मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
DevanagariSanskritpublished448 पृष्ठ
पृष्ठ 355, कुल 448 में से
संदर्भ में पढ़ेंपृष्ठ 355
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३२५
एतदम्भस्तत्त्वस्थं गुह्याष्टकम् ॥
श्रीशैलजल्पकेदार-
भैरवाम्रातकेश्वराः ॥ १३७ ॥
हरिश्चन्द्रमहाकाल-
मध्याः सातिपदा रुचौ ।
सातिपदा इति, सहातिपदेन एते वर्तन्ते,
अतिगुह्याष्टकमेतत् इति यावत् । रुचाविति
तेजस्तत्त्वे व्यवस्थिता इत्यर्थः ॥
महेन्द्रभीमविमल-
कुरुक्षेत्रगयाखलाः ॥ १३८ ॥
सनापदोत्तराः साट्ट-
हासाः सनाखलाः खगे ।
सनापदोत्तरा इति, सह 'ना' पदेन वर्तत
इति सनापदः उत्तरोऽन्त्यः, खलशब्देनोक्तो
रुद्रो येषां ते महेन्द्राद्याः सनाखला इत्यर्थः ।
खगे नभस्वति वायुतत्त्वे ॥
स्थाणुस्वर्णाक्षगोकर्ण-
भद्रकर्णमहालयाः ॥ १३९ ॥