मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 771, कुल 1023 में से
संदर्भ में पढ़ेंखं ७ अ. १ पान १
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । विकटस्य चरित्रं वै श्रुत्वा सूत महामते । हर्षितोऽहं विशेषेण ब्रह्मभूयप्रकाशकम् ॥१॥
यत्किंचिद्गणराजस्य चेष्टितं व्यासशिष्यक । तदेव ब्रह्मसायुज्यदायकं नाऽत्र संशयः ॥२॥ धन्यं भाग्यं मुनींद्राणां मदीयं
येन ते द्विज । दर्शनं साधुरूपस्य जातं योगप्रदस्य च ॥३॥ योगवृष्टिमयीं गाथां च्युतां त्वन्मुखमेघतः । पीत्वा
न यामि तृप्तिं च सुधां पीत्वा यथा नरः ॥४॥ अधुना कृपया ब्रूहि विघ्नराजस्य चेष्टितम् । ममासुरविनाशार्यं
ब्रह्मप्राप्तिकरं परम् ॥५॥ सूत उवाच । मुद्गलस्य मुखात् पुण्यां कथां श्रुत्वा प्रजापतिः । विकटस्य पुनस्तं च जगादैव स
हर्षितः ॥६॥ दक्ष उवाच । धन्यं मे जन्म कर्मादि येन तेऽभूत्समागमः । वदसे योगदां पूर्णां कथां योगींद्रवंदित ॥७॥
आंगिरसकुले साक्षाद्योगरूपधरः प्रभो । त्वं जातोऽसि न संदेहः कुलतारक एव च ॥८॥ अधुना वद माहात्म्यं विघ्नराजस्य
सर्वदम् । श्रुतं विकटमाहात्म्यं न तृप्तोऽहं तु मुद्गल ॥९॥ कीदृशं ब्रह्म तस्याऽपि किमर्थं देहधारकः । किं कर्मा कुत्र वासः
संतिष्ठते विघ्ननायकः ॥१०॥ कस्य दैत्यस्य हंताऽसौ चरित्रं वद सर्वपम् । विघ्नराजस्य सर्वं तु विचारेण महात्मनः ॥११॥
मुद्गल उवाच । दक्ष त्वं योगिवंद्यश्च भविष्यसि न संशयः । कथां श्रुत्वा गणेशस्य प्रीतिः संवर्धते यतः ॥१२॥ समासेन
प्रवक्ष्यामि विघ्नराजस्य सौख्यदम् । चरित्रं शृणु भावेन सर्वसिद्धिप्रदायकम् ॥१३॥ अत्र ते कथयिष्यामि पुरातनभवं परम् ।
इतिहासं कश्यपस्य दित्याः संवादसंयुक्तम् ॥१४॥ महासुरोऽदितेः पुत्रो हिरण्यकशिपुर्महान् । हिरण्याक्षो हतो पूर्वं
विष्णुना मायया परौ ॥१५॥ ततोऽतिशोकसंयुक्ता दितिः कश्यपमाययौ । सेवायां निरता तस्य नित्यं भक्तिपरायणा ॥१६॥
एवं बहौ गते काले काश्यपस्तोषमाययौ । तामुवाच वरं ब्रूहि ततस्तं सा जगाद ह ॥१७॥ दितिरुवाच । मम पुत्रौ हतौ तेन
विष्णुना मघवार्थतः । अत इंद्रघ्नपुत्रं मे देहि तुष्टोऽसि कश्यप ॥१८॥ तस्यास्तद्वचनं श्रुत्वा शोकयुक्तो बभूव ह । अहो
साधुचरित्राऽपि स्त्री विश्वास्या न केनचित् ॥१९॥ अधुना किं करिष्यामि धर्मपालकमुत्तमम् । साधुं गुणयुतं पुत्रमिंद्रं
रक्षामि वै कथम् ॥२०॥ अतो विघ्नेश्वरं स्मृत्वा तां जगाद प्रजापतिः । व्रतं कुरु प्रयत्नेन वर्षमात्रं महाखले ॥२१॥ तदा ते
भविता पुत्रो हंतेद्रस्य न संशयः । छिद्रं मा कुरु भावेन व्रते विघ्नयुताऽपि चेत् ॥२२॥ एवमुक्त्वा गणेशं स ध्यात्वा रेमे
तया सह । तस्यां वीर्यं समाधाय व्रतं ददौ सुपुत्रदम् ॥२३॥ प्रणम्य स्वगृहं सा तमाययौ हर्षसंयुता । व्रतं चकार यत्नेन
नियमस्था प्रजापते ॥२४॥ तत इंद्रेण वृत्तांतो ज्ञातो नारदवाक्यतः । गणेशं मनसि ध्यात्वा निःश्वासं स मुमोच ह ॥२५॥