मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 660, कुल 672 में से
संदर्भ में पढ़ेंसांख्याः स्वभावसिद्धान्तमङ्गीकुर्वन्ति भूयसा ।
अर्धं तेनाकस्मिकतावादमेते समाश्रिताः ॥
३ वैशेषिकाद्या विज्ञानवादोद्धूननतत्पराः ।
क्षणवादे निमग्नास्स्युः प्रतिक्षणविशेषतः ॥
यद्यप्यात्मादयो नित्याः पदार्थाः स्वीकृताः पुनः
तथापि धर्माः तेषां स्युः क्षणिका इति तन्मतम्
धर्मधर्म्यैक्यपक्षे तु क्षणवादः प्रतिष्ठितः ।
पीलुपाके तु विस्पष्टः क्षणसिद्धान्तसङ्ग्रहः ॥
भूतचैतन्यभङ्गाय पीलुपाकस्समाश्रितः ।
प्रतिक्षणं देहभेदे स्मरणं नोपपद्यते ॥
क्षणभङ्गोपरोधाय पिठरे पाक आदृते ।
भूतचैतन्यवादस्तु तदानीं स्यादुरुद्धरः ॥
अत एव प्रसिद्धास्तेऽप्यर्धवैनाशिका इति ।
निरन्वयोत्पत्तिनाशाधारा हि क्षणभङ्गिता ॥
४ पूर्वमीमांसका वेदापौरुषेयैकदृष्टयः ।
प्रायो लौकायतं मार्गं संश्रिता इति कीर्तिताः ॥
प्रायेणैव हि मीमांसा लोके लोकायतीकृता ।
तामास्तिकपथे कर्तुमयं यत्नः कृतो मया ॥
इति वार्तिककारोऽपि प्राहारम्भे कुमारिलः ।
अथाप्यपयशस्तेषामद्यापि न हि शाम्यति ॥