मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 37, कुल 448 में से
संदर्भ में पढ़ेंश्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ७
वरत्वात् प्रसभमस्त्रैरवध्यतामस्य बुद्ध्वा, फेने-
नान्तर्निहितवज्रेण असुरस्य शिरोद्वयं चि-
च्छेद । तद्व्यापादनतश्च ब्रह्महत्याजनितमघमा-
शङ्कमानस्तत्प्रशान्तये भगवन्तमच्युतं नाम्नां
सहस्रेण ऋग्यजुःसामभिश्चास्तौषीत् । प्रसन्नेन
च हरिणा नवोदितभास्वद्भास्वरं सर्वभूता-
भिभावुकं नारसिंहं कवचं प्रयच्छता प्रोक्तम् ।
यथैतत्संनद्धदेहस्त्वमुत्तरकुरुषु भगवन्तं पि-
नाकिनमाराधय, वर्षसहस्रान्ते च तं दृष्ट्वाभि-
मतमासादयिष्यसि इत्युक्त्वा अन्तर्हिते मुरारौ
सर्वं तदिन्द्रेण कृतम् । अथ प्रत्यक्षीभूते
भगवति पिनाकिनि निखिलदुःखान्तश्चास्य
संजातः। श्रीमत्कामिकाख्यं चास्मै परमेश्वर उप-
दिदेश । यतश्चेन्द्रस्य नृसिंहरूपिणः समुपदि-
ष्टमिदमुमापतिना, ततो मृगेन्द्रस्य श्रोतृत्वान्-
न्मृगेन्द्रसंज्ञया प्रथितम् । संबन्धस्त्वत्र षट्प्र-
कारः परादिः । तथाहि—सर्गादौ परमेश्वरः
ऊर्ध्वप्राग्दक्षिणोत्तरपश्चिमस्रोतःपञ्चकभेदभिन्नं
ज्ञानं स्वेच्छानुगृहीतविद्येश्वराष्टकप्रबोधनानन्तरं
१ प्रलये ये मुक्ताः स्थिताः अनन्तादयः, तेषां बोधनानन्तरम् ।