सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 661, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 661

विचारनिरूपणम् ६१९
विग्रहो हविरादानं युगपत्कर्मसन्निधिः ।
प्रीतिः फलप्रदानं च देवतानां न विद्यते ॥
देवानचेतनानेवं ये विदुस्तान्महाशयान् ।
अर्धलोकायतानाहुरत एवेतरे बुधाः ॥
सर्वेषामपि शब्दानामाहुः सर्वार्थशक्तताम् ।
सर्वेषां विदुरर्थानां अशेषपदशक्यताम् ॥
सर्वासामपि जातीनां स्याद्यावद्व्यक्तिगामिता ।
व्यक्तीनामपि सर्वासां सर्वजात्यनुयोगिता ॥
एष सर्वात्म्यसिद्धान्तो नैरात्म्यान्न विशिष्यते ।
सामान्यलक्षणे सैषा विश्रान्तिर्वा स्वलक्षणे ॥
कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः ।
वर्णोऽप्येको गकारादिः सर्वैक्यं किं न रोचते ॥
तदानीमपि दुर्मोचा भवेत्सौगतवागुरा ।
विशेषवादस्सामान्यवादो वा दृष्टिभेदतः ॥
५ ये तु स्वाभाविकं भेदाभेदमिच्छन्ति शास्त्रतः ।
तेषां विरोधो नास्त्येव वस्तु नानात्मकं यतः ॥
यादृशं ज्ञायते वस्तु यदि तादृशमेव तत् ।
विज्ञानवादसिद्धान्तोऽप्येवमेव हि वस्तुतः ॥
प्रातिभासिकसिद्धान्तोऽप्यसावेव हि वस्तुतः ।
स चानेकान्तवादोऽपि भवेत्पर्यायतो विदाम् ॥