मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 667, कुल 672 में से
संदर्भ में पढ़ेंउपसंहारः 6
केचित्तु कालभेदेन सामरस्यं प्रपेदिरे ।
आदौ श्रुतिमयी प्रज्ञेदानीं चिन्तामयी मता ॥
केचित्त्ववस्थाभेदेन विरोधाभावमभ्यधुः ।
बाल्ये श्रुतिः ततो युक्तिः तदन्योन्यसमुच्चयः ।
केचिद्विषयभेदेन विरोधाभावमूचिरे ।
उक्तिः प्रधानविषये युक्तिः तदनुबन्धिनि ॥
नीचाः कलहमिच्छन्ति संधिमिच्छन्ति साधवः
इति न्यायस्सामरस्यविदुषां हृदयस्थितः ॥
देशभेदात्कालभेदात्पुंभेदादन्यथाऽन्यथा ।
पर्यवस्यति शास्त्रार्थ इत्याहुः क्रान्तदर्शिनः ॥
(125) उपसंहारः.
1 भूमण्डलेऽस्ति भरतखण्डेऽस्मिन् दक्षिणापथे ।
कर्णाटदेशो विख्यातः महागिरिसरिद्वृतः ॥
प्रायेण पुण्यतीर्थानां प्रभवो देशतो यतः ।
तथैव पुण्यक्षेत्राणां देशो यश्च समाश्रयः ॥
सुवर्णादिखनीनां च रत्नानामपि चाकरः ।
विद्यावीचिसहस्राणां पारावारायते च यः ॥
तत्र यद्द्रिनिकटे महाबलशिलोच्चयः ।
कावेरीकपिलानद्योर्मध्ये यस्तरळायते ॥
M.R. 79