मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
युक्तिप्राबल्यम् 61
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियोगशतेनापि सोऽन्यथा नोपपद्यते ॥
तस्माद्युक्त्यैव जगतो व्यवहारो व्यवस्थितः ।
युक्तिहीनव्यवह्रतावुन्मत्त इति गीयते ॥
तस्माददृष्टतत्त्वानां सापराधं बहुच्छलम् ।
दर्शनं चापि वचनं नित्यमेवानवस्थितम् ॥
ऋषीणां दर्शनं यच्च तत्त्वे किंचिदवस्थितम् ।
न तेन व्यवहारोऽस्ति न तच्छब्दानिबन्धनम् ॥
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव ।
तत्र नास्ति तलं व्योम्नि न खद्योतो हुताशनः
मधुरं तिक्तरूपेण श्वेतं पीततया तथा ।
गृह्णन्ति पित्तदोषेण विषयं भ्रान्तचेतसः ॥
तथा वेगेन धावन्तो नाव्यारूढाश्च गच्छतः ।
पर्वतादीन्विजानन्ति भ्रमेण भ्रमतश्च तान् ॥
मण्डूकवसयाऽक्ताक्षाः वंशानुरगबुद्धिभिः ।
गृह्णन्तीत्यादिविषयः श्लोकवार्तिकविस्तृतः ॥
तस्मात्प्रत्यक्षमप्यर्थं विद्वानीक्षेत युक्तितः ।
न दर्शनस्य प्रामाण्यात् दृश्यमर्थं प्रकल्पयेत्
इममर्थं भर्तृहरिः वाक्यपद्यां न्यदर्शयत् ।
न्यायवार्तिकतात्पर्यटीकाकृद्वचनं यथा ॥
614 मानमेयरहस्यश्लोकवार्तिके
प्रत्यक्षकलितं चार्थं बुभुत्सन्तेऽनुमानतः ।
तर्कसिद्धान्तरसिका इति पूर्वैरुदाहृतम् ॥
4 इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते ।
उपलम्भानुसारेण व्यवस्थासिद्धिरीदृशी ॥
सर्वदाचापि पुरुषाः प्रायेणानृतवादिनः ।
यथाऽद्यत्वे न विस्रम्भः तथाऽतीतार्थकीर्तने ॥
न च पुंवचनं सर्वं सत्यत्वेनावगम्यते ।
वागिह श्रूयते यस्मात्प्रायादनृतवादिनी ॥
इति च श्रूयते श्लोकवार्तिके तन्त्रवार्तिके ।
कुमारिलमहाप्राज्ञमुखाल्लोकोत्तरं वचः ॥
सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा ।
तावुभौ यदि सर्वज्ञौ मतिभेदः कथं तयोः ॥
न ह्याप्तवादा नभसो निपतन्ति महासुराः ।
युक्तिमद्वचनं ग्राह्यं सर्वैरपि परिक्षकैः ॥
सर्वैर्दार्शनिकैः लोके शास्त्रं किञ्चिन्निधीयते ।
तत्प्रामाण्ये विवादस्तु वादिनामवशिष्यते ॥
प्रमाणान्तरदृष्टं हि शब्दोऽन्यं प्रापयेत्सदा ।
स्मृतिवच्च स्वयं तस्य प्रामाण्यं नोपपद्यते ॥
नूनं तत्रानुभूतोऽसावित्याप्तोक्तिनिबन्धना ।
बुद्धिस्साक्षाददृष्टेऽपि युक्ताऽर्थे पुरुषोक्तितः ॥
युक्तिप्राबल्यम् 61
नात्मीयादन्यदीयाद्वा प्रत्यक्षादेर्विना क्वचित् ।
वचसस्सत्यता दृष्टा सर्वशब्देष्वयं विधिः ॥
बुद्ध्याद्यन्तेवासिनां तु बुद्धाद्यास्सर्ववेदिनः ।
तत्प्रणीतानि शास्त्राणि प्रमाणानीति ते विदुः ॥
ईश्वरेणोपदिष्टास्स्युः वेदास्सकलवेदिना ।
प्रमाणमाप्तवाक्यत्वादित्याहुः किल तार्किकाः ॥
अपौरुषेया वेदास्स्युः प्रमाणमिति वैदिकाः ।
दूषणं भूषणं चापि प्रवर्धेते दिनेदिने ॥
अपिचापौरुषेयेषु वेदेषूपनिषत्सु वा ।
यदा तात्पर्यभेदास्स्युः किं नित्यागमसंपदा ॥
5 पार्थसारथिमिश्राणां या पुनश्शास्त्रदीपिका ।
तस्यां ज्ञेयं पद्यमिदं स्फुटं बह्वर्थगर्भितम् ॥
प्रबोधचन्द्रोदयेऽपि कृष्णमिश्रविनिर्मिते ।
पौर्वापर्यविचारस्तु तिष्ठत्वत्र न चादरः ॥
प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः ।
वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते ॥
इति, तैस्तु पुराणस्थं नूनं नालोचितं वचः ।
तदत्र लिख्यते किंचिन्मध्यस्थैरवधार्यताम् ॥
नैतद्युक्तिसहं वाक्यं हिंसा धर्माय चेष्यते ।
हवींष्यनलदग्धानि फलायेत्यर्भकोदितम् ॥
616 मानमेयरहस्यश्लोकवार्तिके
यज्ञैरनेकैर्देवत्वं अवाप्येन्द्रेण भुज्यते ।
शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशुः ॥
निहितस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते ।
स्वपिता यजमानेन किंनु तस्मान्न हन्यते ॥
तृप्तये जायते पुंसः भुक्तमन्येन चेत्ततः ।
दद्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥
एवं विनिन्दां वेदानां यथा तैर्विनिवार्यते ।
तथोपनिषदां निन्दा न निवार्येत किं परैः ॥
6 तद्युक्त्यधीनस्सकलः संरम्भः खलु वादिनाम् ।
इत्याहुरिह युक्तिज्ञाः ये विपश्चिदपश्चिमाः ॥
(223) विचारनिरूपणम्.
1 विचारो द्विविधो लोके फलभेदाद्व्यवस्थितः ।
तत्त्वनिर्णयसिद्धयर्थः विजयैकार्थ इत्यपि ॥
तत्राद्यो द्विविधः पूर्वः उपदेशात्मको मतः ।
द्वितीयो न्यायमूर्तिस्स्याद्यो वादो गुरुशिष्ययोः ॥
अनन्तरोपि द्विविधः विजिगीषुकथात्मकः ।
जल्प एको वितण्डा तु द्वितीय इति निर्णयः ॥
वादनिग्रह एवात्र नैव तत्त्वविनिर्णयः ।
इति जानन्तोऽपि कथां वितण्डामेव केवलम् ॥
आश्रित्य परपक्षांस्तान् खण्डयन्ति विपश्चितः ।
वितण्डामेव च कथामाश्रित्य परखण्डनम् ॥
वक्तव्यमिति हि प्राह श्रीहर्षो विश्वखण्डकः ।
अद्वैतसिद्धावपि च मधुहन्तृसरस्वती ॥
वादजल्पवितण्डानां कथामन्यतमामपि ।
आश्रित्य परपक्षाणां प्रतिक्षेपं ब्रवीत्यपि ॥
एवं च वादिविजयमात्रेणैव समीहितम् ।
सिषाधयिषतीत्येव कुतस्तत्त्वविनिर्णयः ॥
यद्यपि न्यायसिद्धान्ते ताभ्यां निग्रह ईप्सितः ।
न तं तत्त्वव्यवस्थायां प्रमाणं बहवो विदुः ॥
तदेतस्मात्संप्रदायसंस्कारो मूलकारणम् ।
विचारविप्लवस्सर्वः ताड्यते बाह्यडिण्डिमः ॥
2 अत्र केचन तत्त्वज्ञाः युक्तिज्ञपरिशीलनात् ।
अभिप्रायमिमं कंचिद्विशदीकुर्वते यथा ॥
आदौ सांख्याः सर्ववस्तु नित्यतासाधनोद्यताः ।
क्षणभङ्गं निरुन्धन्ति युक्तिजालैर्मनोहरैः ॥
गत्वागत्वाऽथ ते योगाचारसिद्धान्तसागरे ।
निमज्जन्ति यतो व्यक्तिरुत्पत्तिश्चाविलक्षणा ॥
उत्पत्तिनाशयोरस्तिनास्त्योरप्येकता मता ।
विज्ञानवादसिद्धान्तः पर्यायेणायमेव हि ॥
M.R. 78
सांख्याः स्वभावसिद्धान्तमङ्गीकुर्वन्ति भूयसा ।
अर्धं तेनाकस्मिकतावादमेते समाश्रिताः ॥
३ वैशेषिकाद्या विज्ञानवादोद्धूननतत्पराः ।
क्षणवादे निमग्नास्स्युः प्रतिक्षणविशेषतः ॥
यद्यप्यात्मादयो नित्याः पदार्थाः स्वीकृताः पुनः
तथापि धर्माः तेषां स्युः क्षणिका इति तन्मतम्
धर्मधर्म्यैक्यपक्षे तु क्षणवादः प्रतिष्ठितः ।
पीलुपाके तु विस्पष्टः क्षणसिद्धान्तसङ्ग्रहः ॥
भूतचैतन्यभङ्गाय पीलुपाकस्समाश्रितः ।
प्रतिक्षणं देहभेदे स्मरणं नोपपद्यते ॥
क्षणभङ्गोपरोधाय पिठरे पाक आदृते ।
भूतचैतन्यवादस्तु तदानीं स्यादुरुद्धरः ॥
अत एव प्रसिद्धास्तेऽप्यर्धवैनाशिका इति ।
निरन्वयोत्पत्तिनाशाधारा हि क्षणभङ्गिता ॥
४ पूर्वमीमांसका वेदापौरुषेयैकदृष्टयः ।
प्रायो लौकायतं मार्गं संश्रिता इति कीर्तिताः ॥
प्रायेणैव हि मीमांसा लोके लोकायतीकृता ।
तामास्तिकपथे कर्तुमयं यत्नः कृतो मया ॥
इति वार्तिककारोऽपि प्राहारम्भे कुमारिलः ।
अथाप्यपयशस्तेषामद्यापि न हि शाम्यति ॥
विचारनिरूपणम् ६१९
विग्रहो हविरादानं युगपत्कर्मसन्निधिः ।
प्रीतिः फलप्रदानं च देवतानां न विद्यते ॥
देवानचेतनानेवं ये विदुस्तान्महाशयान् ।
अर्धलोकायतानाहुरत एवेतरे बुधाः ॥
सर्वेषामपि शब्दानामाहुः सर्वार्थशक्तताम् ।
सर्वेषां विदुरर्थानां अशेषपदशक्यताम् ॥
सर्वासामपि जातीनां स्याद्यावद्व्यक्तिगामिता ।
व्यक्तीनामपि सर्वासां सर्वजात्यनुयोगिता ॥
एष सर्वात्म्यसिद्धान्तो नैरात्म्यान्न विशिष्यते ।
सामान्यलक्षणे सैषा विश्रान्तिर्वा स्वलक्षणे ॥
कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः ।
वर्णोऽप्येको गकारादिः सर्वैक्यं किं न रोचते ॥
तदानीमपि दुर्मोचा भवेत्सौगतवागुरा ।
विशेषवादस्सामान्यवादो वा दृष्टिभेदतः ॥
५ ये तु स्वाभाविकं भेदाभेदमिच्छन्ति शास्त्रतः ।
तेषां विरोधो नास्त्येव वस्तु नानात्मकं यतः ॥
यादृशं ज्ञायते वस्तु यदि तादृशमेव तत् ।
विज्ञानवादसिद्धान्तोऽप्येवमेव हि वस्तुतः ॥
प्रातिभासिकसिद्धान्तोऽप्यसावेव हि वस्तुतः ।
स चानेकान्तवादोऽपि भवेत्पर्यायतो विदाम् ॥
20 मानमेयरहस्यश्लोकवार्तिके
6 अज्ञानादिह संसारं ज्ञानान्मोक्षं च ये विदुः ।
सर्वे ते पर्यवस्यन्ति प्रायस्सौगतसोदराः ॥
अविवेकेन तादात्म्यं पुंप्रकृत्योर्न वस्तुसत् ।
साऽस्मितेत्युच्यते क्लेशः सर्वानर्थस्य कारणम् ॥
येषां प्रपञ्चः तन्मूलः बुद्धिमूलस्तु वस्तुतः ।
विज्ञानवादिसिद्धान्ताविशेषो वस्तुवादिनाम् ॥
संसारमोक्षयोः कर्म कारणं ये विदुः परे ।
प्रायो भौतिकसिद्धान्तवादस्तेषां महात्मनाम् ॥
ये सर्वेश्वरसंकल्पायतं तदुभयं विदुः ।
संकल्पो बुद्धिरेवेति दुर्लङ्घा बुद्धवागुरा ॥
यद्यत्राज्ञानशब्देन चान्यथाज्ञानमुच्यते ।
विज्ञानवादस्स्यात्तस्मात् ज्ञानाभावस्स उच्यते ॥
तस्यापि तुच्छरूपत्वे तुच्छं चापि जगद्भवेत् ।
भावान्तराभाववादः स्वीकृतः कपिलादिभिः ॥
अभावोऽप्यर्थ एवेष्टः तन्मीमांसकतार्किकैः ।
अतएवच ते प्राहुर्भावं मोक्षसाधनम् ॥
अनिर्वाच्यविदश्चातः भावाज्ञानविदोऽभवन् ।
अज्ञानं चेदसत्ख्यातिः ज्ञानाभावोऽथवा पुनः ॥
दुरुद्धरा तुच्छता स्याज्जगतस्त्विति बिभ्यति ।
भावान्तराभाववादं अतः केचित्समाश्रिताः ॥
विचारनिरूपणम् ६२१
अन्ये तार्किकसिद्धान्तं प्रायशस्समशिश्रयन् ।
यस्मात्सौगतसिद्धान्तस्सोऽसत्ख्यातो प्रतिष्ठितः ॥
7 सौगताः सर्वसिद्धान्तखण्डकाः शून्यतत्पराः ।
तेषां वितण्डा ब्रह्मास्त्रं तस्या गतिरुदीक्ष्यताम् ॥
वितण्डावाद्ययमसो यो माध्यमिकनामकः ।
स्वपक्षस्थापनाहीनः परपक्षविभेदकः ॥
सोऽनुयुक्तः फलं किंचिद्यदिच प्रतिपद्यते ।
सोऽस्य पक्षो भवेत्तेन वैतण्डिककथा हता ॥
अथ न प्रतिपद्येत नायं लौकिक इष्यते ।
नवा परीक्षकः स्यादित्यापद्येत स बुद्धिमान् ॥
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ।
न तिरश्चामपि जगत्यफला दृश्यते क्रिया ॥
परपक्षप्रतिक्षेपज्ञापनं चेत्प्रयोजनम् ।
ब्रवीत्यसौ तथाऽप्येतत्तादृगेव भविष्यति ॥
यो ज्ञापयति यो वेत्ति येन च ज्ञाप्यते तथा ।
यदपि ज्ञायते तच्चेत् प्रतिपद्येत को हतः ॥
सर्वथा सदुपायानां वादमार्गः प्रवर्तते ।
अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः ॥
अथ शून्याद्वैतवादमानिनो हीत्थमभ्यधुः ।
अवलम्ब्य भरं शून्ये कृतार्थाः सुखमास्महे ॥
22 मानमेयरहस्यश्लोकवार्तिके
ये तु तत्त्वं विनिर्णैतुमिच्छन्ति स्वव्यवस्थया ।
भ्राम्यन्ति, तेषु कृपया कृतार्थास्ते भवन्त्विति ॥
अपनेतुं भ्रमं चापि परार्थ्यात्प्रयतामहे ।
दया हि स्वार्थानपेक्षपरदुःखासहिष्णुता ॥
यदि काचित्प्रतिज्ञा स्यात्तदा दोषविचारणा ।
नास्ति प्रतिज्ञा काचिन्नः तस्मान्नैवास्ति दूषणम् ॥
नातः पर्यनुयोगाहाः कथंचिदपि वादिभिः ।
इति शून्यैकान्तवादः तत्र स्यादिदमुत्तरम् ॥
मर्यादास्थापनार्थं च मानतकौ समुत्थितौ ।
सिंहारण्यवदन्योन्यं गुप्तौ तौ स्वान्यसाधकौ ॥
महीमिवच मर्यादां अनधिष्ठाय शाश्वतीम् ।
पदन्यासो न चोराणां प्रच्छन्नप्रकटात्मनाम् ॥
परमर्यादया ब्रूमः परव्याहतिमित्यसत् ।
स्वव्याघातादिभङ्गानां परानङ्गीकृतिर्यतः ॥
यद्यस्येष्टं तत्तु तस्य प्रयोजनमिति स्थितम् ।
सर्वभूतानुग्रहोऽपि कथं न स्यात्प्रयोजनम् ॥
सोऽस्य पक्षः स सिद्धान्तः वैताण्डिककथा वृथा ।
सर्वशून्यविदां सर्वा धीर्मृषेत्यापि धीर्मृषा ॥
तस्मान्निषेधसिद्धान्तः स्वयमेव विहन्यते ।
विश्वखण्डनसिद्धान्तोऽप्येवमेव हि खण्डितः ॥
बलाबलसारांशः 62
तदर्वाग्भिः तथा प्राग्भिः यथेष्टं मतमास्थितैः ।
प्रणिन्ये बहुधा तैस्तैः ग्रन्थरूपविचारणा ॥
यथालोकं यथावेदं वैदिके लौकिकेऽपिवा ।
यो वक्ता स परिग्राह्यः प्राक्तनोऽद्यतनोऽपिवा ॥
एवं सामान्यतस्तत्त्वविचारसरणिस्त्वियम् ।
न निर्गुणं न निर्दोषं जगत्यामस्ति किंचन ॥
(124) बलाबलसारांशः
1 अथायमत्र सारांशः संक्षेपेण विलिख्यते ।
तेन च प्रायशः तत्त्वं ज्ञेयं समरसं सताम् ॥
लोक इत्युच्यते युक्तिः उक्तिर्वेद इतीर्यते ।
अनयोरन्तरं नास्ति यद्यस्त्येतत्प्रसज्यते ॥
लोकातीतं तु विषयं न लोको ज्ञातुमर्हति ।
तथैव लौकिकं वस्तु न वेदो ज्ञापयेदपि ॥
यदि लोको वेत्तुमर्हः तदा लौकिक एव सः ।
लोकश्चेत्सर्वदा लोको भवेत्सर्वत्र सर्वथा ॥
यदि वेदो भवेल्लोकादात्यन्तिकविलक्षणः ।
न तादृशेन वेदेन लोकस्यास्ति प्रयोजनम् ॥
अत एवाहि मीमांसाशास्त्रे जैमिनिनोदितम् ।
आनर्थक्यप्रसङ्गेन शब्दैक्यं लोकवेदयोः ॥
524 मानमेयरहस्यश्लोकवार्तिके
प्रमाणं सकलं साङ्गं प्रवृत्तं लौकिकं तु तत् ।
लौकिकस्य प्रमाणस्य मेयं कथमलौकिकम् ॥
तस्मात्तत्त्वमिदं ज्ञेयं विस्पष्टं लोकवेदयोः ।
दृष्टिस्सामान्यतो लोकः दृष्टिर्वेदो विशेषतः ॥
सर्वसाधारणो लोकः वेदोऽसाधारणोऽथवा ।
सूक्ष्मदृष्टिर्वेद एषः लोकस्स्यात् स्थूलदर्शनम् ॥
वेदो वा महतां दृष्टिः लोकोऽन्येषां तु दर्शनम् ।
नूतनो वा भवेल्लोकः वेदस्तु स्यात्पुरातनः ॥
गिरिशृङ्गारोहणेन दर्शनं किं न दर्शनम् ।
चिरेण दर्शनं गर्भगृहे वा किं न दर्शनम् ॥
वेदे श्रद्धाप्रसिद्ध्यर्थं लोको लोकमपेक्षते ।
तथा व्यवस्थासिद्ध्यर्थं लोको वेदमपेक्षते ॥
2 लोको भिन्नरुचिर्भिन्नसंस्कारो भिन्नदर्शनः ।
विचित्रो लौकिकेऽप्यर्थे किमु वाच्यमलौकिके ॥
अधिकारिविभेदेन सामरस्यं परे विदुः ।
यथाश्रुतधियः केचित् तेषामुक्तिर्विशिष्यते ॥
क्षोदक्षमधियस्त्वन्ये तेषां युक्तिर्गरीयसी ।
संमुग्धबुद्धयः केचित् तेषां संप्लव इष्यते ॥
तस्मात्सर्वैर्दार्शनिकैरुभयं च यथायथम् ।
स्वीकृत्य संप्रदायः स्वः सुदृढीक्रियते तराम् ॥
उपसंहारः 6
केचित्तु कालभेदेन सामरस्यं प्रपेदिरे ।
आदौ श्रुतिमयी प्रज्ञेदानीं चिन्तामयी मता ॥
केचित्त्ववस्थाभेदेन विरोधाभावमभ्यधुः ।
बाल्ये श्रुतिः ततो युक्तिः तदन्योन्यसमुच्चयः ।
केचिद्विषयभेदेन विरोधाभावमूचिरे ।
उक्तिः प्रधानविषये युक्तिः तदनुबन्धिनि ॥
नीचाः कलहमिच्छन्ति संधिमिच्छन्ति साधवः
इति न्यायस्सामरस्यविदुषां हृदयस्थितः ॥
देशभेदात्कालभेदात्पुंभेदादन्यथाऽन्यथा ।
पर्यवस्यति शास्त्रार्थ इत्याहुः क्रान्तदर्शिनः ॥
(125) उपसंहारः.
1 भूमण्डलेऽस्ति भरतखण्डेऽस्मिन् दक्षिणापथे ।
कर्णाटदेशो विख्यातः महागिरिसरिद्वृतः ॥
प्रायेण पुण्यतीर्थानां प्रभवो देशतो यतः ।
तथैव पुण्यक्षेत्राणां देशो यश्च समाश्रयः ॥
सुवर्णादिखनीनां च रत्नानामपि चाकरः ।
विद्यावीचिसहस्राणां पारावारायते च यः ॥
तत्र यद्द्रिनिकटे महाबलशिलोच्चयः ।
कावेरीकपिलानद्योर्मध्ये यस्तरळायते ॥
M.R. 79
यमध्यास्ते महादेवी वैष्णवी शक्तिरुत्तमा ।
चामुण्डा यदुसंतानभूभृतां कुलदैवतम् ॥
महीशूरपुरी नाम प्रचकास्ति तदन्तिके ।
सा राजधानी सकलसम्पद्यादवभूभुजाम् ॥
चतसृष्वपि दिक्ष्वस्याः प्रख्यातास्स्युस्सुरालयाः ।
प्राच्यामवाच्यां प्रतीच्यामुदीच्यां च यथाक्रमम् ॥
नरसिंहपुरं चैव तथा गरलपुर्यपि ।
अर्कपुष्करिणीक्षेत्रं तथा श्रीरङ्गपत्तनम् ॥
देवतायतनैश्चैव सत्पुस्तकनिकेतनैः ।
आचार्याणां पीठमठैः उद्यानैयां विराजते ॥
विशालविद्याशालाभिः वैद्यशालाभिरेव च ।
विश्वविद्यावेश्मभिश्च भ्राजते राजवेश्मभिः ॥
न्यायस्थानैः कृतस्थानैः तेजःस्थानैः जलस्थलैः ।
कर्णाटदेशधरणीरमणीमौळिसन्मणिः ॥
सुगाङ्गसदृशो यस्यां प्रासादः परिशोभते ।
यत्र कर्णाटसिंहाङ्गासनं सद्रत्नशोभितम् ॥
२ यदधिष्ठाय सकलकल्याणगुणभूषणः ।
महाराजोऽवति श्रीमान् कृष्णराजोऽधुना प्रजाः
यादवान्वयवाराशिभवमौक्तिकसन्मणिः ।
यदुराजः कुलपतिरासीदस्य महीभुजः ॥
उपसंहारः 6
चतुर्दशे च शतके शालिवाहशके च सः ।
श्रीमन्महीशूरदेशराजाऽऽसीदिति विश्रुतः ॥
स पवित्रात्रेयगोत्रः बह्वृचाश्वलायनः ।
तत्सन्ततौ चतुर्विंशोत्तमाङ्गत्वमुपाश्रितः ॥
शालिवाहशकैकोनविंशेऽथ शतके पुनः ।
सप्तमे हायने जात एष श्रीकृष्णभूपतिः ॥
मोचारसमुचा वाचा नीचीकृतरसान्तरः ।
यशःकुसुमसंदोहवासिताशाऽबलालकः ॥
दयादाक्षिण्यसौलभ्यसौशील्यमहदाश्रयः ।
श्रीमन्महीशूरराज्यसर्वसौभाग्यदायकः ॥
सदाचारपरित्राता दुराचारनिवारकः ।
सर्वभूपशिरःकम्पसंपादकशुभव्रतः ॥
परोपसर्पणक्लेशतारिताश्रितसज्जनः ।
शान्तो दान्तश्च राजर्षिः यस्स्याज्जनकसन्निभः
आशीर्वादाक्षतफलधरश्रुतिशिरःकरः ।
धर्मो विग्रहवानेषः नैषद्देहेह वाङ्मृषा ॥
ज्योतिर्मयं खगोलं स्यात् भूगोलं तद्विपर्ययः ।
इति भेदो निराकारि यद्देशे वैद्युतत्विषा ॥
कनकाजलपातोत्थविद्युच्छक्तिसमृद्धितः ।
कनकं खन्यते येन यत्रान्वर्था सरित्कृता ॥
सैषा वसुमती चापि येन राजन्वती कृता ।
सरितस्सागरीभूताः मरवोऽप्युर्वरीकृताः ॥
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ॥
इति वाल्मीकिमुनिना तथा व्यासमहर्षिणा ।
सौहार्देन प्रतिज्ञातं पूरितं भूभुजाऽमुना ॥
बहुना किमिहोक्तेन सर्वविद्वदुपाश्रयः ।
सद्रत्नहारकटकबहुमानितसत्प्रजः ॥
तेन भूपतिवर्य्येण योऽहं विद्यैकसंश्रयः ।
पण्डितानां रत्नमिति बिरुदेन विभूषितः ॥
भूयस्तथैव च महामहोपाध्यायभूषणम् ।
तदिण्डियाचक्रवर्तिसन्निधेरुपलम्भितः ॥
यदन्तेवासिनो लब्धवर्णाः नानाकलास्वपि ।
भूयो भद्रासनस्थेन तेनैव बहुमानिताः ॥
योऽनेकग्रन्थनिर्माणधुरीणो विश्वविश्रुतः ।
लक्ष्मीपुरंश्रीनिवासाचार्योऽसौ विदुषां मणिः ॥
एकोनविंशशतके पञ्चमे दशकेऽष्टमे ।
आत्मीयैकोनषष्ट्यब्दे यं प्रबन्धं व्यरोरचत् ॥
३ महीशूरमहाराजतुर्यश्रीकृष्णभूपतेः ।
कीर्तिकेतुः मानमेयरहस्यश्लोकवार्तिकम् ॥
उपसंहारः 62
तत्सौशील्येनैव शुद्धं तेनैव प्रचयं गतम् ।
किंकुर्वज्जगतामेतत् जीयात्सफलतां गतम् ॥
आकाशस्य स्थितिर्यावद्यावदप्यवनेः स्थितिः ।
तावदस्य स्थितिः भूयात्तमो लोकस्य निघ्नतः ॥
यस्सर्वज्ञः सर्वशक्तः तथा कारुणिकः परः ।
अन्तरान्मा महोदारः वासुदेवस्स तुष्यति ॥
यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् ।
यत्तपस्यामि हे कृष्ण तत्करोमि त्वदर्पणम् ॥
इत्थं लक्ष्मीपुरंश्रीनिवासविद्वन्मणिर्मुदा ।
प्रयोजनपरिच्छेदं समगृहीत चान्तिमम् ॥
प्रीयतां भगवान् वासुदेवः.
इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू-
भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग-
नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री-
मद्भिरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम-
द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि-
तस्य महामहोपाध्यायपण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत-
महापाठशालानिगमान्तप्रधानाोपाध्यायस्य श्रीमतो
लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु
मानमेयरहस्यश्लोकवार्तिके प्रयोजनकाण्डः
द्वितीयः समाप्तः समाप्तश्च प्रबन्धः.
श्रीः.
उपसंहारः 62
तत्सौशील्येनैव शुद्धं तेनैव प्रचयं गतम् ।
किंकुर्वज्जगतामेतत् जीयात्सफलतां गतम् ॥
आकाशस्य स्थितिर्यावद्यावदप्यवनेः स्थितिः ।
तावदस्य स्थितिः भूयात्तमो लोकस्य निघ्नतः ॥
यस्सर्वज्ञः सर्वशक्तः तथा कारुणिकः परः ।
अन्तरात्मा महोदारः वासुदेवस्स तुष्यति ॥
यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् ।
यत्तपस्यामि हे कृष्ण तत्करोमि त्वदर्पणम् ॥
इत्थं लक्ष्मीपुरंश्रीनिवासविद्वन्मणिर्मुदा ।
प्रयोजनपरिच्छेदं समग्रहीत् चान्तिमम् ॥
प्रीयतां भगवान् वासुदेवः.
इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू-
भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग-
नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री-
मद्विरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम-
द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि-
तस्य महामहोपाध्यायपण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत-
महापाठशालानिगमान्तप्रधानोपाध्यायस्य श्रीमतो
लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु
मानमेयरहस्यश्लोकवार्तिके प्रयोजनकाण्डः
द्वितीयः समाप्तः समाप्तश्च प्रबन्धः.
श्रीः.