मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 781, कुल 1023 में से
संदर्भ में पढ़ेंखं. ७ अ. ५ पान ११
क्रोधसंयुतः । सर्वसंहारकं सोऽपि महाबलपराक्रमः ॥२६॥ ममासुर उवाच । तिष्ठ तिष्ठ महादेव पश्य मे पौरुषं परम् ।
दृष्टं त्वदीयं सामर्थ्यं सर्वदेवातिगं मया ॥२७॥ एवमुक्त्वा महादेवं धनुः सज्जमथाऽकरोत् । निष्काश्य सुदृढं बाणं मुमोच
दैत्यनायकः ॥२८॥ तावत् त्रिशूलकं शंभुश्चिक्षेप नाशकारकम् । ममासुरं समासाद्य निष्फलं तद्बभूव ह ॥२९॥ बाणेन
स हतः शंभुः पपात धरणीतले । मूर्च्छया पीडितोऽत्यंतं सहसा दैत्यपालिनि ॥३०॥ ततो ममासुरः क्रुद्धो बाणेनैकेन
वक्षसि । विव्याध माधवं देवं मूर्च्छितं तं चकार ह ॥३१॥ शक्तिः सूर्यस्ततः क्रुद्धौ बाणान् चिक्षिपतुः परान् । ते सर्वे
निष्फला बाणाः पेतुः परमदारुणाः ॥३२॥ ततो ममासुरः सूर्य शक्तिं विव्याध वक्षसि । एकैकेन स बाणेन पतितौ
धरणीतले ॥३३॥ बाणवृष्टिं महोग्रां स चक्रे क्रोधसमन्वितः । तया देवेंदप्रमुख्यास्र देवाः संमर्दिता मृधे ॥३४॥ ततो देवान्
मृतान् वीक्ष्य कांश्चिद्भयसमन्वितान् । पलतो दैत्यराजः स हर्षितोऽभून् महामते ॥३५॥ देवान् शंभुमुखान् गृह्य ययौ
स्वस्थानमुत्तमम् । काव्येन जीवितान् दैत्यान् प्रधानपुत्रमुख्यकान् ॥३६॥ ततो धर्मं महादैत्यः कैलासाधिपतिं सुतम् ।
अधर्मं विष्णुलोकस्य नाथं चकार हर्षितः ॥३७॥ प्रेतं शक्तिपुरस्यापि कपालं स चकार ह । सौरलोकाधिपं वीरं धर्मघ्नं
ब्रह्मणस्तथा ॥३८॥ कालजितं महेंद्रस्य यमस्य कालकं परम् । लोकस्य चाधिपं चक्रे तथाऽन्येषां च दानवान् ॥३९॥ ततः
स्वपुरमागम्य कारागारे समाक्षिपत् । देवेन्द्रान् शिवमुख्यान् स राज्यं चक्रे महाबलः ॥४०॥ ब्रह्मांडाधिपतिर्दुष्टो बभूव
स ममासुरः । कृतकृत्यमिवात्मानं मेने दैत्येंद्रसंयुतः ॥४१॥ स्त्रीमांसमदिरायुक्तो बभूवे भोगलालसः । अविनाशं
खमात्मानं मेने देहधरोऽपि सन् ॥४२॥ ततोऽतिमदसंयुक्तो ममासुरः प्रतापवान् । देवांगना नराणां तु कन्या नागोद्भवा
बलात् ॥४३॥ समानाय्यासुरेंद्रैः स बुभुजे पापनिश्चयः । ततो बहुगते काले दैत्येंद्रान् प्रेष्य दारुणान् ॥४४॥ खलः
खंडनकं चक्रे वर्णाश्रमसुकर्मणाम् । आसुरं कर्म सर्वत्र स्थापयामास दंडतः ॥४५॥ न स्वाहा न स्वधा कुत्र भवति स्म
कदाचन । न वषट्कारभावश्च वर्णसंकरभावतः ॥४६॥ ऋषयस्ताडिताः केचित् केचिद्बंधनसंयुताः । देवस्थानानि सर्वाणि
खंडितानि च दानवैः ॥४७॥ तीर्थानि पुण्यवृक्षास्ते बभंजुः पापकारकाः । ममासुरात्मकं कर्म चक्रिरे सर्वमानवैः ॥४८॥
प्रतिमा दैत्यनाथस्य स्थापिताः सर्वमंदिरे । इत्यादिकर्मनाशश्च बभूव जगतीतले ॥४९॥ हाहाकारयुताः सर्वे अष्टा जाताः
सुलोचने । वर्णाश्रमविहीनास्ते जना दुःखसमन्विताः ॥५०॥ राज्यं चकार दैत्येशो ममासुरः सुहर्षितः । वृष्ट्यादिक-