम सिद्ध वारण.
भरद्वाज जमदग्नि पिशाच भुतेश.
मेधातिथि.
रैवत.
त्रित ऋषि.
द्विजऋषि.
जेमिनि.
कण्व.
वसिष्ठ ऋषयः
धनुष्य ४०० वसिष्ठ.
ऋषीत तीर्थः
पौलस्त्य ऋषयः
पुलस्त्य ऋषीत तीर्थः
पौलाह ऋषी.
पुलह ऋषीत तीर्थः
अत्रेय ऋपयः
अत्रि ऋषीत तीर्थ.
अंगिरस ऋषयः
अंगिरस ऋषीत तीर्थ.
मध्य-उत्तर/दक्षिण चौक व शिवलिंगे
केदारेश्वर. नीलकंठ धनुष्यें २५००
ममलेश्वर नर्मदा तीर्थ. गौरी स्कंद आय मादि पितर.
घुष्णेश्वर. कैलास लोक महागणपति पार्वती सदाशिव.
ॐ कार तीर्थ. उर्कटेश.
मायापुरी दक्षयज्ञ. वैद्यनाथ.
छिंडीश्वर. त्र्यंबक कपिल गणेश
गंगा द्वार कुंड. गोदावरी कुंड.
मल्लिकार्जुन
सोमनाथ.
सोमेश्वर तत्र समुद्र कुंड.
महाकाल क्षिप्रा नदि कुंड
धनुष्ये ४०० काशितत्र ढुंढिराज.
विश्वेश्वर भागीरथी कुंडमनकर्णिका हिकुंड.
अंतर्भाग व सभामंडप (Yantra Precincts)
यमप्रमोदादिगण धनुष्ये ८५०
चंड भैरव गरिमा ज्ञानेश.
भालचंद्र महोदर दत्तात्रय.
अर्थमंडप.
शंभू
कामदा
आधारी
भासुरी
दृष्ट भोग
वदि श्रीमयूरेश्वर सिद्धि-
लक्ष कमलासुर लाभ
मूषक ढुंढू सागर मयूर
मुद्रल शुक.
गणेशतीर्थं.
कपिलातीर्थं
व्यासतीर्थं
अंदोतीर्थ.
लघिमा
महिमा
प्राप्ति कामरुषि सिद्धि.
प्राकाम्या
विनायक गजानन
मयूरासन गिरि विनायक
बाल सूर्य श्री राम कृष्ण यजुने. तीर्थं
संनकादिक.
कपिल.
शेष कल्की
प्रभुभूत
परशूराम
हयग्रीव
अनिरुद्ध
गोमती तीर्थ.
अक्षिणेशे धनुष्ये १७७, भैरव.
सिद्धिविनायक विष्णू
हयग्रीव.
नर नारायण ऋषि.
व्यास बुद्ध.
खालील भाग व नद्यांचे प्रवाह
द्वार नग्न भैरव
वैकुंठ लोकतत्र
विष्णु मत्सय
वामन नरसिंह
धनुष्ये १०
धनुष्य ९०
द्वारकानत्र
प्रद्युम्न.
धनुष्ये १०५
सत्यतीर्थ.
मोहिनी.
ऋभु.
यक्ष.
अग्नि.
नारद.
अयोध्या तत्र हेरंब.
गणेश राम लक्ष्मण भरत शत्रुघ्न
अनिरुद्ध.
अतिविनायक
गर्भास्ति रवि
सूर्य क्षेत्र विनायक
दिवो काशि शक्ति शिव हेरंब
सोम.
भार्गव.
उग्रेश्वर.
सूर्य लोक तत्र सूर्य वरद गणेश.
बुध.
जीव.
भौमेश्य धनुष्ये ४३२४ भैरव.
भानुदेवस्त्यर्क सूर्य.
धनुष्यें ४०० द्विक. चिंतामणि सिद्धि.
बुद्धि पति सरस्वती नदि कुंड.
महाकाली सिद्धीआश्रम तीर्थं.
महाकाय.
प्राकाम्या.
उग्रमेघ.
विनायक नारद.
कुण्ड २५००
गोदातीर्थं
क्षिप्रातीर्थं
भागीरथीतीर्थं.
१५०० भैरव
आमोदी शक्तिर्क बोद्ध.
चित्रा.
शांकबरी.
नार सिंही.
मारिच ऋषयः
मारिची ऋषीत तीर्थ.
असित देव कीततीर्थं
मार्कंडेय.
क्रतव ऋषी.
क्रतव ऋषीत तीर्थ.
सौद्रल
कामधेनू तीर्थ.
धनुष्यें ५०० अष्टी वस्युत तीर्थं.
साध्या.
वामदेव.
विश्वकेतु.
अरूण.
विश्वेदेवाः
दिव्य गार्ग्य
चाक्र-वाशि वाल्मिक
कंकटेश.
सुभद्रं
क्षेत्रपालन.
जाटाभि ऋषि.
पर्वत.
पेल ऋषयरेणु कामेश्र्वरी भांडयन्त गुह्यक.
द्वार द्विभुज गणपुकुटी मष्ठी वराह धनुष्ये ८७५०
हनूमान यज्ञरक्षोगण.
सरद्वाणादि नग्न भैरवांचे दूत.
प्रभावाकृती सरोवर तत्र ॐ कार गणेश क्षेत्र.
[तळाकडील उलटा मजकूर / Bottom Inverted Text]
उत्तर
अथ हरा याना प्रारभः॥ प्रातः स्नात्वा महानाद्यां गणेशां प्रति पूजयेत् ॥१॥ ततः स्नानं नरः कुर्याद्धरदादौसमत्स्येव ॥२॥ पुनः स्नानं ततः कृत्वा गणेशंपूजयेत्स्वयम् ॥ पुष्पेण घृर्तधूपैश्च सद्य तिस्तैलप्रदीपयाः ॥३॥ नियमस्य स्व गावेन गृहोहास्तरणगादिकम् ॥ मासे माघतुवे चैव शुचे पदे विहेष च ॥ भौमेयादौरेन ह्यरायाचा प्रकीर्तिता ॥३॥ अष्टधा प्रति मास्तेषु शूलू पक्षे मयूरेशम् ॥ द्वार यात्रा मयोनित्यं नरः सर्वाथसिद्धये ॥४॥ अथ श्वथागणराजय स्वामदारुणानदीतीरे ॥ तावत्तनिरुकं त्वा वैयरा कर्तुं सतोमहान्नरैः॥५॥ वृद्धनीरोग युक्तानांनियमोनाविवद्यते ॥ बालान्तरेसर्वथा तत्र याञा मोक्ता मनीषिभिः ॥६॥ हुर रूपा स्वयंतत्र वाइनस्तौ गतिं चरेत् ॥ एवं माधवर्यन्तः ॥ इति हरयात्रा ॥
[तळाचा तळटीप मजकूर / Footer]
(श्री. डॉ. के. श्री. जावळे यांचे कडून प्राप्त.)
चित्रशाळा प्रेस, पुणे २
निजे भूस्वानंदे जडभरत भूम्यां पर तरे ।
तुरीयायास्तीरे परम सुखदे त्वं निवसन् ॥
मयूरानाथः त्वमसिच मयूरेश भगवान् ।
अतस्त्वां संध्याये शिव हरि रवी ब्रह्म जनकम् ॥१॥
पत्ता :
श्री अनिरुद्ध साबाजी राज्याध्यक्ष
१६४, लक्ष्मी निवास, हिंदु कॉलनी, दादर, मुंबई नं. १४.
श्रावण शु॥ चतुर्थी शनिवार शके १८८५ ता. ३१ जुलै १९६५ नकल केली असे.
॥ इति श्रीमुद्गलपुराणे षष्ठः खंडः समाप्तः ॥
॥ अथ श्रीमुद्गलपुराणे सप्तमः खंडः प्रारभ्यते ॥
खं ७ अ. १ पान १
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । विकटस्य चरित्रं वै श्रुत्वा सूत महामते । हर्षितोऽहं विशेषेण ब्रह्मभूयप्रकाशकम् ॥१॥
यत्किंचिद्गणराजस्य चेष्टितं व्यासशिष्यक । तदेव ब्रह्मसायुज्यदायकं नाऽत्र संशयः ॥२॥ धन्यं भाग्यं मुनींद्राणां मदीयं
येन ते द्विज । दर्शनं साधुरूपस्य जातं योगप्रदस्य च ॥३॥ योगवृष्टिमयीं गाथां च्युतां त्वन्मुखमेघतः । पीत्वा
न यामि तृप्तिं च सुधां पीत्वा यथा नरः ॥४॥ अधुना कृपया ब्रूहि विघ्नराजस्य चेष्टितम् । ममासुरविनाशार्यं
ब्रह्मप्राप्तिकरं परम् ॥५॥ सूत उवाच । मुद्गलस्य मुखात् पुण्यां कथां श्रुत्वा प्रजापतिः । विकटस्य पुनस्तं च जगादैव स
हर्षितः ॥६॥ दक्ष उवाच । धन्यं मे जन्म कर्मादि येन तेऽभूत्समागमः । वदसे योगदां पूर्णां कथां योगींद्रवंदित ॥७॥
आंगिरसकुले साक्षाद्योगरूपधरः प्रभो । त्वं जातोऽसि न संदेहः कुलतारक एव च ॥८॥ अधुना वद माहात्म्यं विघ्नराजस्य
सर्वदम् । श्रुतं विकटमाहात्म्यं न तृप्तोऽहं तु मुद्गल ॥९॥ कीदृशं ब्रह्म तस्याऽपि किमर्थं देहधारकः । किं कर्मा कुत्र वासः
संतिष्ठते विघ्ननायकः ॥१०॥ कस्य दैत्यस्य हंताऽसौ चरित्रं वद सर्वपम् । विघ्नराजस्य सर्वं तु विचारेण महात्मनः ॥११॥
मुद्गल उवाच । दक्ष त्वं योगिवंद्यश्च भविष्यसि न संशयः । कथां श्रुत्वा गणेशस्य प्रीतिः संवर्धते यतः ॥१२॥ समासेन
प्रवक्ष्यामि विघ्नराजस्य सौख्यदम् । चरित्रं शृणु भावेन सर्वसिद्धिप्रदायकम् ॥१३॥ अत्र ते कथयिष्यामि पुरातनभवं परम् ।
इतिहासं कश्यपस्य दित्याः संवादसंयुक्तम् ॥१४॥ महासुरोऽदितेः पुत्रो हिरण्यकशिपुर्महान् । हिरण्याक्षो हतो पूर्वं
विष्णुना मायया परौ ॥१५॥ ततोऽतिशोकसंयुक्ता दितिः कश्यपमाययौ । सेवायां निरता तस्य नित्यं भक्तिपरायणा ॥१६॥
एवं बहौ गते काले काश्यपस्तोषमाययौ । तामुवाच वरं ब्रूहि ततस्तं सा जगाद ह ॥१७॥ दितिरुवाच । मम पुत्रौ हतौ तेन
विष्णुना मघवार्थतः । अत इंद्रघ्नपुत्रं मे देहि तुष्टोऽसि कश्यप ॥१८॥ तस्यास्तद्वचनं श्रुत्वा शोकयुक्तो बभूव ह । अहो
साधुचरित्राऽपि स्त्री विश्वास्या न केनचित् ॥१९॥ अधुना किं करिष्यामि धर्मपालकमुत्तमम् । साधुं गुणयुतं पुत्रमिंद्रं
रक्षामि वै कथम् ॥२०॥ अतो विघ्नेश्वरं स्मृत्वा तां जगाद प्रजापतिः । व्रतं कुरु प्रयत्नेन वर्षमात्रं महाखले ॥२१॥ तदा ते
भविता पुत्रो हंतेद्रस्य न संशयः । छिद्रं मा कुरु भावेन व्रते विघ्नयुताऽपि चेत् ॥२२॥ एवमुक्त्वा गणेशं स ध्यात्वा रेमे
तया सह । तस्यां वीर्यं समाधाय व्रतं ददौ सुपुत्रदम् ॥२३॥ प्रणम्य स्वगृहं सा तमाययौ हर्षसंयुता । व्रतं चकार यत्नेन
नियमस्था प्रजापते ॥२४॥ तत इंद्रेण वृत्तांतो ज्ञातो नारदवाक्यतः । गणेशं मनसि ध्यात्वा निःश्वासं स मुमोच ह ॥२५॥
खं. ७ अ. १
पान २
ततस्तस्य हृदिस्थो वै विघ्नराजो मतिं ददौ । इंद्रस्तामाययौ देवीं मातरं सेवनोत्सुकः ॥२६॥ दितिं सिषेवे नित्यं स
व्रतयुक्तां प्रणम्य ह । छिद्रदर्शी प्रजानाथ भक्तियुक्तः प्रतापवान् ॥२७॥ नवमासा गतास्तत्र तथापि छिद्रकं परम् ।
किंचिन्न ददृशे सोऽपि विह्वलोऽभूत् सुरेश्वरः ॥२८॥ विघ्नराजं हृदि ध्यात्वा चिंतायुक्तः सुराधिपः । तां सिषेवे युतो
भक्त्या सदा तन्मयचेतसा ॥२९॥ दशभिर्दिवसैन्यूनं वर्षं तत्र गतं किल । ततोऽतितापसंयुक्तः किं भविष्यति
विह्वलः ॥३०॥ ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् । स्वयं सा मोहिता देवी भ्रांता जाता सहर्षतः ॥३१॥ विचारमकरोचित्ते
व्रते संवत्सरो गतः । किंचिन्न्यूना च मे वाञ्छा सिद्धा जाता न संशयः ॥३२॥ हित्वा त्रिलोकगं राज्यं सुत ऐंद्रं करिष्यति ।
ममोदरात् समुत्पन्नः कृतकृत्याऽस्मि सांप्रतम् ॥३३॥ ततोऽतिनिद्रया देवी पीडिता मस्तकं मुदा । जानुमध्ये समाकृत्य
सुष्वाप मोहसंयुता ॥३४॥ दिवसे निद्रया तस्या व्रतं भग्नं बभूव ह । जानुमध्ये शिरस्तेन द्वे छिद्रे संबभूवतुः ॥३५॥
इंद्रस्तां तादृशीं दृष्ट्वा हर्षितोऽभूद्गजाननम् । स्मृत्वा वज्रं समागृह्योदरं विवेश मायया ॥३६॥ तत्र तेजोधुतं गर्भं ददर्श
देवनायकः । चकार तस्य वज्रेण सप्त खंडानि वैरुतः ॥३७॥ तपसोग्रेण दित्याः स न ममार तथाप्यहो । रुरोद सप्तदेहस्थो
गर्भस्तेजस्विनां वरः ॥३८॥ दृष्ट्वा विस्मितचित्तः स स्मृत्वा विघ्नेश्वरं पुनः । एकैकं सप्तधा कृत्वा संस्थितो वज्रधारया ॥३९॥
तथापि न ममराऽसौ गर्भः परमपावनः । तावद्देहधरो भूत्वा रुरोद भयविह्वलः ॥४०॥ जगाद मघवंतं स गर्भो हंसि
सुरेश्वर । किमर्थं भ्रातरस्ते वै वयं सर्वे न संशयः ॥४१॥ तेषां तद्वचनं श्रुत्वा पुनरिन्द्र उवाच तान् । वैरभावं परित्यज्य
भविष्यथ दिवौकसः ॥४२॥ तथेति तैः कृतं तत्र बहिरिंद्रः समाययौ । ततो दितिः प्रजानाथ जगागार शुशोच ह ॥४३॥
एतस्मिन्नंतरे तत्र पुत्रान् सा सुषुवे परान् । एकोनपंचाशत्कांस्तु वीक्ष्य चंद्रमुवाच सा ॥४४॥ दितिरुवाच । इंद्र किं बहवः
पुत्रा एकः संकल्पितोऽभवत् । वद सत्यं महाभाग चेज्जानासि सुरेश्वर ॥४५॥ इंद्र उवाच । मया ज्ञातं त्वदीयं यच्चेष्टितं
मेऽत्र नाशकम् । मातस्तदर्थमायातः सेवार्थं ते न संशयः ॥४६॥ छिद्रं दृष्टं व्रते मातस्तत एतत् कृतं मया । वज्रेण जठरे
गत्वा गर्भं छित्त्वा बहिर्गतः ॥४७॥ तपोबलेनैव नव न मृतास्ते सुता इमे । स्वयं प्राणधरा जाता वायवश्च भवंतु हि ॥४८॥
तान् गृह्य मघवा स्वर्गं जगाम न शशाप सा । सत्यभाषणसंयुक्तमिंद्रं तुष्टा बभूव ह ॥४९॥ कदा दैत्यान् समालोक्य
खं. ७ अ. २ पान ३
業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業業
दीनान् शोकपरायणा । पुनः कश्यपमागत्य प्रणनाम पतिव्रता ॥५०॥ जगाद तं सुदुःखेन युक्ता प्रजापतिं वचः । विनयेन
समायुक्ता स्वार्थमोहयुता परा ॥५१॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते दितिशोकवर्णनं नाम प्रथमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दितिरुवाच । स्वामिन् पुत्रौ मृतावादौ पुनस्त्वद्वरदानतः । पुत्रो जातो महेंद्रस्य मित्रं नानास्वरूप-
धृक् ॥१॥ दैत्या दुःखयुता नाथ तदर्थं किं करोम्यहम् । निष्फलो मे समारंभो भवति स्म निरंतरम् ॥२॥ मूर्धनि त्वयि
मे नाथ समर्थे दुःखमीदृशम् । मया प्राप्तं विशेषेण किं करोमि वदस्व माम् ॥३॥ पुत्रपौत्रादिसंयुक्तः संसारः परिकीर्तितः ।
स एव त्वयि संस्थे मे निष्फलः प्रबभूव ह ॥४॥ मुद्गल उवाच । तस्यास्तद्वचनं श्रुत्वा खिन्नायास्तां प्रजापतिः । जगाद
स्मयमानः स योगींद्रः परमार्थवित् ॥५॥ कश्यप उवाच । मा खेदं कुरु कल्याणि कर्मणां गतिरीदृशी । संसारो दुःख-
मोहादियुक्तः शास्त्रे निगद्यते ॥६॥ दैत्याः पापसमाचारा देवाः पुण्यतमा मताः । पापिनां न सुखं देवि शाश्वतं वेद-
वादतः ॥७॥ कथितं वेदवादेषु वचनं सत्यमेव तत् । भविष्यति न संदेहो ममतां तत्र मा कुरु ॥८॥ पुत्रा जाताः प्रिये
ते ये तेषां पुत्रादयः स्मृताः । एवं परंपरा जाता भविष्यति निरंतरम् ॥९॥ न वंशच्छेदिता ते तु भविष्यति कदाचन ।
दैत्या मृत्युयुताः प्रोक्ताः किमर्थं श्राम्यसे वृथा ॥१०॥ कश्यपस्य वचः श्रुत्वा दितिस्तं पुनरब्रवीत् । शोकसंतप्तगात्रा सा
पतिं तेजस्विनां वरम् ॥११॥ दितिरुवाच । सृष्टिकर्ता स्वयं साक्षात्त्वं समर्थो न संशयः । अकर्तुं कर्तुमीशश्चान्यथा कर्तुमपि
प्रभो ॥१२॥ ममतां सर्वभावेषु त्यक्त्वा त्वं योगिसत्तम । संस्थितोऽसि यथा वेदवादं ज्ञात्वा महामते ॥१३॥ अहं
मोहसमायुक्ता सदा तापत्रयान्विता । दहामि ममतात्यागमार्गं मे ब्रूहि मानद ॥१४॥ येन शांतिं समालभ्य स्थास्यामि
दाहवर्जिता । तत्सुखेनैव भवतु भावि यत्तादृशीं कुरु ॥१५॥ तस्यास्तद्वचनं श्रुत्वा कश्यपो दयया युतः । शांतिमार्गार्थमेवं
तां जगाद हर्षसंयुतः ॥१६॥ कश्यप उवाच । अत्र तेऽहं वदिष्यामीतिहासंच पुरातनम् । तं ज्ञात्वा शांतियुक्ता त्वं भजि-
खं. ७ अ. २ पान ४
ष्यसि गजाननम् ॥१७॥ हिमाचलसुता जाता पार्वती भगिनी च ते । तपसाऽऽराधिता तेन महामाया परात्परा ॥१८॥
हिमाचलं समाश्रित्य शिवो ध्यानपरायणः । तताप तप उग्रं स गणेशं चिंत्य सर्वदा ॥१९॥ अत्रागत्य महेशानं पार्वती
सेवनोत्सुका । पतिं ज्ञात्वा विशेषेण सिषेवे यत्नसंयुता ॥२०॥ महादेवो विदित्वा तां मनसि क्रोधमादधे । मामुलंघ्य
गता दक्षाध्वरे चेयं विशेषतः ॥२१॥ स्वाज्ञाहीना न योग्या वै पत्नी वेदे प्रकीर्तितम् । अतः पत्नीविहीनः सन् भजेऽहं
विघ्नपं सदा ॥२२॥ एवं मनसि संधार्य न तां मेने महेश्वरः । समागतां तया सोऽपि भाषणं न चकार ह ॥२३॥ ततोऽति-
खेदसंयुक्ता पार्वती तं महेश्वरम् । सिषेवे भक्तिसंयुक्ता नियमस्था सुरूपिणी ॥२४॥ हावभावसमायुक्तां नित्यं सेवा-
परायणाम् । जगाम पर्वताद्वीक्ष्य पतिभावकरीं शिवः ॥२५॥ गतं सदाशिवं वीक्ष्य पार्वती शोकसंयुता । देहत्यागे
समारब्धा सस्मार द्विरदाननम् ॥२६॥ तस्य स्मरणमात्रेण स्फूर्तिर्जाता परा हृदि । विचारमकरोचित्ते शिवा दुःख-
समन्विता ॥२७॥ मां त्यक्त्वा शंकरो देवो गतो मानसमन्वितः । न वृणोति कदाचित् स निश्चितं शंकरेण तत् ॥२८॥
वेदे संकथितं वाक्यं तपसा दुर्लभं कदा । किंचिद्भवेन्न तं देवं तपसाऽऽराधयाम्यहम् ॥२९॥ एवं निश्चित्य सा देवी तताप
तप उत्तमम् । ध्यात्वा सदाशिवं नित्यं वनस्था सखिसंयुता ॥३०॥ पंचाक्षरविधानेन तोषयामास शंकरम् । लिंगपूजापरा
देवी नानातपःपरायणा ॥३१॥ एवं बहौ गते काले न तुतोष सदाशिवः । क्रोधयुक्तः स्वभावेन न तां मेने कदाचन ॥३२॥
ततो विघ्नेश्वरं देवी मंत्रेणैकाक्षरेण च । तोषयामास तं ध्यात्वा नित्यं पूजापरायणा ॥३३॥ त्यक्त्वा सदाशिवं देवी
गणेशभजने रता । ततः स्वल्पेन कालेन शिवबुद्धिश्चचाल ह ॥३४॥ श्रावणे शुक्लपक्षे सा चतुर्थ्यां मृन्मयं परम् । कृत्वा
गणेश्वरं नित्यं पूजयामास भक्तितः ॥३५॥ वायुमात्राशना देवी तां मूर्तिं भावसंयुता । पूज्य ध्यानपरा भूत्वा जजाप
मंत्रमुत्तमम् ॥३६॥ पुरश्चरणमार्गेण मंत्रं जजाप नित्यदा । ततस्तां शंकरो देवो मनसा संगतोऽभवत् ॥३७॥ शिवश्चिन्तां
चकारैवं देवी तपसि संस्थिता । अधुना तां गमिष्यामि मदर्थं नियमान्विताम् ॥३८॥ देहभृदपराधैश्च संयुक्तो जायते
कदा । अतः क्षमापनं कृत्वा वरिष्यामि न संशयः ॥३९॥ एवं विचार्य देवेशस्तां ययौ पार्वतीपतिः । दृष्ट्वा श्रमयुतां देवीं
विस्मितो मोहितोऽभवत् ॥४०॥ ब्रह्मचारिस्वरूपेण निंदयामास शंकरम् । सा तं क्रोधयुता भर्त्स्य निर्ययौ वनगाचरत् ॥४१॥
ततोऽतितोषसंयुक्तः शंकरो रूपमादधे । स्वकीयं तद्विलोक्यैव ननाम जगदंबिका ॥४२॥ तुष्टाव तं महादेवं ततः स
खं. ७ अ. ३ पान ५
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
वरदोऽभवत् । जगाद मोहसंयुक्तः पार्वतीमीश्वरेश्वरः ॥४३॥ शिव उवाच । वरं वृणु महाभागे तपसा विजितस्त्वया ।
दास्यामि नात्र संदेहस्त्वदधीनोऽहमादरात् ॥४४॥ त्वदाज्ञावशगो भूत्वा स्थास्यामि नित्यमंजसा । भार्या मे भव कल्याणि
पतिस्तेऽहं पुरातनः ॥४५॥ पार्वत्युवाच । यदि प्रसन्नभावेन वरं दास्यसि शंकर । तदा मे पितरं गत्वा भार्यार्थं याचयस्व
माम् ॥४६॥ पतिव्रतात्मकं धर्मं देहि मे विघ्नहीनकम् । तेन तुष्टा महादेव त्वयि नित्यं परायणा ॥४७॥ शिव उवाच ।
त्वयोक्तं सफलं सर्वं भविष्यति न संशयः । पितरं याचयित्वा ते त्वां वरिष्यामि निश्चितम् ॥४८॥ अहो तपो ह्यहो
धैर्यमतस्ते देहजो मलः । सर्वपूज्यो महादेवि भविष्यति न संशयः ॥४९॥ कश्यप उवाच । तस्मिन् दिने तृतीया तु भाद्री
शुक्ला बभूव ह । शिवेन संयुता देवी गणेशानं पुपूज ह ॥५०॥ ततश्चतुर्थिकायां सा होमं चकार हर्षिता । पंचम्यां
ब्राह्मणैः सार्धं पारणं जगदंबिका ॥५१॥ महोत्सवयुता देवी मूर्तिं तां गृह्य हर्षिता । जले चिक्षेप विघ्नेशं प्रार्थयामास
यत्नतः ॥५२॥ ततः शिवो जगामैव स्वस्थानं हर्षसंयुतः । गत्वा प्रणम्य पितरं पार्वती संस्थिताऽभवत् ॥५३॥
॥ ओमिति मदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते शिवपार्वतीसमागमो नाम द्वितीयोऽध्यायः ॥
➔★🠔
॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । गणेशव्रतपुण्येन मोहितः शंकरः सदा । तन्मना अभवद्देवो विप्रवेषधरो बभौ ॥१॥
हिमाचलं समागम्य स्मृत्वा विघ्नेश्वरं शिवः । नानाकलां प्रदर्शयैव मोहयामास तं क्षणात् ॥२॥ हिमाचलो जगादैव वरं
वृणु यमिच्छसि । दास्यामि मदधीनं चेन्नात्र कार्या विचारणा ॥३॥ द्विज उवाच । उमां देहि नगाधीश नान्यं याचे वरं परम् ।
ततः स खेदसंयुक्तस्तूष्णीमेवाऽभवद्गिरिः ॥४॥ तं चातिशोकसंयुक्तं दृष्ट्वोवाच जगन्मयी । उमा तं देहि मां तात शिवोऽयं
नात्र संशयः ॥५॥ ततः स हर्षितोऽत्यंतं ददौ तस्मै सुतां प्रिये । शिवः स्वस्थानमागम्य देवैः संमानितोऽभवत् ॥६॥
लग्नं शुभं समालोक्य पूजयित्वा गजाननम् । देवाद्विभिः समायुक्तः पर्वतेशं ययौ शिवः ॥७॥ हिमाचलः प्रसन्नात्मा
विवाहमकरोत्ततः । शिवयोर्भक्तिसंयुक्तो ब्राह्मणैर्वेदपारगैः ॥८॥ शिवां गृह्य महेशानः कैलासमगमत् स्वयम् । तया रेमे
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
ख. ७ अ. ३ पान ६
महायोगी ततः स्कंदो बभूव ह ॥९॥ गणेशानं समाराध्य तारकं दैत्यनायकम् । जघान सुखसंयुक्तं चकार सचराचरम्
॥१०॥ शिवः शक्त्या समायुक्तो मोहितो मायया भृशम् । तदधीनस्वभावेनाऽतिष्ठन्नित्यं महासती ॥११॥ कदाचित् पार्वती
देवी सखीभिः संवृता स्थिता । मनसा धारयामास धन्याऽहं सर्वभावतः ॥१२॥ शिवं त्यक्त्वा दक्षगृहे गताऽहं मानसंयुता ।
देहं त्यक्त्वा पुनर्जाता हिमाचलगृहे सुता ॥१३॥ देवोशो मां ततस्त्यक्त्वा शंकरः पर्वतांतरे । गतः स्वयं स याचित्वाऽवृणोन्
मां पितरं प्रभुः ॥१४॥ किं त्यक्त्वा मां गतः शंभुः किं पुनर् याचिता ह्युत । अधुना मदधीनः स वर्तते नात्र संशयः ॥१५॥
मदीया ममता सर्वा पूर्णा जाता विशेषतः । मानिनीनां रहस्यं तु मया संरक्षितं भवेत् ॥१६॥ एवं मनसि हर्षेण
धन्यात्मानं नगात्मजा । मेने नित्यं ततः सर्वाः सख्यस्तां वचनं जगुः ॥१७॥ सख्य ऊचुः । धन्या त्वं मानिनीमध्ये मानो
जित्वा तु शंकरम् । तपसा रक्षितो देवि त्वदधीनः शिवोऽभवत् ॥१८॥ तच्छ्रुत्वा जगदंबा साऽतीव मानयुताऽभवत् ।
हास्यं चकार तत्रैव चित्रं देवि बभूव ह ॥१९॥ तस्या हास्यात् समुत्पन्नः पुरुषः कामसन्निभः । ममनामा महाभागो
महान् पर्वतसन्निभः ॥२०॥ सा दृष्ट्वा विस्मिता देवी सखीभिस्तमुवाच ह । कस्त्वं कस्मादिहायातः कस्य किं च चिकीर्षसि
॥२१॥ पुरुष उवाच । तव हास्यात् समुत्पन्नं पुत्रं मां विद्धि मानदे । आज्ञां कुरु करिष्यामि त्वदीयां सर्वभावतः ॥२२॥
पार्वत्युवाच । मया मानः कृतः पूर्णः तस्मात् त्वं निर्गतः स्वयम् । ममनामा भवस्वाद्य पुत्र मानपरायणः ॥२३॥ गणेशं भज
भक्त्या त्वं स ते सर्वं प्रदास्यति । तेन सर्वत्र विश्वस्मिन् विख्यातः प्रहविष्यसि ॥२४॥ ततस्तस्मै महादेवी ददौ मंत्रं
षडक्षरम् । गणेशस्य प्रहर्षेण विधियुक्तं सुताय सा ॥२५॥ स तां प्रणम्य देवेशीं तपसे वनमाययौ । तत्राऽऽजगाम दैत्येशः
शंबरः कालचोदितः ॥२६॥ पप्रच्छ पार्वतीपुत्रस्तं दृष्ट्वा को भवानिति । किमर्थमिह संप्राप्तो वद मे कारणं महत् ॥२७॥
शंबर उवाच । विद्यां दातुं महाभाग समायातोऽहमादरात् । समर्थस्त्वं तया नित्यं भविष्यसि न संशयः ॥२८॥ एवमुक्त्वा
महादैत्यो विद्यां नानाविधां ददौ । आसुरीं तां ममो नाम साधयामास यत्नतः ॥२९॥ साधयित्वा स्वयं विद्यां कामरूपो
बभूव ह । नानासामर्थ्यसंयुक्तस्ततो वै हर्षितोऽभवत् ॥३०॥ शंबरं प्रणिपत्यैव जगाद वचनं हितम् । भक्तियुक्तस्वभावेन
कृतांजलिरुदारधीः ॥३१॥ ममासुर उवाच । त्वया कृतं महाभाग महत् कार्यं मदीय कम् । अधुना शिष्यभूतं ते शाधि मां
किं करोम्यहम् ॥३२॥ शंबर उवाच । गणेशं शक्तिदत्तेन मंत्रेणाराध्य मानद । ब्रह्मांडराज्यमुग्रं तं याचयस्व महाप्रभुम् ॥३३॥
[Header]
खं. ७ अ. ३ पान ७
तत्त्वैश्च तत्त्वसंभूतैर्न मे मृत्युर्भवेत् प्रभो । याचस्व सर्वभावेन नान्यं कंचिद्वरं परम् ॥३४॥ वरान् लब्ध्वा महाभाग मद्गेहे
संगतो भव । पश्चात् किंचित् कुरुष्व त्वमिति याचेऽहमादरात् ॥३५॥ तथेति शंबरं सोऽपि ममनामा जगाद ह । शंबरः
स्वगृहं गत्वा हर्षयुक्तो बभूव ह ॥३६॥ ममस्तत्र समासीनस्तपस्तेपे सुदारुणम् । वायुमात्राशनो देवि ध्यात्वा हृदि
गजाननम् ॥३७॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । प्राणशेषं ममं तत्र ययौ दातुं वरान् स्वयम् ॥३८॥ आगतं
गणनाथं स न बुबोध महासुरः । ध्यानसंस्थं गणाधीशस्तमुवाच दयायुतः ॥३९॥ श्रीगणेश उवाच । वरान् ब्रूहि महाभाग मम
ते हृदि संस्थितान् । दास्यामि तपसा तुष्टो मंत्रसेवनतः परम् ॥४०॥ गणेशवचनं श्रुत्वा मम उन्मील्य लोचने । पश्यन्
विघ्नेश्वरं सोऽपि सत्तायुक्तो बभूव ह ॥४१॥ उत्थाय तं नमस्कृत्य पूजयामास भक्तितः । पुनः प्रणम्य तं स्तोतुं स्तोत्रं
सोऽपि समारभत् ॥४२॥ ममासुर उवाच । नमस्ते गणनाधाय गणानां पतये नमः । गणपदप्रदात्रे ते गणरूपप्रधारिणे ॥४३॥
विघ्नानां पतये तुभ्यं विघ्नानां विघ्नरूपिणे । भक्तानां विघ्नहर्त्रे ते इतरेषां प्रहारिणे ॥४४॥ अनाथानां प्रणानाथ नाथाय
नाथदायिने । नाथानां नाथरूपायानाथाय तु नमो नमः ॥४५॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे
ब्राह्मणानां च पालकाय नमो नमः ॥४६॥ अमेयशक्तये चैव शक्तिरूपधराय ते । शक्तिभ्यः शक्तिदात्रे ते शक्तिशक्ते
नमो नमः ॥४७॥ परेशाय परेभ्यस्तु परपदप्रदायिने । पराय पररूपाय परात्पर नमोऽस्तु ते ॥४८॥ ज्येष्ठराजाय ज्येष्ठेभ्यः
परपदप्रदायिने । ज्येष्ठाय ज्येष्ठहीनाय मात्रे पित्रे नमो नमः ॥४९॥ विघ्नेश्वरानंतविहारकारिन् स्वानंददात्रे सकलानुगोप्त्रे ।
सिद्धेश्च बुद्धेः पतये परात्मन् हेरंब सर्वत्र नमो नमस्ते ॥५०॥ किं स्तौमि योगप्रदमेकदंतं योगस्वरूपं परमार्थभूतम् ।
स्तोतुं न शक्ताः प्रभवंति वेदाः शंर्भादयो योगिन एव ढुंढिम् ॥५१॥ धन्योऽहं सर्वभावेभ्यो दृष्ट्वा देवं गजाननम् । अगम्यं
योगिनां साक्षात् कृतकृत्योऽहमंजसा ॥५२॥ वरदोऽसि गणाधीश तदा मे तत्त्वभिः कदा । न भवेत्तद्भवैभ्यो वै मरणं
त्वत्प्रसादतः ॥५३॥ यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो । आरोग्यादि समायुकतं मां कुरुष्व गजानन ॥५४॥ राज्यं
ब्रह्मांडगोलस्य देहि मे वाञ्छितप्रद । संग्रामे न समं तत्र किंचिद्भवतु विघ्नप ॥५५॥ सदा विजयसंयुक्तमजेयं शंकरादिभिः ।
मां कुरुष्व गणाधीशामोघशस्त्रप्रधारिणम् ॥५६॥ श्रीगणेश उवाच । दुर्घटं कथितं सर्वं त्वया दैत्येंद्रनायक । तुष्टस्तथापि
दास्यामि त्वयोक्तं ते भविष्यति ॥५७॥ स्तोत्रं भवत्कृतं मे च कामदं काममिच्छते । भविष्यति न संदेहो भुक्तिमुक्तिप्रदं
तथा ॥५८॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मणां पतिः । ममासुरः प्रसन्नात्माऽभवच्छंबरगेहगः ॥५९॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरवरप्रदानं नाम तृतीयोऽध्यायः ॥
॥श्रीगणेशाय नमः॥ कश्यप उवाच । शंबरं प्रणिपत्यादौ कथयामास विस्तरात् । वृत्तांतं ममनामाऽसौ हर्षितं तं चकार
ह ॥१॥ मोहिनीं प्रददौ तस्मै स्वपुत्रीं शंबरासुरः । तया च संस्थितो रेमे प्रिये तत्र ममासुरः ॥२॥ ततः स्वल्पे गते काले
शंबरः शुक्रमयायौ । तं प्रणम्य महाभागं वृत्तांतं प्रजगाद ह ॥३॥ ततः शुक्रेण दैत्येंद्राः प्रेरिताः सर्व आययुः । स्वयं
शंबरसंयुक्तो जगाम ह ममासुरम् ॥४॥ शुक्रं समागतं दृष्ट्वा ममासुरः प्रतापवान् । तं प्रणम्य महाभागं कृतांजलिः
पुरः स्थितः ॥५॥ पूजयामास तं विप्रं हर्षयुक्तेन चेतसा । प्रणम्य चाऽऽज्ञया तस्याऽऽसनेऽसौ संस्थितोऽभवत् ॥६॥
ततो दैत्यगणास्तत्र समाजग्मुः प्रहर्षिताः । तान् सर्वान् मानयामास यथाविधि ममासुरः ॥७॥ ततः सर्वमतं
गृह्य काव्यो नीतिविशारदः । ब्राह्मणैस्तं चाभिषिच्य दैत्याधीशं चकार ह ॥८॥ प्रधानाः पंच तस्यापि बभूवुर्बलसंयुताः ।
प्रेतः कालः कलापश्च कालजित् धर्महा प्रिये ॥९॥ दैत्या दानवभूपाश्च राक्षसादय आदरात् । हर्षयुक्ता बभूवुस्ते ततः
स्वस्वगृहे गताः ॥१०॥ चिंतानाशं ममो भूम्यां निर्ममे नगरं परम् । सर्वशोभासमायुक्तं परिखावलयांकितम् ॥११॥
तत्र नाना जना जग्मुर्वासार्थं विषयप्रियाः । वर्णाश्रमयुताः सर्वे वासं चक्रुः प्रहर्षिताः ॥१२॥ दैत्याद्यास्तत्र संरेजुर्विशेषेण
निवासकाः । राजा ममासुरस्तान् वै पालयामास हर्षितः ॥१३॥ पुत्रौ द्वौ समशीलौ तु मोहिन्यां संबभूवतुः । ममासुरान्
महातेजो युक्तौ दैत्यविवर्धनौ ॥१४॥ धर्माधर्मौ तयोर्नाम चक्रिरे ब्राह्मणादयः । ताभ्यां ममासुरोऽत्यंतं रेजे तेजोयुतो
महान् ॥१५॥ एकदा श्वशुरेणाऽसौ समानाय्य महामुनिम् । उशनसं प्रणम्याऽऽदौ जगाद वचनं परम् ॥१६॥ ममासुर उवाच ।
तव स्वामिन् प्रसादेन समर्थोऽहं न संशयः । प्रजेष्यामि विशेषेण ब्रह्मांडं लोकसंकुलम् ॥१७॥ आज्ञापय महायोगिन्
खं. ७ अ. ४ पान ९
त्वदाज्ञावशवर्तिनम् । दासं मां शाधि विप्रेन्द्र तवेच्छा कीदृशी भवेत् ॥१८॥ कश्यप उवाच । ममासुरस्य वाक्यं स श्रुत्वा
वेदविदां वरः । शुक्रस्तं भक्तिसंयुक्तं दृष्ट्वोवाच सुरूपिणम् ॥१९॥ शुक्र उवाच । गणेशवरदानेन समर्थोऽसि महासुर ।
गणेशभक्तिसंयुक्तो जय त्वं विश्वमंजसा ॥२०॥ कदाचिदपि दैत्येश द्वेषं विघ्नेश्वरस्य च । मा कुरुष्व तदा राज्यं
करिष्यसि विशेषतः ॥२१॥ तथेति दैत्यमुख्यस्तं जगाद हर्षसंयुतः । ततोऽसुरान् समाहूय वृत्तमकथयत्परम् ॥२२॥ ते
सर्वे हर्षसंयुक्ताः साधु साध्वब्रुवन् वचः । द्विजैर्मुहूर्तमवलोक्य निर्ययौ च ममासुरः ॥२३॥ अपारसेनया युक्तश्चतुरंग-
प्रभूतया । नानावाहनगा दैत्या दैत्येंद्रा रेजुरंजसा ॥२४॥ सन्नद्धा वीरमुख्याश्च समाजग्मुर्महासुरम् । महाबला महा-
वीर्याः पर्वतोन्मूलने क्षमाः ॥२५॥ प्रधानैर्युद्धमार्गज्ञैः पुत्राभ्यां संयुतः स्वयम् । ममासुरो रथे संस्थः शुशुभे तेजसा
युतः ॥२६॥ पृथ्वीं जेतुं महावीरा जग्मुर्द्दीपसमन्विताम् । जित्वा क्षत्रगणान् सर्वान् स्ववशे तांस्तु चक्रिरे ॥२७॥ ततः
पातालगाः सर्वे शेषं जित्वा महाबलम् । ययुः स्वर्गेषु दैत्येंद्रा इंद्रं क्रोधसमन्विताः ॥२८॥ इंद्रः सुरगणैः सार्धं योद्धुं
समुद्यतोऽभवत् । ऐरावतसमारूढो ययौ संग्राममंडलम् ॥२९॥ दैत्येंद्रा शस्त्रसंघातैर्मर्दयित्वा सुरेंद्रकान् । ममासुरं ययुः
सर्वे धृतेंद्रं ते प्रहर्षिताः ॥३०॥ इंद्रासनसमारूढो ममासुरः प्रतापवान् । शुशुभे दानवेंद्रैः स सेव्यमानः सदारुणैः ॥३१॥
सत्यलोकागतं वीक्ष्य दूतं संप्रेष्य दारुणम् । योद्धुं समुद्यतं ज्ञात्वा वेधाः पपाल तद्भयात् ॥३२॥ विष्णुं गत्वा विधाताऽसौ
रक्ष रक्षेति चाब्रवीत् । विष्णुस्तं गृह्य शंभुं वै शरणं प्रजगाम ह ॥३३॥ ज्ञात्वा वृत्तांतमेवं स ममासुरः प्रतापवान् । कैलास-
माययौ दैत्यैर्योद्धुं महेश्वरेण ह ॥३४॥ शिवलोके समायातो भानुः शक्तिस्तथा भयात् । विचार्य देवपाः सर्वे दैत्येंद्रं
जग्मुरावृताः ॥३५॥ मरणे निश्चयं कृत्वा शंभुमुख्याः सुरेश्वराः । ममासुरं तं सन्नद्धाः प्रययुस्ते सुलोचने ॥३६॥ ममासुरस्य
सैन्यं तु सन्नद्धं क्रोधसंयुक्तम् । देवेंद्रान् योद्धुमायातं नानावीरप्रपालितम् ॥३७॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते शिवममासुरसमागमो नाम चतुर्थोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । समागतान् पुरो देवान् दृष्ट्वा क्रोधसमन्विताः । दैत्याः प्रहरणैर्जघ्नुः शस्त्रास्त्रैर्मर्म-
भेदिभिः ॥१॥ देवाः क्रोधयुतास्तद्वज्जघ्नुस्तान् दैत्यपुंगवान् । अन्योन्यं मिलिताः सर्वे एकीभूता यथाऽभवन् ॥२॥ रज-
स्तिमिरभावेन स्वपरज्ञानवर्जिताः । पुरोगाञ्जघ्निरे सर्वे स्वान् परानपि दुर्मदाः ॥३॥ दिनैकं दारुणं युद्धं बभूवे वीरमोहनम् ।
ततः शोणितजा घोरा नदी तत्र प्रसुस्रुवे ॥४॥ ततो रजोऽभवच्छांतं प्रकाशसंयुताः पुनः। दैत्या देवा विवेकेन युयुधुर्जात-
संभ्रमाः ॥५॥ ततो दैत्यबलैर्भग्नं देवसैन्यं सुदारुणम् । पपाल दैत्यसंघैस्तद्धतं हर्षसमन्वितैः ॥६॥ ततो भैरवमुख्याश्च
विष्वक्सेनादयो ययुः । आदित्याः कालिमुख्याश्च शक्तयः क्रोधसंयुताः ॥७॥ तैः समंतान् महास्त्रैस्तद्वलं संमर्दितं परम् ।
दैत्यानां भयसंयुक्तं पपाल च दिशो दश ॥८॥ ततः क्रोधसमायुक्ताः प्रधाना ममकस्य ते । जग्मुः प्रहरणैर्वीक्ष्य
शस्त्रैर्जघ्नुः सुरेंद्रकान् ॥९॥ दैत्यपैर्भैरवाद्याश्च युयुधुर्जातसंभ्रमाः । युद्धं तत्राऽभवद्धोरं दिनैकं जयमिच्छताम् ॥१०॥
ततो दैत्येंद्रमुख्यास्ते पतिता मूर्च्छया युताः । पपालासुरसैन्यं तद्भययुक्तं दिशो दश ॥११॥ ज्ञात्वा ममासुरस्यैव पुत्रौ
द्वौ समुपस्थितौ । प्रणम्य पितरं तौ तु योद्धुं जग्मतुरादरात् ॥१२॥ ततः काव्येन दैत्येंद्रा जीविताः पुनरुत्थिताः ।
युयुधुस्ते महावीरा देवैः परमदारुणाः ॥१३॥ दैत्यैर्धर्मश्च संक्रुद्धोऽधर्मः शस्त्रास्त्रवर्षिणौ । बभूवतुश्च देवेंद्रान् मूर्च्छितां-
श्चक्रतुर्मृधे ॥१४॥ न कोऽपि देवसैन्यस्थस्तयोरस्त्रबलं परम् । असहत्तत्ततो देवाः प्रपेलुर्भयसंयुताः ॥१५॥ ततः शिवः
स्वयं क्रुद्धो वृषारूढः समाययौ । अनु तं जगदंबा सा भानुर्विष्णुर्ययौ पुरः ॥१६॥ तेषां युद्धं महाघोरं बभूवे रोमहर्षणम् ।
न वक्तुं शक्यते देवि ब्रह्मांडभयकारकम् ॥१७॥ अधर्मो विष्णुना सार्धं धर्मः शंकरमाययौ । कालजिह्नानुना सार्धं प्रेतः
शक्त्या महाबलः ॥१८॥ कपालः कालरुद्रेण काल्या धर्मघ्न एव च । नियतं युयुधुः सर्वे शस्त्रास्त्रैर्मर्मभेदिभिः ॥१९॥
दिनैकं दारुणं युद्धं बभूवे देवरक्षसाम् । ततः काल्या हतः पापी धर्मघ्नश्च मृतोऽभवत् ॥२०॥ कपालः कालरुद्रेण त्रिशूलेन
प्रमूर्च्छितः । प्रेतः शक्त्या हतस्तत्र ममार खड्गघाततः ॥२१॥ त्रिशूलेन हतो धर्मः शिवेनामूर्च्छितोऽभवत् । चक्रेण
विष्णुना तद्वदधर्मो मूर्च्छितः कृतः ॥२२॥ चक्रत्रिशूलकाद्यैश्च शस्त्रास्त्रैर्दैत्यसैन्यकम् । हतं सर्वत्र देवेशैर्हाहाकाररवा-
कुलम् ॥२३॥ शोणितौघा महानद्यस्तत्र जाता भयानकाः । छिन्नभिन्नाश्च दैत्याद्याः पप्लुः सर्वतोदिशम् ॥२४॥ तत्राऽपि
शस्त्रवेगेन मृताः केऽपि सुलोचने । ततो ममासुरः क्रुद्धः संग्रामाय ययौ स्वयम् ॥२५॥ पुरः स्थितं शिवं वीक्ष्य जगाद
खं. ७ अ. ५ पान ११
क्रोधसंयुतः । सर्वसंहारकं सोऽपि महाबलपराक्रमः ॥२६॥ ममासुर उवाच । तिष्ठ तिष्ठ महादेव पश्य मे पौरुषं परम् ।
दृष्टं त्वदीयं सामर्थ्यं सर्वदेवातिगं मया ॥२७॥ एवमुक्त्वा महादेवं धनुः सज्जमथाऽकरोत् । निष्काश्य सुदृढं बाणं मुमोच
दैत्यनायकः ॥२८॥ तावत् त्रिशूलकं शंभुश्चिक्षेप नाशकारकम् । ममासुरं समासाद्य निष्फलं तद्बभूव ह ॥२९॥ बाणेन
स हतः शंभुः पपात धरणीतले । मूर्च्छया पीडितोऽत्यंतं सहसा दैत्यपालिनि ॥३०॥ ततो ममासुरः क्रुद्धो बाणेनैकेन
वक्षसि । विव्याध माधवं देवं मूर्च्छितं तं चकार ह ॥३१॥ शक्तिः सूर्यस्ततः क्रुद्धौ बाणान् चिक्षिपतुः परान् । ते सर्वे
निष्फला बाणाः पेतुः परमदारुणाः ॥३२॥ ततो ममासुरः सूर्य शक्तिं विव्याध वक्षसि । एकैकेन स बाणेन पतितौ
धरणीतले ॥३३॥ बाणवृष्टिं महोग्रां स चक्रे क्रोधसमन्वितः । तया देवेंदप्रमुख्यास्र देवाः संमर्दिता मृधे ॥३४॥ ततो देवान्
मृतान् वीक्ष्य कांश्चिद्भयसमन्वितान् । पलतो दैत्यराजः स हर्षितोऽभून् महामते ॥३५॥ देवान् शंभुमुखान् गृह्य ययौ
स्वस्थानमुत्तमम् । काव्येन जीवितान् दैत्यान् प्रधानपुत्रमुख्यकान् ॥३६॥ ततो धर्मं महादैत्यः कैलासाधिपतिं सुतम् ।
अधर्मं विष्णुलोकस्य नाथं चकार हर्षितः ॥३७॥ प्रेतं शक्तिपुरस्यापि कपालं स चकार ह । सौरलोकाधिपं वीरं धर्मघ्नं
ब्रह्मणस्तथा ॥३८॥ कालजितं महेंद्रस्य यमस्य कालकं परम् । लोकस्य चाधिपं चक्रे तथाऽन्येषां च दानवान् ॥३९॥ ततः
स्वपुरमागम्य कारागारे समाक्षिपत् । देवेन्द्रान् शिवमुख्यान् स राज्यं चक्रे महाबलः ॥४०॥ ब्रह्मांडाधिपतिर्दुष्टो बभूव
स ममासुरः । कृतकृत्यमिवात्मानं मेने दैत्येंद्रसंयुतः ॥४१॥ स्त्रीमांसमदिरायुक्तो बभूवे भोगलालसः । अविनाशं
खमात्मानं मेने देहधरोऽपि सन् ॥४२॥ ततोऽतिमदसंयुक्तो ममासुरः प्रतापवान् । देवांगना नराणां तु कन्या नागोद्भवा
बलात् ॥४३॥ समानाय्यासुरेंद्रैः स बुभुजे पापनिश्चयः । ततो बहुगते काले दैत्येंद्रान् प्रेष्य दारुणान् ॥४४॥ खलः
खंडनकं चक्रे वर्णाश्रमसुकर्मणाम् । आसुरं कर्म सर्वत्र स्थापयामास दंडतः ॥४५॥ न स्वाहा न स्वधा कुत्र भवति स्म
कदाचन । न वषट्कारभावश्च वर्णसंकरभावतः ॥४६॥ ऋषयस्ताडिताः केचित् केचिद्बंधनसंयुताः । देवस्थानानि सर्वाणि
खंडितानि च दानवैः ॥४७॥ तीर्थानि पुण्यवृक्षास्ते बभंजुः पापकारकाः । ममासुरात्मकं कर्म चक्रिरे सर्वमानवैः ॥४८॥
प्रतिमा दैत्यनाथस्य स्थापिताः सर्वमंदिरे । इत्यादिकर्मनाशश्च बभूव जगतीतले ॥४९॥ हाहाकारयुताः सर्वे अष्टा जाताः
सुलोचने । वर्णाश्रमविहीनास्ते जना दुःखसमन्विताः ॥५०॥ राज्यं चकार दैत्येशो ममासुरः सुहर्षितः । वृष्ट्यादिक-
खं. ७ अ. ६ पान १२
मभूत्तत्र काले सर्वं भयाकुलम् ॥५१॥ एवं पापे प्रवृद्धे तु देवाश्चोपोषणान्विताः । कारागारे स्थिताः सर्वे बभूवुः
शोकपीडिताः ॥५२॥
॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते ममासुरराज्यभोगवर्णनं नाम पंचमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । ततः शंभुमुखा देवा विचारं दुःखसंयुताः । ममासुरस्य नाशार्थं चक्रुः सर्वे
भयातुराः ॥१॥ तत्र विष्णुर्महाबुद्धिरुवाच वाक्यमुत्तमम् । देवान् सर्वान् समाश्वास्य विघ्नराजं हृदि स्मरन् ॥२॥ विष्णुरुवाच ।
कारागारे वयं क्षिप्तास्तत्र कर्मप्रखंडनात् । उपोषणसमायुक्ताः कृता ममासुरेण च ॥३॥ अतिपापं ममस्यैव राज्ये वृत्तं
महेश्वराः । तेन पुण्यविहीनोऽयं मरिष्यति न संशयः ॥४॥ सर्वसत्ताधरः प्रोक्तो गणेशो वेदवादिभिः । विघ्नराजश्च
तेनाऽसौ नामाऽभूद्धर्मपालकः ॥५॥ आपद्धर्मविधानेन तदुपासनकं परम् । करिष्यामो विशेषेण स एनं घातयिष्यति ॥६॥
तत्त्वप्रकाशकः सोऽपि न तत्त्वरूपधारकः । तत्त्वहीनो न देवेशा अत एनं वधिष्यति ॥७॥ अतिविषयसंयुक्तो दैत्येंद्रै-
र्मोहितो भृशम् । ममासुरो गणेशानं त्यक्त्वा भोगपरोऽधुना ॥८॥ अन्यच्च शृणुत प्राज्ञाः क्षेत्रेषु विघ्नपस्य च । मूर्तयः
खंडिताः सर्वाः स्वकीयाः स्थापिताः खलैः ॥९॥ आदौ गणपतेः प्रोक्तं पूजनं स्मरणादिकम् । तत्कर्मसु ममेनैव खंडितं
भूमिमंडले ॥१०॥ अतो विघ्नेश्वरश्चैनं मारयिष्यति निश्चितम् । तं विशेषेण भजत देवा भावसमन्विताः ॥११॥ विष्णो-
र्वचनमाकर्ण्य देवाः शंभुपुरोगमाः । साधु साधु त्वया प्रोक्तं जगुस्तं केशवं प्रिये ॥१२॥ ततो देवा गणेशानं चिंत्य
संकटमुक्तये । मंत्रस्नानं प्रचक्रुस्ते न्यासादींश्च मनोमयान् ॥१३॥ ध्यात्वा गणपतिं सर्वे पुपूजुर्मानसैः पृथक् । उपचारै-
रनेकैस्ते जेपुर्मंत्रं हृदा परम् ॥१४॥ एकाक्षरविधानेन युक्तास्तेपुस्तपो महत् । संगोप्य भयसंयुक्ता निराहारपरायणाः ॥१५॥
एवं वर्षशते पूर्णे तान् ययौ गणनायकः । भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने वरदायकः ॥१६॥ तं दृष्ट्वा हर्षसंयुक्ता देवा उत्थाय
सत्वरम् । प्रणेमुः पूजयामासुर्मानसैरुपचारकैः ॥१७॥ पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसंपुटाः । साश्रुनेत्राः प्रिये देवा
खं. ७ अ. ६ पान १३
भक्तिनम्रात्मकंधराः ॥१८॥ देवेंद्रा ऊचुः । नमस्ते विघ्नराजाय भक्तविघ्नविदारण । अभक्तेभ्यो विशेषेण विघ्नदात्रे नमो
नमः ॥१९॥ गणेशाय परेशाय हेरंबाय नमो नमः । चतुर्बाहुधरायैव नागेशध्वजिने नमः ॥२०॥ अमेयायाप्रतर्क्याय
सदा स्वानंदवासिने । ब्रह्मणां पतये तुभ्यं ब्रह्मदात्रे नमो नमः ॥२१॥ सांख्याय बोधरूपाय पुरुषाय परात्मने । गणेशाय
प्रकृतये त्रिगुणाय नमो नमः ॥२२॥ स्रष्ट्रे पात्रे च संहर्त्रे प्रकाशरूपधारिणे । मोहकाय त्रिलोकस्थनाथाय ते नमो
नमः ॥२३॥ नानामायाप्रचालाय मायिभ्यो मायया प्रभो । मोहदाय विशेषेण मायिकाय नमो नमः ॥२४॥ नानाभेदमयं
ब्रह्म विघ्नयुक्तं न संशयः । तत्रानंदयुतायैव समभावाय ते नमः ॥२५॥ सर्वभेदविहीनं यद्ब्रह्मामृतमयं परम् । भेदहीनेन
विघ्नेन युतं शास्त्रप्रमाणतः ॥२६॥ भेदयुक्तं गणाधीश भेदहीनं त्वया परम् । सृष्टं द्वंद्वमयं नाथ तयोर्नाथाय ते नमः ॥२७॥
आनंदं परमं ब्रह्म विघ्नानां हारकं मतम् । दायकं तत्त्वमेवेति विघ्नराज नमोऽस्तु ते ॥२८॥ तं विघ्नराजराजं तु पश्यामश्चर्म-
चक्षुषा। धन्या वयं गणाधीश तव पादस्य दर्शनात् ॥२९॥ एवमुक्त्वा प्रणेमुस्ते देवाः शंभुपुरोगमाः। स तानुवाच विघ्नेशो
भक्त्या स्तोत्रेण यंत्रितः॥३०॥ श्रीविघ्नराज उवाच । वरान् ब्रूत महादेवा येषां यान् मनसीप्सितान् । दास्यामि स्तोत्रसंतुष्टस्तपसा
ध्यानशालिना ॥३१॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । पठते शृण्वते देवा वाञ्छितार्थप्रदायकम् ॥३२॥ गणेश-
वचनं श्रुत्वा देवा हर्षसमन्विताः । प्रणम्य तं पुनः प्रोचुर्हर्षगद्गदया गिरा ॥३३॥ देवा ऊचुः । तव पादेऽचलां भक्तिं देहि
विघ्नेश नः पराम् । यया विघ्नविहीनाश्च शांतिं प्राप्ताः सुयोगिनः ॥३४॥ ममासुरं नाथ जहि सर्वपीडाप्रदायकम् ।
धर्मध्वंसकरं पूर्णं वर्णसंकरकारिणम् ॥३५॥ कारागारे वयं क्षिप्ता वरदानप्रभावतः । अधुनोपोषणैर्युक्ताः कृतास्तेनासुरेण
च ॥३६॥ एवं तेषां वचः श्रुत्वा विघ्नराजः प्रतापवान् । तथेति तानुवाचेदं करिष्यामि वचो हितम् ॥३७॥ एतस्मिन्नंतरे देवि
तत्र चित्रं बभूव ह । दैत्याः संस्थापिताः पूर्वं रक्षार्थं ये दिवौकसाम् ॥३८॥ ते दृष्ट्वा चेष्टितं तेषां गणेशाऽऽगमनात्मकम् ।
गत्वा तं सर्ववृत्तांतं कथयामासुरादरात् ॥३९॥ रक्षका ऊचुः । देवैः संराधितस्तत्राऽऽययौ विघ्नपतिः प्रभो । तं प्रणम्य
महेशाद्यास्तुष्टुवुस्तद्वधाय च ॥४०॥ तथेति गणनाथेन कृतं सर्वं न संशयः । अधुना दैत्यनाथ त्वं यत् करिष्यसि तत्
कुरु ॥४१॥ तेषां वचनमाकर्ण्य क्रोधयुक्तो ममासुरः । सर्वानानीय वृत्तांतं कथयामास विस्तरात् ॥४२॥ श्रुत्वा ते भय-
संयुक्ता बभूवुर्जातसंभ्रमाः । जगुस्तं प्रणिपत्यैव वचनं स्वहितावहम् ॥४३॥ दैत्येंद्रा ऊचुः । कारागारे स्थिता देवास्तैः कथं
गणनायकः । आराधितो विशेषेण वरदश्च बभूव ह ॥४४॥ दैत्यैर्दृष्टस्तत्त्वमयो गणाधीशो न संशयः । तत्त्वहीनो न
दैत्येंद्र दृश्यते केनचित् कदा ॥४५॥ अतः सदेवकं तं तु हनिष्यामो न संशयः । किं करिष्यति विघ्नेशस्त्वां ध्रुवं
मृत्युवर्जितम् ॥४६॥ एवमुक्त्वा महादैत्याश्चक्रुर्नादं भयंकरम् । देवादीनां ततः सर्वे सन्नद्धाः प्रबभूविरे ॥४७॥ एतस्मिन्नंतरे
तत्र पुनश्चित्रं बभूव ह । नारदो विघ्नराजं तं ययौ हर्षसमन्वितः ॥४८॥ प्रणम्यास्तुत्य विघ्नेशं गानं चकार हर्षतः । जगाद तं
महायोगी प्रभो जहि ममासुरम् ॥४९॥ मुनिं तं विघ्नराजस्तु सामार्थं दैत्यपस्य वै । समीपे प्रेषयामास स ययौ दैत्यनायकम् ॥५०॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते विघ्नराजप्रादुर्भावो नाम षष्ठोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । समागतं ममो दैत्यो नारदं पूज्य दैत्यपैः । प्रष्टुं समुद्यतो यावत्तावत्तं नारदोऽब्रवीत् ॥१॥
नारद उवाच । आपद्धर्मविवेकेन देवैः संराधितोऽधुना । गणेशो वरदो भाति देवेभ्यः सिद्धिदायकः ॥२॥ त्वद्वधार्थं महाराज
प्रार्थितो देवनायकैः । तथेति प्रतिपाद्यैव तत्र संस्थोऽधुना प्रभुः ॥३॥ सामार्थं प्रेषयामास मां मम तेऽत्र सन्निधौ । शृणु
वाक्यं मदीयं त्वं हितं तेन भविष्यति ॥४॥ विघ्नाः सत्तात्मकाः प्रोक्ताः सत्ताऽत्र त्रिविधा मता । सत्यसंकल्परूपा च
पराधीनात्मिका प्रभो ॥५॥ सत्यसंकल्पसत्ताया धारका ब्रह्मवाचकाः । परमेश्वरसंज्ञास्ते स्वाधीनाः प्रभवंति ये ॥६॥
अन्ये नरादयः प्रोक्ताः सत्तावंतो न संशयः । तेषु दैवं समाख्यातं दैवाधीनास्ततः स्मृताः ॥७॥ त्वं वरेण
समर्थोऽसि स्वसत्तासंयुतो न च । वरसत्तात्मको दैत्य पराधीनो न संशयः ॥८॥ पराधीना नरा विघ्नैः पीडिताः सर्वदा
मताः । वृथा गर्वयुता अंते सत्ताहीना भवंत्युत ॥९॥ अहं ब्रह्मेति मोहेन मोहिता जगदीश्वराः । मदाधारमिदं सर्वं विश्वं
चलति तेऽब्रुवन् ॥१०॥ अस्मभ्यो न परं किं त् सत्ताहीनास्तदाऽभवन् । सत्यसंकल्पजां तेषां सिद्धिं गृह्णाति विघ्नपः
॥११॥ अतो विघ्नयुतं सर्वं जानीहि द्विविधं मतम् । सत्यासत्यमयं दैत्य द्वंद्वमायाविमोहितम् ॥१२॥ आनंदं परं ब्रह्म
द्वंद्वहीनं समात्मकम् । द्वंद्रेषु द्वंद्वभावाख्यं परं तन्मोहवर्जितम् ॥१३॥ तदेव विघ्नराजाख्यं ब्रह्म वेदैः प्रकाशितम् । देवैरारा-
खं ७ अ. ७ पान १५
धितं पूर्णं देहधारि बभूव ह ॥१४॥ अधुना तत् समायातं देवागारेषु दैत्यप । तद्गच्छ शरणं नो चेन् मरिष्यसि न संशयः
॥१५॥ स्वस्वधर्मयुतं सर्वं विश्वं भवतु दैत्यप । स्वधर्मनिरतो भूत्वा तिष्ठ स्थाने स्वके सदा ॥१६॥ स्वर्गभोगकरा देवा नरा
भूमिसमाश्रिताः । दैत्याः पातालगा भूत्वा तिष्ठंतु सुखसंयुताः ॥१७॥ वर्णाश्रमयुता लोकास्तिष्ठंतु नित्यमादरात् । एवं
कृत्वा मम त्वं तु तिष्ठ वै भोगसंयुतः ॥१८॥ एतस्मिन्नंतरे तत्र वाग्बभूवाशरीरिणी । मा गर्वं कुरु दैत्येंद्र नारदाज्ञावशो
भव ॥१९॥ नोचेद्विघ्नपतिः क्रुद्धस्त्वां हनिष्यति निश्चितम् । अतस्तं शरणं गच्छ सर्वसिद्धिप्रदायकम् ॥२०॥ ममासुरश्च तां
श्रुत्वा खेदयुक्तो बभूव ह । शुक्रं तत्र समानाय्य विचारमकरोत् परम् ॥२१॥ शुक्रेणाऽपि तथा प्रोक्तं ततः स भयसंयुतः ।
प्रणम्य नारदं वाक्यं जगाद हितमात्मनः ॥२२॥ ममासुर उवाच । त्वया नारद यत् प्रोक्तं तथा शुक्रेण निश्चितम् । देवानां
हितमत्यंतं नाऽहं यामि गजाननम् ॥२३॥ आदौ मया विशेषेण सेवितोऽयं महामुने । मां त्यक्त्वा देवनाथः सोऽभवत्तेन
नयामि तम् ॥२४॥ मरणं मे यदा प्राप्तं भविष्यति यशस्करम् । शत्रूणां शरणं विप्र न योग्यं मानिनां कदा ॥२५॥ तस्य
तद्वचनं श्रुत्वा नारदः पुनरब्रवीत् । मा चिंतां कुरु दैत्येंद्र नायं देवसहायवान् ॥२६॥ देवा मद्युता जाता दैत्यान् जघ्नुः प्रमो-
हिताः । दैत्यानां मूलनाशार्थं पातालं विविशुः पुरा ॥२७॥ तदाऽयं वरदो भूत्वा तव सामर्थ्यतः स्वयम् । देवान् मदविहीनांश्च
चकार विघ्ननायकः ॥२८॥ अपि त्वं मोहसंयुक्तस्त्यक्त्वा गणपतिं परम् । कर्मनाशनतः सर्वान् देवान् हंतुं समुद्यतः ॥२९॥
कर्मनाशप्रभावेण देवा नष्टा भवंति च । निर्देवं विश्वमत्यंतं तदा भवति सर्वदा ॥३०॥ अतस्त्वां हंतुमुद्युक्तो विघ्नराजो महासुर ।
स्वस्वधर्मयुतांश्चेत्तान्न हंति ब्रह्मनायकः ॥३१॥ सुरासुरमयश्चायं सिद्धिबुद्धिविहारकृत् । सिद्धिबुद्धिविहीनस्त्वं किं करिष्यसि
तद्वद ॥३२॥ विघ्नराजस्य विघ्नं तु कः क्षमो जायते वद । कर्तुं विघ्नयुतो नित्यं मूर्खभावान् मरिष्यसि ॥३३॥ आनंदं ब्रह्म
वेदेषु कथितं सदसन्मयम् । न तत्त्वसंयुक्तं दैत्य तत्त्वहीनं न विद्यते ॥३४॥ सर्वत्र योगभावेन संस्थितं द्वंद्वधारकम् । स
एव विघ्नराजस्त्वां हनिष्यति न संशयः ॥३५॥ तेनैव त्रिविधं सर्वं रचितं योगमायया । स्वस्वधर्मयुतं विश्वं कृतं
क्रीडार्थमंजसा ॥३६॥ यदा गर्वयुता दैत्य जंतवश्चेश्वरादयः । त्यक्त्वा स्वधर्मं मोहेन संसक्ता विषयेऽभवन् ॥३७॥
सर्वैरवध्यतां प्राप्य कुर्वंति मनसीप्सितम् । तदाऽयं देहधारी संभवते मदनाशकः ॥३८॥ असन्मयो गणेशस्य देहः
सन्मय मस्तकम् । तेनाऽयं गजवक्त्रोऽभूत्तं गच्छ शरणं परम् ॥३९॥ नारदस्य वचः श्रुत्वा तथा काव्यस्य दैत्यपः । ममा-
[खं. ७ अ. ७]
[पान १६]
सुरः खवाणीं तां विचारमकरोत् हृदि ॥४०॥ गणेशो ब्रह्मरूपोऽयं स्वानंदे वासकारकः । गच्छामि शरणं तं स्वहितं तेन
भविष्यति ॥४१॥ विघ्नराजमनादृत्य सिद्धिबुद्धिपतिं प्रभुम् । को विघ्नहीनतां प्राप्य तिष्ठेद्वै सर्वमंडले ॥४२॥ स्वयं दैत्यानुवाचाथ
वचनं हितकारकम् । ममासुरः प्रसन्नात्मा गणेशो ममतां दधौ ॥४३॥ ममासुर उवाच । दैत्येंद्राः कालमुख्या मे वचनं शृणुत
प्रियाः । काव्येन नारदेनोक्तं खवाण्या तत् करोम्यहम् ॥४४॥ तस्य तद्वचनं श्रुत्वा धर्माधर्मौ समूचतुः । न देवपक्षिणं योग्यं
शरणं जगदीश्वरम् ॥४५॥ मरणं रणमध्ये तु स्वर्गदं कीर्तिदं भवेत् । तस्माद्युध्यामहे तात विघ्नेशेन विशेषतः ॥४६॥ देहधारी
गणेशानः किं करिष्यति मां वद । तात ते मायया देवा दर्शयंति प्रमोहकम् ॥४७॥ नारदो गणराजस्य भक्तस्तस्य
वचः कथम् । दैत्येंद्रैः सह मान्यं त्वं करिष्यसि महामते ॥४८॥ नारदभावरक्षार्थं काव्यो वदति वै तथा । देवैः संरचिता
वाणी खस्था तस्या वचो वृथा ॥४९॥ मा कुरुष्व भयं तात तत्त्वयुक्तं गजाननम् । हनिष्यामः प्रतापेन तव दैत्यप्रपा-
लक ॥५०॥ एवमुक्त्वा महावीरौ रथारूढौ बभूवतुः । देवान् हंतुं प्रगर्नेण जग्मतुः क्रोधसंयुतौ ॥५१॥ मामेति वचनं
दैत्यनाथस्य त्यज्य दुर्मदौ । धर्माधर्मौ गणेशानं जग्मतुर्हननाय च ॥५२॥ ततो गणेश्वरं विप्रो नारदः प्रजगाम ह । कथया-
मास वृत्तांतं सोऽपि क्रोधयुतोऽभवत् ॥५३॥ देवान् भययुतान् वीक्ष्य जगाद गणनायकः । मा भयं कुरुत प्राज्ञा हनिष्यामि
ममासुरान् ॥५४॥ अमोघास्त्रबलैर्युक्तो ममासुरः प्रतापवान् । समागतः सोऽपि चेत्तं हनिष्यामि न संशयः ॥५५॥ एव-
मुक्त्वा गणाधीशः कमलं निजहस्तगम् । मुमोच क्रोधसंयुक्तो महास्त्रं ब्रह्मरूपकम् ॥५६॥ क्षणेन कमलं तत्र दैत्यसैन्ये
पपात ह । तस्माज्जातः सुवासश्च प्रससार महीतले ॥५७॥ गणेशानं द्विषंतस्तान् जघान वास आगतः । द्वेषहीनान्
समुत्सृज्य तदद्भुतमिवाऽभवत् ॥५८॥ वासं गृह्य महादैत्यौ धर्माधर्मौ मृतौ मृधे । प्रधानाः पंच तद्वृत्ते मृतास्तत्र बभूविरे
॥५९॥ ततो हाहारवं कृत्वा दैत्याः पातालमाविशन् । कमलं क्रोधसंयुक्तं जगाम ह ममासुरम् ॥६०॥ सुवासकं तस्य गृह्य
मूर्च्छितोऽभून् ममासुरः । प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥६१॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते ममासुरगर्वहरणं नाम सप्तमोऽध्यायः ॥