सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

विद्यापादे
शुद्धयः ।
─── • ───
पृ० पं० अशुद्धिः शुद्धिः
६ ६ गति यति
१३ १० यैवामिहितो यैव विहितो
१५ १५ च श्रद्दधान चाश्रद्दधान
१९ २ रूपत्वे विरु रूपत्वे [अवस्तुत्वात् न कि
ञ्चन तत्त्वं तस्याः । उभय-
रूपत्वे] विरु
३१ १८ अर्थक्रियामिति अर्थक्रियार्थमिति
३३ १२ चार्धजरतीय न्चार्धजरतीय
३७ ४ क्रोडीकृतो हि पाशेन क्रोडीकृतोऽहिपाशेन
४१ ६ आह किं पप्रच्छेत्याह
४३ १६ त्वागमापगमात् आवरणापगमात्
४६ ७ तेभ्य आगमम्य तेभ्योऽवगम्य
४७ ५ कुलं क्रमं कुलं संक्रमं
५९ ४-५ भवति आत्मनामिति प्रतिप भवतीति प्रतिपाद
६० १ तेन भुक्ति ते भुक्ति
६२ ७ पुंस्प्रतिबद्धा पुंसतिबन्धा
६४ १४ सत्त्वात्मनि शान्त उपाधौ सत्त्वात्मनि उपाधौ
” १५ ले तु भगवानिव ले तु रागवानिव
७३ ३ कारणादिसंब करणादिसंब
७४ ११ गुल्मादि गुल्मलतादि
७७ १८ घटः पटात्मना न भवति घटो घटात्मना भवति
७९ ६ नुवृत्तिर्न स्यात् नुवृत्तिः स्यात्
८० १६ अथ चेत्तदसद्भावे अथ चेत्सदसद्भावः
. सद्युक्ततरो यतः । सदायुक्ततरो मतः ।
८२ ९ विधधर्मस्य विधमस्य
८३ ९ षण्णा षण्णां
९१ ७ यस्यानुभव योऽनुभव
९६ १७ किंचिदेव कंचिदेव
४ सू०

२
पृ० पं० अशुद्धिः शुद्धिः
१०४ ६ यया विचि यथा विचि
११६ ९ सोऽस्य घोरः सोऽस्या घोरः
,, १२ शिवो अघोरः शिवो
१२१ ३ नात्मना न शक्त्यात्मना
१३८ १८ ईषदर्थं ईषदर्थ
१३९ ४ निवृत्ते मनाक् निवृत्तेऽर्धन्निवृत्ते मनाग्
१५१ ३ च न प्रयोजनं च प्रयोजनं
१५५ ११ यद्यचेषि यद्यवैषि
१७८ ९ एव ते एव सः
१८० १२ श्रवत्वं श्रवस्त्वं
१८१ १६ ईशविद्या ईशाविद्या
१८२ १६ मातृत्वेन धातृत्वेन
१८३ ६ यद्भाध्यातम् यद्भास्म
१९३ ९ कारणेन कृसे कारणेन कृत्स्नेन
१९५ ५ तस्य क्रमिकां तस्य अक्रमिकां
२२० ७ वैरागयवि अवैराग्यवि
२२३ विनयप्रा वैनयप्रा
२२५ ११ प्रविभागशः धर्मशः या विभागशः या
२२७ ८ त्त्यादिप्रका क्त्यादिप्रका
२५४ ११ तेजोद्रव्यं पृथ्वि तेजो द्रव्यमब्द्रव्यं पृथ्वि
२७८ ४ नरकमित्याख्या नरक इत्याख्या
२८१ १४ द्वादशकललक्ष द्वादशलक्ष
२९० ३ मेखला मेखला तस्यामित्यर्थः ।
अन्यत् स्पष्टमित्यर्थः ॥
२९० ३ 'तस्यामष्टसु शृङ्गेषु पुर्योऽष्टौ समवस्थिताः।'
इति टीकामिश्रितं श्लोकार्थं मूलतया परिज्ञेयम् ।
२९० १८ निषेविता इति मूलश्लोकानन्तरं 'गोपुरं द्वारशाला,
वह्नितुल्यैस्तत्सदृशप्रभावद्भिर्भूतैः सेविता' इति टीका अद्धा ।
२९१ ५ समूहः समूहा
२९४ १८ प्रवृत्तिनिवृत्तीति प्रवृत्तिर्निवर्तत इति
२९५ ५ महायोगेश्वरैः महायोगीश्वरं

३
पृ० पं० अशुद्धिः शुद्धिः
२९५ ११ प्रणयना प्रणिधानानि
२९६ २ शादिगणेश्वराः शादिगणावराः
२९९ १२ ६९,७० तमयोः श्लोकयोः
'निषधहेमकूटहिमाद्रिभ्यो दक्षिणभागस्थानि हरि-
किंपुरुषभारताख्यानि वर्षाणि । एवं नीलश्वेतशृङ्गवद्भ्य
उत्तरे रम्यकहिरण्यवत्कुरुवर्षाणि' इति टीका पतिता
३१३ १ तन्मेदच्छन्न तन्मेदश्छन्न
३१६ ६ गर्भादेति गर्मादेति
३१७ ९ सत्याधिप सत्यधियः
३१८ ६ सप्तकल्पा प्राप्तकल्पा
" ७ कोट्यच्छ्रि स्रोव्युच्छ्रि
" १७ स्रोतः समा स्रोतःसु मा
३१९ १३ सोमपक्षेशा सोमयक्षेशा
३२५ १६ वायुतत्त्वे ॥ वायुतत्त्वे गुह्याद्गुह्याष्ट-
कमेतत्' ॥
३३० १२ भुवनाधिपतयः मण्डलाधिपतयः
३३३ १३ निश्वासकारिकादीनि निश्वासकामिकादीनि
३३४ ६ सर्वात्मसुशिवज्वा सर्वात्मशिरोज्वा
३५० ८ सहस्रगणनया सहस्रादिगणनया
३५६ ८ सूच्यमेद्यै सूचिमेद्यै
" १२ प्येषां वक्तुं प्येषां कर्तुं
३५७ ५ प्रागुक्तनयेन प्रागुक्तमानेन
३६० १० निधिबिन्दु निधिर्बिन्दु.

योगपादे
शुद्धयः।
पृ० पं० अशुद्धिः शुद्धिः
२ ५ पुत्रादिना पुत्रकादिना
,, १६ पुत्रस्य पुत्रकस्य
३ ८ पुत्रसमयि पुत्रकसमयि
१७ ३ प्रकर्षणे प्रकर्षेण
३१ १५ मने चिते मने जिते
,, १६ कण्ठकास कण्टकास
४० ७ देष्ट्रं भूमिकां विरचयति । देष्टुं भूमिकां विरचयति

अथ
श्रीमृगेन्द्रतन्त्रे ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते ।
विद्यापादे ।
( प्रथमः पटलः )
चन्द्रार्धचूडचरणाब्जयुगं प्रणम्य
वागीश्वरीं गणपतिं क्रमशो गुरूँश्च ।
लेशाद्यथामति यथागमयुक्ति गूढं
श्रीमन्मृगेन्द्रपरमार्थमहं व्यनज्मि ॥ १ ॥
केचित्स्वबोधविभवप्रथनाय ताव-
दूर्जन्त्यहो बत न यत्प्रकृतोपयोगि ।
अन्ये पुनः पटुधियो न विवेचयन्ति
स्पष्टार्थमेतदिति तत्तदुपेक्षमाणाः ॥ २ ॥
संक्षेपतः प्रकृतवस्तु परिस्फुटं ये
व्याचक्षते पदपदार्थसमन्वयेन ।
१ चन्द्रस्य अर्धं चन्द्रार्धं, चन्द्रार्धं चूडायां यस्य स चन्द्रार्धचूडः, तस्य
चरणाब्जयुगम् ।

२ मृगेन्द्रतन्त्रे । [ १।१
प्रायः कुशाग्रमतिभिस्त इहाद्रियन्ते
व्याख्याकृतो विफलवि१स्तरभीरुभिश्च ॥ ३ ॥
साक्षाच्छ्रीकण्ठनाथादिव सुकृतिजना-
नुग्रहायावतीर्णा-
च्छ्रुत्वा श्रीरामकण्ठाच्छिवमतकमलो-
न्मीलनप्रौढभास्वान् ।
श्रीविद्याकण्ठभट्टस्तदिदमुपदिशं२-
न्नादिदेशैकदा मां
स्पष्टार्थमत्र लघ्वीं विरचय विवृतिं
वत्स सर्वोपयोग्याम् ॥ ४ ॥
उपर्युपर्य्येव कृतानि कैश्चि-
न्मतान्तराणां हि निबन्धनानि ।
३नोद्भिन्नमुद्रं त्विदमद्ययावत्
तस्माद्गुरुर्मामिदमन्वशात्सः ॥ ५ ॥
तेनाहमस्यां विवृतौ प्रवृत्तो
नोल्लङ्घनीया हि गुरोरनुज्ञा ।
यदृच्छया कोऽतिगभीरशब्दं
[L1

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३ :
दिनकृत इव १दोषापह्नवैकप्रवृत्ता-
स्तदपि विबुधमुख्याः २स्पष्टयन्तः क्षमन्ताम् ॥७॥
अतः परं प्रवर्तन्तां वृत्तयोऽप्युत्तरोत्तराः ।
प्राग्ज्वालितात्प्रदीपाद्विशिखरा दीपसन्ततिः ॥ ८॥
‘अथानादिमलापेतः’ इत्यादि तत्तन्त्रम् । य-
त्पुनः ‘परमेशं नमस्कृत्य’ इत्याद्युपोद्घातप्रक-
रणं, तत् संबन्धाभिधेयप्रयोजनतन्त्रावतारक्रम-
निदर्शनार्थम् । पुरा खलु तत्रभगवान् भरद्वाज-
शिष्यः समधिगतसकलवेदशास्त्रार्थसतत्त्वो मु-
निर्हारीतनामा शिवशक्त्युन्मुखीकृतचेतोभिः
समासादितदीक्षैर्ज्ञानक्रियाचर्यायोगजिज्ञासु-
भिर्नैमिषारण्यवासिभिस्तपोधनैः कृतप्रणामा-
ञ्जलिभिरूर्ध्वस्रोतःप्रसृतं श्रीमत्कामिकभेदं
मृगेन्द्रोत्तरसंज्ञकं पृष्टः । स तान् शिष्यगुणो-
पपन्नान्दृष्ट्वा परमेश्वरादिप्रणामपूर्वकमिदमा-
हेति हारीतशिष्यस्तत्प्रशिष्यो वा स्वगुरूक्तम-
नुकुर्वन्स्वशिष्यानिदमवदत्
१ दोषाणामपह्नवः दोषापह्नवः, एकं मुख्यं, प्रवृत्ताः एकप्रवृत्ताः, दोषाप-
ह्नवे एकप्रवृत्ताः दोषापह्नवैकप्रवृत्ताः । २ स्पष्टीकुर्वन्तः ।

४ मृगेन्द्रतन्त्रे । [ १।१
परमेशं नमस्कृत्य
भरद्वाजमृषिं ततः ।
हरादिन्द्रक्रमायातं
ज्ञानं शृणुत सुव्रताः ॥ १ ॥
हे सुव्रताः परमेश्वरभक्तिप्रकर्षपरिपोषित-
शोभातिशयत्वात् सुष्ठु शोभनं व्रतं शास्त्री-
यनियमानुष्ठानं येषां, त एव श्रोतारः संबो-
धिताः । यद्वक्ष्यत्युपसंहारे
‘भवत्सु शिवशीतांशुज्योत्स्नापाण्डुष्विदं मया ।
तदिच्छया मयैवोक्तं...................॥’
इति । हरादिन्द्रक्रमायातं ज्ञानं शृणुत आक-
र्णयतेति संबन्धः ।
‘हरति पशुभ्यः पाशान्पुंसोऽप्यूर्ध्वं पदं ततस्तु हरः ।’
इति यद्यपि यौगिकीयं संज्ञा अनन्तेशादि-
ष्वपि सामान्या, तथापि इन्द्रशब्दसंनिधेरिहो-
मापतावेव हरशब्दो ज्ञेयः । यथाहुः
‘अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ।
प्रोक्ताः सामान्यशब्दानां विशेषस्थितिहेतवः ॥’
इति । कुत एतदिति चेत् यस्मादैन्द्रे अस्मिन्

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते। ५
कामिकभेदे भगवत उमापतेर्वक्तृत्वेन इन्द्रस्य
च श्रोतृत्वेनैव संबन्धः प्रतीतः। तथाहि पुर-
स्तादिहैव मुनीनामिन्द्रो वक्ष्यति
'शिवोदीर्णमिदं ज्ञानं मंत्रमन्त्रेश्वरेश्वरैः ।
कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् ॥
तेभ्योऽवगत्य दृग्ज्योतिर्ज्वालालीढस्मरद्रुमः।
ददावुमापतिर्मह्यं....................॥' (१।२७)
इति। तस्माच्छरात् श्रीकण्ठनाथात् इन्द्रादिक्र-
मेण आयातमिति अवतीर्णम्। किं तत्। ज्ञायन्ते
अनेन विद्याचर्याक्रियायोगा इति ज्ञानं शास्त्रम्।
किं कृत्वा शृणुत। परमेश्वरं नमस्कृत्य सृष्टि-
स्थितिसंक्षोभणादिभिश्चिदचिल्लक्षणं विश्वमीष्टे
इतीशः, ईदृक्त्वं चानन्तेशादीनामप्यस्तीति
परमपदेन विशेषणम्। परमश्चासावन्येषां तद-
नुग्रहतः शिवत्वाभिव्यक्तेः ईशश्च स्वातन्त्र्येण
स्थित्यादिकरणात् परमेशः, तं नमस्कृत्य काय-
वाङ्मनोभिस्तस्मिन्प्रह्वीभूय । तत इत्यनन्तरं,
तन्त्रावतारकं भरद्वाजं ²ऋषिमिति ऋ गताविति
१. विद्यातत्त्वाधिकारिणः सप्त कोटयो मन्त्राः, तदात्मका देवा मन्त्रेश्वराः
अनन्तादयः ईश्वरतत्त्वाधिकारिणः, ईश्वरः सदाशिवः सदाशिवतत्त्वाधिकारी।
२ ऋच्छति जानाति इति ऋषिः ।

धात्वर्थतः सर्वेषां च गत्यर्थानां ज्ञानार्थत्वाद-
वगतपरमार्थतया ऋषिः, तं नमस्कृत्य शृणुतेति
श्रोतॄणां नमस्कारोपदेशः । अनमस्कृतपरमे-
श्वराणां अप्रणतगुरूणां च निर्विघ्नसंहिताधि-
गमनासंभवात् । यश्च श्रोतृजनमेवं शिक्ष-
यति, सोऽर्थात्कृततथाविधविधिः प्रवृत्त इति
गम्यते । तेन यथा परमेश्वरं गुरुं च नुत्वा-
ऽहमुपदेष्टुं प्रवृत्तस्तथा यूयमपि प्रवर्तध्वमिति
व्यवस्थितम् । यथाचैतदिन्द्रस्योमापतिना
उपदिष्टं, तद्ग्रन्थपरिसमाप्तौ यद्यपि ग्रन्थे
एवास्ति, तथापि व्याख्यानोपक्रमे संबन्धादे-
रवश्याभिधेयत्वात् किंचिदुच्यते । कदाचिदति-
रुचिररत्नप्रकरविनिचितकनकमयकमनीयमही-
तलमनोहरसप्तमजलधितटविहरणहेवाकिनं
नीलोपलत्विषं चतुर्भुजं द्विकन्धराधरं मुखद्व-
येन वेदाध्ययनसुरापानसंकरकारिणं असुरनि-
वहपरिवृतं दुर्मदं महासुरं त्रिदशपतिरपश्यत् ।
अथ तथाविधदुराचारदर्शनजनितकोपाकुलि-
तमुनिगणसहितः शतक्रतुरक्षममाणो लब्ध-
१ हेवाकिनं चतुरम् ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ७
वरत्वात् प्रसभमस्त्रैरवध्यतामस्य बुद्ध्वा, फेने-
नान्तर्निहितवज्रेण असुरस्य शिरोद्वयं चि-
च्छेद । तद्व्यापादनतश्च ब्रह्महत्याजनितमघमा-
शङ्कमानस्तत्प्रशान्तये भगवन्तमच्युतं नाम्नां
सहस्रेण ऋग्यजुःसामभिश्चास्तौषीत् । प्रसन्नेन
च हरिणा नवोदितभास्वद्भास्वरं सर्वभूता-
भिभावुकं नारसिंहं कवचं प्रयच्छता प्रोक्तम् ।
यथैतत्संनद्धदेहस्त्वमुत्तरकुरुषु भगवन्तं पि-
नाकिनमाराधय, वर्षसहस्रान्ते च तं दृष्ट्वाभि-
मतमासादयिष्यसि इत्युक्त्वा अन्तर्हिते मुरारौ
सर्वं तदिन्द्रेण कृतम् । अथ प्रत्यक्षीभूते
भगवति पिनाकिनि निखिलदुःखान्तश्चास्य
संजातः। श्रीमत्कामिकाख्यं चास्मै परमेश्वर उप-
दिदेश । यतश्चेन्द्रस्य नृसिंहरूपिणः समुपदि-
ष्टमिदमुमापतिना, ततो मृगेन्द्रस्य श्रोतृत्वान्-
न्मृगेन्द्रसंज्ञया प्रथितम् । संबन्धस्त्वत्र षट्प्र-
कारः परादिः । तथाहि—सर्गादौ परमेश्वरः
ऊर्ध्वप्राग्दक्षिणोत्तरपश्चिमस्रोतःपञ्चकभेदभिन्नं
ज्ञानं स्वेच्छानुगृहीतविद्येश्वराष्टकप्रबोधनानन्तरं
१ प्रलये ये मुक्ताः स्थिताः अनन्तादयः, तेषां बोधनानन्तरम् ।

तदभिव्यक्तं मन्त्रेश्वरादिभ्यो वक्ष्यमाणवदादि-
देश । तथा चोक्तं श्रीमत्किरणे
'सृष्ट्यनन्तरमेवेशः शिवान्दृष्ट्वा दशात्मजान् ।
ज्ञानमेकं विभज्याशु तेषां तत्संख्ययावदत् ॥
कामिकं प्रणवाख्यस्य शिवार्वयस्य तु योगजम् ।'
इत्यादि । अत्र चात्मजानिति आत्मनैव
निरधिकरणेनानुग्रहेणानुगृहीतानित्याशयः । ते-
भ्य उमापतिः प्राप, तस्माच्च शक्रः, ततोऽपि
भरद्वाजः, तत्सकाशात्तु हारीतः । स पुनः स्व-
शिष्येभ्यः प्राहोति पुरस्तात्सर्वं स्पष्टीकरिष्यामः।
अभिधेयाश्चेह ज्ञानक्रियायोगचर्याः । प्रयोजनं
त्वत्र तत्त्वज्ञप्तिः । तत्प्रयोजनमपि भुक्तिमुक्ती ।
परमेश्वरसद्भावप्रसाधकप्रमाणोपन्यासस्तद्बाध-
कनिराकरणं च यद्यपि तत्प्रणीतागमप्रामा-
ण्यसाधनाय प्रथममेवोपयुज्यते, तथापि शास्त्र-
कारेणैव अग्रे तद्विवेचितमतस्तत्रैव वक्ष्यामः ।
केवलमेतावदेवेह प्रतिजानीमहे । यदुक्तं
'आयुर्वेदाच्च गणितान्मन्त्रवादाच्च स्वरात् ।
रसोपनिषदाटोपादाप्तः स परिगृह्यते ॥'

१ अमुकौषधेनामुकरोगो नश्यति, -इत्यायुर्वेदेनेश्वरप्रणीतेन । गणितेन
सूर्यादिग्रहणज्ञानम् । मन्त्रवादात् मन्त्राभिजप्तपानीयादिताडनादिना भूतादि-
नाशः । स्वरात् गान्धर्वविद्यया मेघदीपाद्युत्पत्तिः । रसोपनिषदाटोपात् धातु-
वादात् सुवर्णाद्युत्पत्तिः-इत्यायुर्वेदादिना ईश्वरः सिद्धः ।

[Header] श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ९

इति, तच्चाप्तत्वं सा¹ञ्जनत्वादसर्वार्थदृशां दर्शना-
न्तरप्रणेतॄणां स्वस्वविषयमेव, नित्यनिर्मलनिर-
तिशयसर्वार्थज्ञानक्रियाशक्तेस्तु सर्वदा सर्वानु-
ग्रहप्रवृत्तस्य परमेश्वरत्वादेव सर्वाधिष्ठातुः सर्व-
विषयम् । एवं विविधविशेषणविशिष्टस्य वक्तु-
र्विप्रलम्भकत्वासंभवान्नाप्रामाण्यम् । एतच्च
यथावसरं वक्ष्यामः । तदेवमीदृग्रूपो भगवान्
आगमस्य कर्ता । आगमस्तु तं ज्ञापयति ।
अतश्च द्वयोरपि वि²सदृशक्रियत्वान्नात्रेतेरेतरा-
श्रयदोषः स्यात् । यथा कश्चिदेवं वक्ति देव-
दत्तोऽहमायात इति । तद्वाक्यश्रवणाच्च तद-
न्ये मन्यन्ते हन्त देवदत्तोऽयमायात इति ।
न चात्र देवदत्तस्य तद्वाक्यस्य चेतरेतराश्र-
यत्वं युक्तम् । ³तदुक्तेषु च दृष्टार्थेषु विष⁴भूतर-
सवादादिषु तदा⁵गमस्य फलवत्त्वमुपलभ्या-
दृष्टार्थस्यापि तच्छासनस्यावितथत्वमनुमीयते
इत्यलमनेन, प्रकृतमनुसरामः ॥ १ ॥


१ अविद्यावृत्तत्वात् । २ विजातीयक्रियत्वात् । ३ ईश्वरोक्तेषु । ४ गरु-
डादिमन्त्रा विषभूतादिनाशकाः । ५ ईश्वरागमस्य ।
२

१० मृगेन्द्रतन्त्रे । [ १।१
तदेवं हारीतमुनिः स्वशिष्याणां ज्ञानोप-
देशं प्रतिज्ञाय इन्द्रक्रमायातत्वं दर्शयितुमाह
नारायणाश्रमे पुण्ये
भरद्वाजादयो द्विजाः ।
तेपुः शिवं प्रतिष्ठाप्य
तदेकाहितमानसाः ॥ २ ॥
बदर्याश्रमनाम्नि विष्णोराश्रमे तदाश्रम-
त्वादेव पावने भरद्वाजप्रभृतयो मुनयस्तेपु-
रिति संबन्धः । भरद्वाजादीनामृषीणामद्वि-
जत्वप्रसिद्ध्यसंभवात् द्विजा इति विशेषणं वा-
गीश्वरीगर्भसंयोजनसंजननादिना कृतदीक्षा-
त्वेनोत्कर्षवत्त्वं न पुनरुपनीतत्वमात्रं स्मार्तं-
वद्विजशब्देनेष्टमदीक्षितानां तन्त्रादिश्रवणान-
धिकारात् प्रत्युत प्रत्यवायश्रुतेः । शिवं
प्रतिष्ठाप्येति लोहबाणलिङ्गादावाधारे सामा-
न्यमन्त्रादिना परमेश्वरप्रतिष्ठापनं परिकल्प्ये-
त्याशयः, अन्यथा यथावद्विदिततत्तद्विधानानां
पुरस्तात्प्रतिष्ठादिविषयस्य प्रश्नस्यानुपपत्तेः । त-
१ प्रथमं तु सामान्यमन्त्रविधिना शिवस्थापनं कृतं, तदुत्तरं विशेषप्रति-
ष्ठाजिज्ञासया विशेषप्रश्नानपि करिष्यन्ति ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ११
स्मिन्नेवैकस्मिन्नाहितमेकाग्रीकृतं मानसं यैस्ते
तथाविधाः सन्तः तेपुः शिवाराधनलक्षणं तप-
श्चकुरित्यर्थः ॥ २ ॥
अथ तान्भावितान्मत्वा
कदाचित्त्रिदशाधिपः ।
तदाश्रमपदं भेजे
स्वयं तापसवेषभृत् ॥ ३ ॥
अनन्तरं च तान् भावितान् तत्रश्रद्धालून्
ज्ञात्वा कस्मिंश्चित्काले मुनिरूपधारी शक्रः त-
दीयमाश्रमं सिषेवे ॥ ३ ॥
ततश्च
स तैः संपूजितः पृष्ट्वा
तांश्च सर्वाननामयम् ।
प्रोवाच चोदनाधर्मः
किमर्थं नानुवर्त्यते ॥ ४ ॥
स इन्द्रस्तैर्भरद्वाजादिभिराश्रमसमुचिते-
नातिथिसत्कारेणाभ्यर्चितस्तान् भरद्वाजादीन्
प्रत्येकं कुशलं पृष्ट्वाब्रवीत् । किं तदित्यत आह
चोदनाधर्मः किमर्थं नानुवर्त्यत इति । चोद्-

१२ मृगेन्द्रतन्त्रे । [ १।१
नेति क्रियायाः प्रवर्तकं १वचनमाहुः, तदा-
म्नातो धर्मः किमिति नानुष्ठीयते, चोद२नैव हि
धर्मे प्रमाणं प्रमाणमेव चोदना इत्येवमन्ययो-
गायोगव्यवच्छेदेन ततः प्रवर्तमानानामैहि-
कस्यामुत्रिकस्य च फलस्याविसंवादात् । तथा
चोक्तं
‘श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्हि मानवः ।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम्॥’(मनुस्मृ०२।९)
इति । तद्विपरीतं तु त्रयीबाह्यं लिङ्गाराधनादि
च यत्, तन्त्रयीबाह्यत्वादेव फल्गुप्रायम् । यदाह
भट्टः
‘तथातिक्रान्तवेदोक्तमर्यादाव्यवहारिणाम् ।
३संवादिष्वपि वाक्येषु नेष्यते मानहेतुता ॥’ (तं० वा० १।३)
मनुरपि
‘या वेदबाह्याः स्मृतयो याश्च काश्चित्कु४दृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोभूता हि ताः स्मृताः ॥’
(१२।९५)
इत्येवं जैमिनिमतानुसारिणः ॥ ४ ॥
१ वचनं-विधिः । २ विशेष्यसंबद्धः एवकारः अन्ययोगं व्यवच्छिनत्ति ।
यथा पार्थ एव धनुर्धरः पार्थसदृशोऽन्यो धनुर्धरो नास्तीत्यर्थः । एवं
विशेषणसंबद्धः एवकारः अयोगं व्यवच्छिनत्ति । यथा शंखः पाण्डुर एव ।
तद्वदत्रापि चोदनैव हि प्रमाणं, प्रमाणमेव चोदनेति क्रमेण एवकारो विशेष्य-
विशेषणसंबद्धः अन्ययोगायोगौ व्यवच्छिनत्ति । ३ अवश्यभावित्वान्नास्तिका-
दिप्रणीतासंदिग्धार्थेष्वपि चैत्यवन्दनादिवाक्येषु । ४ चार्वाकादिप्रणीतग्रन्थाः ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १३
तस्य वचः श्रुत्वा
त ऊचुर्नन्वयं धर्म-
श्चोदनाविहितो मुने ।
देवताराधनोपाय-
स्तपसाभीष्टसिद्धये ॥ ५ ॥
ते भरद्वाजादयः इन्द्रं तापसरूपत्वान्मु-
निशब्देनामन्त्र्य नन्विति प्रतिवचनमवोचन् ।
योऽयमस्माभिरभिहितो रुद्राख्यदेवताप्रसाद-
नोपायलक्षणो धर्मः तपसा समीहितसिद्ध्यर्थ-
मासेव्यते, स चोदनयैवाभिहितो व्यवस्था-
पितः । तथाहि चोदना नाम लिङ्-लोट्-
तव्यदादिशब्दव्यवस्थापितविधिनिषेधरूपय-
जनादिक्रियाप्रवर्तकवचनमभिधीयते । यथा
‘ज्योतिष्टोमेन यजेत स्वर्गकामः’ ‘न कलञ्जं
भक्षयेत्’ इत्यादि । तच्च मुख्यतया श्रौतं
धर्मरूपं तन्मूलत्वाच्च स्मार्तमपि । तथाचोक्तं
‘तस्मात् श्रुतिस्मृती एव प्रमाणं धर्मगोचरे।’ (तं० वा० १।३)
इति । तथा

१४ मृगेन्द्रतन्त्रे । [ १।१
‘वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।’
(मनुस्मृ० २।६)
इति ॥ ५ ॥
तदासतां तावदेवंविधाः श्रुत्यादिसदा-
गमार्थाविरोधिन्यः पौराणिक्यः संहिताः, अ-
न्याश्च काश्चन श्रुतयो यासामिदं तात्पर्यम् ।
यथा महाभारतादौ
‘ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् ।
इहलोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥’
इति ।
‘सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् ।
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥’
इति । तथा
‘आदित्या वसवो रुद्रा मुनयश्च महौजसः ।
विधिवल्लिङ्गमाराध्य पदमिष्टतमं गताः ॥’
इति । तथा
‘मृद्भस्मगोशकृत्पिष्टगुडखंडादिलिङ्गकम् ।
संपूजयन् प्रतिष्ठाप्य श्रद्धावानधिगच्छति ॥’
इति । तत्राप्रामाण्यमभ्युपगम्यापि ब्रूमः-
१ वेदविदां स्मृतिः मन्वादिः शीलमाचरणं च धर्ममूलं भवति । अखि-
लोऽपि वेदः । २ अर्चयन्तीति शेषः ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १५
यदभिप्रायेणेदमभिधीयते भवद्भिः, स तावत्
श्रुत्यर्थ एव स्मर्यतां, तत्र हि
वेदेऽस्ति संहिता रौद्री
वाच्या रुद्रश्च देवता ।
सान्निध्यकरणेऽप्यस्मि-
न्विहितः काल्पिको विधिः ॥६॥
रुद्रो देवतास्या इति रौद्री संहिता ऋ-
ग्यजुःसामलक्षणे चाथर्वणे च वेदेऽस्ति ।
यजुर्वेदे हि रुद्रैकादशिनी संहिता श्रूयते, यस्यां
भगवन्तो रुद्राः सर्वाभिप्रेतसाधकाः पठ्यन्ते ।
ऋग्वेदेऽपि
'त्रियम्बकं यजामहे' ( ७।५९।१२ )
'इमा रुद्राय तवसे कपर्दिने' ( १।११४।१ )
'इमा रुद्राय स्थिरधन्वने गिरः' ( ७।४६।१ )
इत्यादिका ऋग्विधानाम्नातास्तत्तद्विशिष्टविधा-
नफला विद्यन्त एव । सामवेदेऽप्यस्ति । श्रू-
यते हि साम्नां विधाने
'आ वो राजा तद्वो वर्ग आज्यदोहानि देवव्रतानि चैषा
रौद्री नाम संहितैतां प्रयुञ्जानो रुद्रं प्रीणाति' ( १।४।१६ )
इति । एवमाथर्वणेऽपि रुद्राराधनविधयः

१६ मृगेन्द्रतन्त्रे । [ ११
तन्मन्त्रसंहिताश्च संभवन्ति । न च केवलं संहि-
तामात्रमेवास्ति । तत्र तत्र रुद्र एव देवता
वाच्यरूपतया श्रूयते, यमुद्दिश्य
‘एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहा’
( क० शा० ९।७ )
इति श्रुतिः । नचैतावत्, यावत्काल्पिक इति .
कल्पो वेदाङ्गं, तदुक्तो विधिः भगवतः सांनि-
ध्यकल्पनाय श्रूयते । तथाहि काठके सूत्रप-
रिशिष्टीये रुद्रकल्पे
‘त्रिषवणमुदकोपस्पर्शनम्’
इत्युक्त्वोक्तं
‘दर्भेष्वासीनो दर्भमुष्टिं धारयमाणो
रक्षोभ्योप्यविज्ञेयो भवति, शाकयावकपयोभैक्ष-
भक्षः षड्भिर्मासैः प्रत्यक्षीभवन्तं भगवन्तं पश्यति ।’
इति । एवं च श्रद्दधानमनसां जैमीनीयच्छा-
याश्रयिणामपि चोदनाप्रदर्शितोऽयमस्तीव प्र-
सिद्धः पन्थाः, किं पुनः परमेश्वरप्रकाशनवि-
हतमहामोहतमिरतया विस्पष्टदृष्टीनामन्ये-
षाम् ॥ ६ ॥