मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३१७
महर्द्विकोटीर्यत्रास्ते
मरीच्यादिमुनिव्रजः ॥ ११५॥
जनोऽष्टकोट्यवच्छिन्नः
पितृबहुजनाश्रयः ।
तपोऽर्ककोटिर्यत्रास्ते
महायोगी सनन्दनः ॥ ११६ ॥
ऋभुः सनत्कुमारश्च
सनकश्च महातपाः ।
ततः सत्याधिपस्थानं
सत्यलोकः स्वयम्भुवः ॥११७॥
कामातिशयसंपन्नः
कोटयो नव सप्त च ।
सावित्री मूर्तिमत्यास्ते
यत्र वेदाश्च सानुगाः ॥ ११८ ॥
महीतलात् भूपृष्ठादारभ्य ध्रुवप्रान्त इति
ज्योतिश्चक्रावलम्बनभूतध्रुवपर्यन्तपञ्चदशल-
क्षोच्छ्रायो भुवर्लोकः । पञ्चाशीतिलक्षोच्छ्राय-
स्वर्गिवर्याणां स्वर्वासिमुख्यानामास्पदं स्व-
३१८ मृगेन्द्रतन्त्रे । [ ११३
लोकः । महर्लोको मरीच्यादिमुनिवृन्दस्थानं
द्विकोटिः । जनलोकस्तु अष्टकोटिपरिच्छिन्नः
पितॄणां जह्नुप्रभृतीनां च मुनीनां निवासः ।
तपोलोको द्वादशकोट्युच्छ्रायः सनन्दऋभु-
सनत्कुमारसनकाद्याश्रयः। ततोऽनन्तरं सत्यैक-
बुद्धित्वात् सप्तकल्पाधिपत्यस्य ब्रह्मणः स्थानम् ।
सकलैश्वर्यसंपत्तिमान् षोडशकोट्यच्छ्रितः सत्य-
लोकः, यस्मिन् मूर्तिमती सावित्री वेदोपवे-
दाश्चासते ॥ ११८ ॥
ततश्चतस्रः षट् चेति
मधुत्रिपुरविद्विषोः ।
स्थाने ज्योतिषमतीचित्रे
कोटिरण्डकटाहकः ॥ ११९॥
शतकोटिप्रविस्तीर्ण
इति ब्रह्माण्डगोलकः ।
भूयसा तुल्य एवायं
सर्वस्रोतःसमानतः ॥ १२० ॥
तदुपरि चतस्रः कोटयो मधुविद्विषः वि-
ष्णोः कान्तिमत्स्थानम् । त्रिपुरविद्विषः शंभोः
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३१९
तादृक् विचित्रं षट्कोट्युच्छ्रायकम् । अण्डक-
टाहकश्च एककोटिः । इत्थं भूर्लोकादयो यथा
पञ्चाशद्योजनकोटयः । तथा तदूर्ध्वं पञ्चाश-
देवेति । ब्रह्माण्डपिण्डः शतकोटिविस्तारो-
च्छ्रायः । अयं च सर्वेषूर्ध्वपूर्वदक्षिणपश्चिमोत्त-
रेषु स्रोतःसु प्रायेण तुल्यमानाकृतिः ॥१२०॥
तस्य प्राचीं दिशं शक्रः
पात्यग्निः पूर्वदक्षिणाम् ।
दक्षिणां भूतसंहर्ता
रक्षसो दक्षणापराम् ॥ १२१ ॥
पश्चिमां वरुणो देवो
नभस्वान् पश्चिमोत्तराम् ।
उदीचीं सोमपक्षेशा-
वीशः प्रागुत्तरां दिशम् ॥१२२॥
ऊर्ध्वं ब्रह्मा हरिरधः
सर्वार्थावहिताः सदा ।
तस्य ब्रह्माण्डस्य प्राच्यादिदिक्पालका इ-
न्द्रादयः । उदीच्यां सोमवैश्रवणौ । ऊर्ध्वं ब्रह्मा
३२० मृगेन्द्रतन्त्रे । [ ११३
पालकः स्थितः, अधस्तु विष्णुः, एते च नित्यं
सर्वात्मना सावधानाः स्थिताः ॥
एषामपि नियन्तारो
रुद्रा दश दश स्थिताः ॥१२३॥
भूतिमन्तोऽप्यमी येषां
नोत्क्रामन्ति भयात्पदम् ।
नानारूपैर्महावीर्यै-
स्तरुणार्कसमप्रभैः ॥ १२४ ॥
वृता नानायुधधरै-
र्नामभिस्तान्निबोध मे ।
एषां लोकपालानां रुद्रा अधिष्ठातारः प्रति-
दिशं दश दश स्थिताः, यद्भीत्या महैश्वर्यैर्युक्ता
अपि एते स्वं स्वं स्थानं पालकत्वेन नोज्झन्ति ।
एते चानेकाकारैः विचित्रायुधैरतिबलैर्बालार्क-
कान्तिभिरनुचरैर्वृताः ॥
अथैषां नामान्याह
बुभ्रुवज्रशरीराज-
कपालीशप्रमर्दनाः ॥ १२५॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३२१
प्राग्विभूत्यव्ययौ शास्ता
पिनाकी त्रिदशाधिपाः ।
एते शक्रस्य नियन्तारः ॥
अथाग्नेः
भस्मक्षयान्तकहर-
ज्वलनाग्निहुताशनाः ॥ १२६ ॥
पिङ्गलः खादको बभ्रु-
र्दहनश्चाग्निदिग्गताः ।
विधातृधातृकर्त्रीश-
कालमृत्युवियोजकाः ॥ १२७॥
याम्यधर्मेशसंयोक्तृ-
हराश्च यमनायकाः ।
निर्ऋत्यधिपतीनाह
निर्ऋतिर्मारणक्रोध-
हन्तृधूम्रविलोहिताः ॥ १२८ ॥
ऊर्ध्वलिङ्गविरूपाक्ष-
दंष्ट्रिभीमाः पलादपाः ।
४१
३२२ मृगेन्द्रतन्त्रे । [ ११३
पलं मांसमत्तीति पलादः पिशिताशनो
रक्षसो निर्ऋतिः, तं पान्तीति पलादपाः ॥
अथ वरुणेश्वराः
बलातिबलपाशाङ्क-
श्वेतभूतजलान्तकाः ॥ १२९ ॥
महाबलमहाबाहु-
सुनाद्यब्दरवाः कपाः ।
अब्दरवो मेघनादः । कं जलं पान्ति इति
कपाः ॥
वाय्वधिपा उच्यन्ते ।
लघुशीघ्रमहद्वेग-
सूक्ष्मतीक्ष्णक्षयान्तकाः ॥ १३० ॥
कपर्द्यब्देशपञ्चान्त-
पञ्चचूडाश्च वायुपाः ।
निधीशो रूपवान् धन्य-
सौम्यशान्तजटाधराः ॥ १३१ ॥
कामप्रसादलक्ष्मीश-
प्रकाशाश्चेन्दुयक्षपाः ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३२३
इन्दुयक्षपा इति इन्दुयक्षयोरुत्तरदिक्पाल-
त्वेन पूर्वमुक्तयोरेते पतयः ॥
विद्येशसर्वविज्ञान-
वेदविज्ज्येष्ठवेदगाः ॥ १३२ ॥
विद्याविधातृभूतेश-
बलिप्रियसखाधिपाः ।
ईशानदिक्स्थाने इमे विद्येशादयो नियन्तारः॥
अथ तदुपरिष्टादुच्यन्ते
शंभुर्गुणाध्यक्षविभु-
त्र्यक्षचण्डामरस्तुताः ॥१३३॥
विचक्षणनभोलिप्सु-
संविवाहाश्च मूर्धनि ।
शंभ्वादयो दश रुद्राः, मूर्धनीति ब्रह्मणो-
ऽधिष्ठातृत्वेन स्थिताः । वाहशब्दः संपूर्वो वि-
पूर्वश्च रुद्रयोः संवाहविवाहयोर्वाचकः ॥
ब्रह्माण्डादधोवर्तिनो रुद्रान् कथयितुमाह
क्रोधनानिलभुग्भोगि-
ग्रसनोदुम्बरेश्वराः ॥ १३४ ॥
३२४ मृगेन्द्रतन्त्रे । [ ११३
वृषो विषधरोऽनन्तो
वज्रो दंष्ट्री च विष्णुपाः ।
ततोऽम्भःप्रमुखा भोग-
भूमयस्तासु संस्थिताः ॥१३५॥
पञ्चाष्टका नियोक्तॄणां
क्षेत्रावाप्तफलश्रियः ।
अनन्तरं ब्रह्माण्डस्योपरिष्टात् यथायथं ज-
लाद्या भोगभूमयः । तासु चाष्टकाः अष्टपरि-
माणाः पञ्च गणां रुद्राणां स्थिताः । कीदृश
इत्याह, नियोक्तॄणां क्षेत्रावाप्तफलश्रियः, क्षेत्रा-
त्तदध्यासितात् स्थानादवाप्ता या फलश्रीस्तस्या
नियोक्तॄणां संपादकानां, तत्तदध्यासितक्षेत्रफ-
लसंपत्तिस्तत्प्रसादादेव फलतीत्यर्थः ॥
अतस्तेषां नामान्याह
भारभूत्याषाढिडिण्डि-
लाकुल्यमरपुष्कराः ॥ १३६ ॥
प्रभासनैमिषौ चेति
गुह्याष्टकमिदं जले ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३२५
एतदम्भस्तत्त्वस्थं गुह्याष्टकम् ॥
श्रीशैलजल्पकेदार-
भैरवाम्रातकेश्वराः ॥ १३७ ॥
हरिश्चन्द्रमहाकाल-
मध्याः सातिपदा रुचौ ।
सातिपदा इति, सहातिपदेन एते वर्तन्ते,
अतिगुह्याष्टकमेतत् इति यावत् । रुचाविति
तेजस्तत्त्वे व्यवस्थिता इत्यर्थः ॥
महेन्द्रभीमविमल-
कुरुक्षेत्रगयाखलाः ॥ १३८ ॥
सनापदोत्तराः साट्ट-
हासाः सनाखलाः खगे ।
सनापदोत्तरा इति, सह 'ना' पदेन वर्तत
इति सनापदः उत्तरोऽन्त्यः, खलशब्देनोक्तो
रुद्रो येषां ते महेन्द्राद्याः सनाखला इत्यर्थः ।
खगे नभस्वति वायुतत्त्वे ॥
स्थाणुस्वर्णाक्षगोकर्ण-
भद्रकर्णमहालयाः ॥ १३९ ॥
३२६ मृगेन्द्रतन्त्रे । [ १।१३
वस्त्रापदाविमुक्ताङ्ग-
रुद्रकोट्यः खमण्डले ।
पवित्राष्टकमित्याहुः
खमण्डले इत्याकाशतत्त्वे एतत्पवित्राष्टक-
मिति वदन्ति ॥
गर्वे मात्रेन्द्रियोदरे ॥ १४० ॥
स्थाण्वष्टकं द्विजश्रेष्ठ
नामतः कथयामि ते ।
माकोटमण्डलेशान-
द्विरण्डच्छगलान्डकाः ॥ १४१ ॥
स्थूलस्थूलेश्वरौ शङ्कु-
कर्णकालञ्जरावपि ।
गर्व इत्यहङ्कारे तन्मात्रेन्द्रियतत्त्वान्तरे मा-
कोटादिस्थाण्वष्टकं स्थितम् ॥
अथ बुद्धितत्त्वस्थं भुवनाष्टकमाह
सूक्ष्मामरपुराण्यष्टौ
बुद्धौ पैशाचमादितः ॥१४२॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३२७
राक्षसं याक्षगान्धर्वं
माहेन्द्रं च महर्द्धिमत् ।
सौम्यं प्राजेश्वरं ब्राह्मं
दीप्तं परमया श्रिया ॥ १४३ ॥
बुद्धितत्त्वे सूक्ष्मभुवनाष्टकं, तेषु पैशाचमा-
दित इत्यादौ पैशाचं ततो राक्षसादि । ब्राह्मं
दीप्तं परमया श्रियेति, महर्द्धिमतो माहेन्द्रा-
दप्यतिशयाद् अधि(क)कान्तिः ॥ १४३ ॥
अथ गुणतत्त्वे योगिनां भुवनाष्टकम्
गौणे योगीशधामानि
त्वकृतं कृतभैरवम् ।
ब्राह्मवैष्णवकौमार-
भौमं श्रैकण्ठमन्ततः ॥ १४४ ॥
ततस्तु
वीरभद्रस्य रुचिम-
द्धाम योगिवरस्तुतम् ।
स्वपदाधोऽधिकारस्थ-
सर्वरुद्राधिकश्रियः ॥ १४५ ॥
३२८ मृगेन्द्रतन्त्रे । [ १।१३
स्वस्मात्पदादधोऽधिकरणस्थेभ्योऽप्यधिका
श्रीर्यस्य साक्षात्परमेश्वरेणानुगृहीतत्वात् तस्य
वीरभद्रस्य योगिभिरभिष्टुतं भास्वरं भुवनम् ।
अत्रैव चैते रुद्रा गुणतत्त्वमूर्ध्नि स्थिताः ॥ १४५ ॥
के त इत्याह
वामदेवभवानन्त-
भीमोमापत्यजेश्वराः ।
सर्वेशानेश्वरावेक-
वीरैकशिवसंज्ञितौ ॥ १४६ ॥
उग्रः प्रचण्डदृक् चेशो
गुणानां मूर्ध्नि संस्थिताः ।
तपसा गुरुणोपास्य
क्रोधादीन् गुरुतां गताः ॥ १४७॥
स्वाधिकारविधौ तीक्ष्णा
रुद्राः सर्वार्थदृक्रियाः ।
ऊर्ध्वस्थान् क्रोधेशादीन् महता तपसा
आराध्य गुरुतामनुग्रहकृत्त्वं प्राप्ताः । निजेऽधि-
कारविधौ तीक्ष्णाः कुशलाः सर्वार्थज्ञानक्रिया-
योगिनश्चैते ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३२९
तेभ्यो दशगुणश्रीकान्
प्रधानाधिपतीञ्छृणु ॥ १४८ ॥
क्रोधेशचण्डसंवर्त-
ज्योतिःपिङ्गलसूरगाः ।
पञ्चान्तकैकवीरौ च
शिखेद इति ते स्मृताः ॥१४९॥
वामदेवादिभ्यः प्रागुक्तेभ्यो दशगुणा श्री-
र्येषां, त इमे क्रोधेशादयः प्रधानाधिपाः ॥१४९
सर्वेन्द्रियः सर्वतनुः
सर्वान्तःकरणाश्रयः ।
पुरुषे नियतौ यन्ता
काले कलनशक्तिमान् ॥१५०॥
पुरुषतत्त्ववर्तिनि भुवने सर्वेन्द्रियत्वादिवि-
शेषणविशिष्टो रुद्रोऽधिष्ठाता । यदुक्तं प्राक्
पुंस्तत्त्वनिरूपणावसरे
‘............भौवने रुद्रसंश्रयम् ।’
इति । एवं नियतौ नियन्तृसंज्ञः काले च कल-
नशक्तिमान् स्थितः ॥ १५० ॥
४२
३३० मृगेन्द्रतन्त्रे । [ १।१३
भुवनेशमहादेव-
वामदेवभवोद्भवाः ।
एकपिङ्गेक्षणेशाना-
ङ्गुष्ठमात्राश्च भास्वराः ॥ १५१ ॥
परमेशोपमा राग-
विद्यागर्भे कलापदे ।
महापुरचतुःषष्टि-
मण्डले मण्डलाधिपाः ॥ १५२॥
रागविद्ये गर्भे प्रागुक्तरीत्या यस्य तस्मिन्
कलाभुवने अष्टाष्टकक्रमेण श्रीमन्मतङ्गाद्युक्तेन
महापुरचतुःषष्टिमण्डलं यत् स्थितं तत्रामी भु-
वनेशादयो भुवनाधिपतयः परमेश्वरोपमशक्ति-
मत्त्वात् सुकान्तयः स्थिताः । कथं पुनश्चतुः-
षष्टिमण्डलं स्थितमितीह नोक्तं श्रीमन्मतङ्गा-
दिनोक्तं ज्ञेयम् ॥ १५२ ॥
अथ तेषामप्यधिपतीनाह
अनन्तस्त्रिकलो गोप्ता
क्षेमीशो ब्रह्मणः पतिः ।
योग-सिद्धि, नाड़ी-चक्र, शिव-सामरस्य एवं मृगेन्द्र आगम उपसंहार
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३३१
ध्रुवतेजोधिपौ रुद्रौ
गहनेशश्च विश्वराट् ॥१५३॥
मायाधिकारिणो रुद्रा
मण्डलाधिपतीश्वराः ।
संसारचक्रकारूढ-
भूतग्रामविवर्तकाः ॥ १५४ ॥
एतावत्येव घोरेयं
सर्वभूतभवावनिः ।
सीदन्त्यज्ञानिनो यस्यां
पङ्के गाव इवाचलाः ॥१५५॥
अमी मायाधिकारिणोऽनन्तेशादयोऽष्टौ रुद्राः
संसार एवाजस्रभ्रमाच्चक्रं तदारूढस्य भूतग्रा-
मस्य विवर्तकाः संसरणकराः । इयत्येव चैषा
घोरा अशिवा सर्वभूतानां भवभूमिर्यस्याम-
विद्वांसः कर्दमनिमग्नाशक्तवलीवर्दवदवसादं
यान्ति ॥ १५५ ॥
अथ विद्याभुवनस्था विद्याराज्ञ्य उच्यन्ते
भृगुणी ब्रह्मवेताली
स्थाणुमत्यम्बिका परा ।
३३२ मृगेन्द्रतन्त्रे । [ १।१३
रूपिणी नन्दिनी ज्वाला
सप्त सप्तार्बुदेश्वराः ॥ १५६ ॥
विद्याराज्ञ्यस्तु कथिता
विद्यायां रुद्रसंस्तुताः ।
एताः सप्त विद्याराज्ञ्योऽनन्तरोक्तमण्डला-
धिपतिरुद्राभिष्टुताः सप्तानामर्बुदानां मन्त्रको-
टीनामीश्वर्यः ॥
तासामुपरि दीप्तश्री-
र्देवो विद्याधिपः स्थितः ॥ १५७॥
मन्त्रेशेशचिदाविष्ट-
रुद्रव्यूहाष्टकानुगः ।
उच्छुष्माः शम्बराश्चण्डा
महावीर्याः पदद्रुहः ॥ १५८ ॥
रुद्रा गणाः सदिक्पालाः
शास्त्राणि पतयस्ततः ।
ते चानन्तप्रभृतयो
गदिता एव नामतः ॥ १५९ ॥
स्वस्वरूपाश्च ते विप्र
पूर्वं प्रश्नानुषङ्गतः ।
ईश्वरोऽधःस्थविद्यानां: धःhas visarga. Look at line 12:उच्छुष्मादयश्च: च्छु, ष्म. Look at line 13: वृषभप्रभृतयो: वृ, ष, भ. Look at वृinवृषभ! The ृmatra inवृषभ: it is a simple hook curling to the left! Look at प्रभृतयो: भृhas aृhook curling to the left! Now look atकीदृग्in line 4: Theदृinकीदृग्: it is दwith aृhook curling to the left! Wait! Aृhook curls to the LEFT! Now look at the letter in line 6: Does its bottom curl to the left or to the right? It curls to the RIGHT! And what letter has a stroke going to the right at the bottom?ह! AND in line 6, after that ह, there is a त्? Wait! Look at line 6: Between हandक्रिया: Wait! Is that a त्? Look at स्तinआविष्टास्तदुत्तेजित: तhas a left curve. Look atहत्क्रिया: Wait! Could it be हत्क्रिया`?
Wait! What if
३३४ मृगेन्द्रतन्त्रे । [ १।१३
नादे ध्वनिपतिः शक्तौ
सर्वशक्तिमतां वरः ॥ १६१ ॥
योनिर्विश्वस्य वागीशाः
पतयः परतः शिवः ।
सदाशिवभुवने पवित्राणि सद्योजातादीनि
ब्रह्माणि, अङ्गानि च सर्वात्मसुशिवज्वालिन्या-
दीनि, संकलनिष्कलाख्यादयश्चाष्टौ रुद्राः परि-
च्छदः परिवारो यस्य स एवंविधः सदाशिव-
नाथः स्थितः । बैन्दवे तु स्थाने निवृत्तिप्रति-
ष्ठाविद्याशान्त्याख्यकलाधिपतिचतुष्कम् । नाद्-
भुवने ध्वनिपतिर्नादेश्वरः स्थितः । यथोक्तं
नादाधिकारे श्रीमत्स्वतन्त्रे
‘सुषुम्नेशः स्थितस्तत्र चन्द्रकोट्यर्बुदप्रभः ।
दशबाहुस्त्रिनेत्रश्च श्वेतपद्मासने स्थितः ॥
शशाङ्कशेखरः श्रीमान् पञ्चवक्रो महातनुः ।’
इति । शक्तावपि शाक्तसंश्रये सकलशक्ति-
मतां वरिष्ठः परमेश्वरः स्थितः । अत्रैव च यो-
निर्विश्वस्येति नादबिन्दादिक्रमेण सकलजग-
दुत्पत्तिहेतुः कुण्डलिन्याख्या शक्तिः स्थिता ।
यथोक्तं श्रीमत्स्वतन्त्रे
!
Wait, why does 'न्न' look weird?
In KSTS, printed at the "Tatva-Vivechaka Press, Bombay" or "Nirnaya Sagar Press":
In this typeface, the double 'न' (न्न) when followed by 'ना'... wait, is it 'न्न'?
Wait, in "श्रीमन्नारायण", it's 'न्' + 'न' + 'आ' = 'न्ना'!
Wait, does it have 'न्ना'?
Look: after 'म', there is:
Wait! Look at the glyph:
Is it 'न्न'?
Wait! Look at 'न्न' in 'इत्यस्मिन्नेव' (L4):
In L4: इ - त्य - स्मि - न्ने - व
Here 'न्' + 'ने' is written with half-na and full-na with e-matra.
In line 1, look at the glyph between 'म' and 'रा':
Wait! Is that glyph 'न्ना'?
Wait, if that glyph is 'न्ना', then what is the glyph after it?!
Let's read ALL glyphs in line 1:
1: श्री (śrī)
2: म (ma)
3: [glyph]
4: [glyph]
5: रा (rā)
6: य (ya)
7: ण (ṇa)
8: क (ka)
9: ण्ठ (ṇṭha)
10: वि (vi)
३३६ मृगेन्द्रतन्त्रे । [ १।१३ .
सिद्धान्तः
ईशानतीय शान्तान्तं
तत्त्वं सादाशिवं स्मृतम् ॥ १६३॥
भुवनान्यपि नादादि-
कला नान्यः पतिः शिवात् ।
अनन्तेशादिविद्येश्वरोपलक्षितमीश्वरतत्त्व-
मतिक्रम्य निष्कलतत्त्वान्तं सदाशिवतत्त्वं ज्ञे-
यम् । अत्र च नादबिन्दादिकला एव भुवनत्वेन
बोद्धव्याः, शिवभट्टारक एव चात्र सर्वतत्त्वा-
धिपतिर्नान्यः कश्चित्, ततश्च तदूर्ध्वं पतयः
कथमित्यस्य चोद्यस्यानवकाशः ॥
यद्येवं
'नादे ध्वनिपतिः शक्तौ सर्वशक्तिमतां वरः ।'
इति भिन्नत्वं पतीनां यदुक्तं तत्कथमित्याह
किंतु यः पतिभेदोऽस्मिन्
स शास्त्रे शक्तिभेदवत् ॥ १६४ ॥
कृत्यभेदोपचारेण
तद्भेदस्थानभेदजः ।