सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 775, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 775

खं. ७ अ. ३ पान ५
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
वरदोऽभवत् । जगाद मोहसंयुक्तः पार्वतीमीश्वरेश्वरः ॥४३॥ शिव उवाच । वरं वृणु महाभागे तपसा विजितस्त्वया ।
दास्यामि नात्र संदेहस्त्वदधीनोऽहमादरात् ॥४४॥ त्वदाज्ञावशगो भूत्वा स्थास्यामि नित्यमंजसा । भार्या मे भव कल्याणि
पतिस्तेऽहं पुरातनः ॥४५॥ पार्वत्युवाच । यदि प्रसन्नभावेन वरं दास्यसि शंकर । तदा मे पितरं गत्वा भार्यार्थं याचयस्व
माम् ॥४६॥ पतिव्रतात्मकं धर्मं देहि मे विघ्नहीनकम् । तेन तुष्टा महादेव त्वयि नित्यं परायणा ॥४७॥ शिव उवाच ।
त्वयोक्तं सफलं सर्वं भविष्यति न संशयः । पितरं याचयित्वा ते त्वां वरिष्यामि निश्चितम् ॥४८॥ अहो तपो ह्यहो
धैर्यमतस्ते देहजो मलः । सर्वपूज्यो महादेवि भविष्यति न संशयः ॥४९॥ कश्यप उवाच । तस्मिन् दिने तृतीया तु भाद्री
शुक्ला बभूव ह । शिवेन संयुता देवी गणेशानं पुपूज ह ॥५०॥ ततश्चतुर्थिकायां सा होमं चकार हर्षिता । पंचम्यां
ब्राह्मणैः सार्धं पारणं जगदंबिका ॥५१॥ महोत्सवयुता देवी मूर्तिं तां गृह्य हर्षिता । जले चिक्षेप विघ्नेशं प्रार्थयामास
यत्नतः ॥५२॥ ततः शिवो जगामैव स्वस्थानं हर्षसंयुतः । गत्वा प्रणम्य पितरं पार्वती संस्थिताऽभवत् ॥५३॥
॥ ओमिति मदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विघ्नराजचरिते शिवपार्वतीसमागमो नाम द्वितीयोऽध्यायः ॥
➔★🠔
॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । गणेशव्रतपुण्येन मोहितः शंकरः सदा । तन्मना अभवद्देवो विप्रवेषधरो बभौ ॥१॥
हिमाचलं समागम्य स्मृत्वा विघ्नेश्वरं शिवः । नानाकलां प्रदर्शयैव मोहयामास तं क्षणात् ॥२॥ हिमाचलो जगादैव वरं
वृणु यमिच्छसि । दास्यामि मदधीनं चेन्नात्र कार्या विचारणा ॥३॥ द्विज उवाच । उमां देहि नगाधीश नान्यं याचे वरं परम् ।
ततः स खेदसंयुक्तस्तूष्णीमेवाऽभवद्गिरिः ॥४॥ तं चातिशोकसंयुक्तं दृष्ट्वोवाच जगन्मयी । उमा तं देहि मां तात शिवोऽयं
नात्र संशयः ॥५॥ ततः स हर्षितोऽत्यंतं ददौ तस्मै सुतां प्रिये । शिवः स्वस्थानमागम्य देवैः संमानितोऽभवत् ॥६॥
लग्नं शुभं समालोक्य पूजयित्वा गजाननम् । देवाद्विभिः समायुक्तः पर्वतेशं ययौ शिवः ॥७॥ हिमाचलः प्रसन्नात्मा
विवाहमकरोत्ततः । शिवयोर्भक्तिसंयुक्तो ब्राह्मणैर्वेदपारगैः ॥८॥ शिवां गृह्य महेशानः कैलासमगमत् स्वयम् । तया रेमे
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖