मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 778, कुल 1023 में से
संदर्भ में पढ़ेंदास्यामि त्वयोक्तं ते भविष्यति ॥५७॥ स्तोत्रं भवत्कृतं मे च कामदं काममिच्छते । भविष्यति न संदेहो भुक्तिमुक्तिप्रदं
तथा ॥५८॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मणां पतिः । ममासुरः प्रसन्नात्माऽभवच्छंबरगेहगः ॥५९॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरवरप्रदानं नाम तृतीयोऽध्यायः ॥
॥श्रीगणेशाय नमः॥ कश्यप उवाच । शंबरं प्रणिपत्यादौ कथयामास विस्तरात् । वृत्तांतं ममनामाऽसौ हर्षितं तं चकार
ह ॥१॥ मोहिनीं प्रददौ तस्मै स्वपुत्रीं शंबरासुरः । तया च संस्थितो रेमे प्रिये तत्र ममासुरः ॥२॥ ततः स्वल्पे गते काले
शंबरः शुक्रमयायौ । तं प्रणम्य महाभागं वृत्तांतं प्रजगाद ह ॥३॥ ततः शुक्रेण दैत्येंद्राः प्रेरिताः सर्व आययुः । स्वयं
शंबरसंयुक्तो जगाम ह ममासुरम् ॥४॥ शुक्रं समागतं दृष्ट्वा ममासुरः प्रतापवान् । तं प्रणम्य महाभागं कृतांजलिः
पुरः स्थितः ॥५॥ पूजयामास तं विप्रं हर्षयुक्तेन चेतसा । प्रणम्य चाऽऽज्ञया तस्याऽऽसनेऽसौ संस्थितोऽभवत् ॥६॥
ततो दैत्यगणास्तत्र समाजग्मुः प्रहर्षिताः । तान् सर्वान् मानयामास यथाविधि ममासुरः ॥७॥ ततः सर्वमतं
गृह्य काव्यो नीतिविशारदः । ब्राह्मणैस्तं चाभिषिच्य दैत्याधीशं चकार ह ॥८॥ प्रधानाः पंच तस्यापि बभूवुर्बलसंयुताः ।
प्रेतः कालः कलापश्च कालजित् धर्महा प्रिये ॥९॥ दैत्या दानवभूपाश्च राक्षसादय आदरात् । हर्षयुक्ता बभूवुस्ते ततः
स्वस्वगृहे गताः ॥१०॥ चिंतानाशं ममो भूम्यां निर्ममे नगरं परम् । सर्वशोभासमायुक्तं परिखावलयांकितम् ॥११॥
तत्र नाना जना जग्मुर्वासार्थं विषयप्रियाः । वर्णाश्रमयुताः सर्वे वासं चक्रुः प्रहर्षिताः ॥१२॥ दैत्याद्यास्तत्र संरेजुर्विशेषेण
निवासकाः । राजा ममासुरस्तान् वै पालयामास हर्षितः ॥१३॥ पुत्रौ द्वौ समशीलौ तु मोहिन्यां संबभूवतुः । ममासुरान्
महातेजो युक्तौ दैत्यविवर्धनौ ॥१४॥ धर्माधर्मौ तयोर्नाम चक्रिरे ब्राह्मणादयः । ताभ्यां ममासुरोऽत्यंतं रेजे तेजोयुतो
महान् ॥१५॥ एकदा श्वशुरेणाऽसौ समानाय्य महामुनिम् । उशनसं प्रणम्याऽऽदौ जगाद वचनं परम् ॥१६॥ ममासुर उवाच ।
तव स्वामिन् प्रसादेन समर्थोऽहं न संशयः । प्रजेष्यामि विशेषेण ब्रह्मांडं लोकसंकुलम् ॥१७॥ आज्ञापय महायोगिन्