सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

अधिकारी 59.
गूढधर्माश्रितो विद्वानज्ञानचरितं चरेत् ।
अन्धवज्जडवच्चैव मूकवच्च महीं चरेत् ॥
8 इत्येवं मतभेदे च स्थिते केचिद्विपश्चितः ।
स्वातन्त्र्येण विचार्येत्थमुल्लिखन्ति सिराग्रहाः ॥
छान्दोग्योपनिषन्निष्ठाः ये चैकाश्रम्यवादिनः ।
गृहस्थ एव विद्यायामधिकारीति तन्मतम् ॥
ये वाज्युपनिषन्निष्ठाः ते तु संन्यासिलक्षणः ।
ब्राह्मणस्सोऽधिकारीति यथाश्रुत्याऽभिमेनिरे ॥
इतरेषु प्रबन्धेषु परस्परविनिन्दया ।
सर्वेषामधिकारोऽपि ज्ञायते तत्रतत्र हि ॥
ज्ञानकर्मविवादोऽयं जगतस्सदसत्त्वतः ।
दृष्टिमूलः यतो बन्धोऽप्यास्ते सदसदात्मकः ॥
9 अथान्ये ब्रह्मविद्यायां सर्वेषां मोक्षसाधने ।
अधिकारं विदुर्धीराः तद्विशेषव्यवस्थया ॥
ब्रह्मविद्या द्विधा भक्तिः प्रपत्तिश्चेति शास्त्रतः ।
आद्यायामधिकारस्तु यज्ञदानाद्युपस्कृतः ॥
अपात्याश्रमिणां सर्वाश्रमिणां च द्विजन्मनाम् ।
अत्याश्रमी नग्नचर्यो बाह्य इत्येव तन्मतम् ॥
आनुकूल्याद्युपकृता प्रपत्तिर्या त्वनन्तरा ।
तस्यां हि प्राणिमात्रस्य स्यादसाविति निर्णयः ।
M.R. 75

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥
अपिचेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः ॥
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
भक्त्या परमया वापि प्रपत्त्या वा महामुने ॥
प्राप्योऽहं नान्यथा प्राप्यो मम कैंकर्य लिप्सुभिः।
इत्याह भगवान् साक्षात्सर्वस्य शरणं सुहृत् ॥
प्रपत्त्या भजमानास्तु यादृशास्तादृशा अपि ।
भगवान् सर्वपापेभ्यो मोक्षयिष्यत्यसंशयम् ॥
भक्तिमार्गोऽपि सर्वेषां यद्यपि श्रूयते तथा ।
विशिष्टदेहावच्छिन्नप्रारम्भोऽसौ न दुष्यति ॥
धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते ।
वर्णावरत्वे संप्राप्तास्संसिद्धिमिति निर्णयः ॥
शूद्रार्चनादिप्रसङ्गे श्रीकृष्णमुनिभिः पुनः ।
उक्तैषा प्रतिबन्दीति वेदान्तार्यैरुदाहृतम् ॥

अधिकारी ५
हविष्कृतो यथा शूद्रे यथा वा बहुयाजिनः ।
निर्वाहः क्रियते तद्वत् शास्त्रस्यास्यापि नान्यथा
10 स्त्रीणां निर्वाणदीक्षा च स्थापिता जैनपण्डितैः ।
तथा मोक्षाधिकारश्च प्रयासेन समर्थितः ॥
स्त्रीणां च ब्रह्मविद्यायां वेदाचार्येण बोधितः ।
अधिकारश्रुतो ब्रह्मवादिनीनां क्वचित्क्वचित् ॥
स्त्रीणां तु पारिव्राज्यायामधिकारो निरूपितः ।
बोधायनेनेति पुनः मस्करी प्राह धर्मवित् ॥
स्त्रीणां तथैव शूद्राणां दीक्षा आगमबोधिताः ।
तथाच सर्वे सर्वानुग्रहणैकधियो बुधाः ॥
11 एवंविचारे द्विविधो मार्गो निष्कृष्य लभ्यते ।
एकस्त्विदानीं सर्वेषां यथाशक्त्यधिकारकृत् ॥
विशिष्टदेहे विद्यायाः निष्पत्तिमभिधित्सति ।
अन्यो विशुद्धं जन्मैव विद्यारम्भेऽभिवाञ्छति ॥
समाप्तैः फलसिद्धेश्च नियमं नाभिधित्सति ।
अपि मार्गद्वयं सर्वानुग्रहैकप्रवृत्तिमत् ॥
अयं विशेषस्त्वनयोः कल्पयोरवधार्यते ।
तारतम्यव्यवस्थाऽद्ये प्रायस्साम्यमनन्तरे ॥
12 अत्र तत्त्वमिदं बोध्यमधिकारनिरूपणे ।
अधिकारनिषेधोऽयं न स्वभावनिबन्धनः ॥

596 मानमेयरहस्यश्लोकवार्तिके
आचार्यानुग्रहाभावमूलशास्त्रनिबन्धनः ।
इति प्राहुर्महाचार्याः पाराशर्यजये स्फुटम् ॥
मानं रहस्याम्नायस्थं असूयायाः परस्परम् ।
प्रादुर्भावप्रकरणं इति तत्त्वविदां मतम् ॥
तस्मिन् प्रकरणे सर्वाधिकारं ज्ञानमुच्यते ।
ज्ञानपर्युत्थानकर्मा शूद्र इत्यंशदर्शनात् ॥
न पर्युत्थास्याम इति यदाऽवोचन्नसूयया ।
न वो वक्ष्याम इतिच ब्राह्मणा अपिचाब्रुवन् ॥
पर्युत्थानं हि शुश्रूषा तत्तस्मादाभ्यसूयकम् ।
दूरीकरणमित्येवं रहस्यं प्रकटीकृतम् ।
अधिकारविचारोऽयं गम्भीरोऽपि निरूपितः ।
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ॥
(119) कर्मज्ञानतत्त्वम्.
1 अथ कर्मज्ञानतत्त्वं सूक्ष्मदृष्ट्या विचार्यते ।
लौकिका हि विदुः कर्मज्ञानयोर्महदन्तरम् ॥
परीक्षकास्तु तत्त्वज्ञाः प्रविवेकं न कंचन ।
परिभाषामन्तरेण न निरूपयितुं क्षमाः ॥
ज्ञानं कर्मैव सूक्ष्मं स्यादान्तरं स्फुरणं हि तत् ।
बाह्यं तु स्फुरणं लोके क्रिया कर्मेति कथ्यते ॥

कर्मज्ञानतत्त्वम् ५
२ आत्मनः परिणामोऽयं ज्ञानमित्याह जैमिनिः ।
आत्मनः स्रवणं ज्ञानमित्यर्हत्प्रमुखा विदुः ॥
अन्तःकरणवृत्तिस्स्यादिति कापिलपद्धतिः ।
आत्मनोऽनुभवो नाम तस्य स्फुरणमुच्यते ॥
स्फुरणं स्फुरतो धर्मः नित्यो वह्न्युज्ज्वलत्ववत्
तमेव मार्गं प्रायेण द्वैताद्वैतविदो विदुः ॥
आत्मनो धर्मभूतं च नित्यं द्रव्यान्तरं स्थितम् ।
तस्य च प्रसरः ज्ञानं विशिष्टाद्वैतसम्मतम् ॥
बुद्धिनित्यत्ववादश्च योऽसौ शाबरसंमतः ।
स पर्यवस्यत्यत्रेति प्रायो मीमांसका विदुः ॥
ज्ञानं विषयभेदेन भिन्नं व्यापारलक्षणम् ।
तस्याश्रयो बुद्धिरेका नित्येति च समर्थिता ॥
सा च प्रमात्रात्मिकेति न्यायरत्नाकरोदिता ।
यदि बुद्धिः प्रमातृस्था शक्तिरेकेति कथ्यते ॥
तादात्म्यानभ्युपगमे विशिष्टाद्वैतनिर्णयः ।
अत्यन्ताभेदपक्षे तु स्यादद्वैतविनिर्णयः ॥
तादात्म्यपक्षः भाट्टेष्टः शक्तिशक्तिमतोरपि।
स च भर्तृप्रपञ्चेष्टो वादस्स्यादिति निर्णयः ॥
एवं स्थिते विनाशं चाप्युद्भवं च निरन्वयम् ।
आहुर्ये न्यायनिपुणाः ते ज्ञानं गुणमब्रुवन् ॥

मानमेयरहस्यश्लोकवार्तिके
न तेन कश्चिद्विकृतिरात्मनामिति मेनिरे ।
अन्ये कर्मापि विकृतिर्न स्यादिति विदुर्बुधाः ॥
अतो भूतपरिस्पन्दं भूतचैतन्यवादिनः ।
ज्ञानधातुं विजानन्ति स स्पन्दः पारिणामिकः ॥
३ ज्ञानानां कर्मशब्देन ज्ञानशब्देन कर्मणाम् ।
प्रयोगस्य व्यतिकरः प्रायेणाभेदगोचरः ॥
प्रचोदयाद्धिय इति धीशब्दः कर्मवाचकः ।
जातवेदाश्चेति वेदशब्दः कर्मार्थको मतः ॥
जानात्यर्थः करोतिश्च सूत्रितश्शब्ददर्दुरे ।
गत्यर्थाश्चापि बुद्ध्यर्था इति न्यायोऽपि सम्मतः ॥
योऽश्वमेधेन यजते य एनं वेद चेत्यपि ।
समप्रधाननिर्देशस्स्थूलसूक्ष्मनिबन्धनः ॥
तं समन्वारभेते द्वे ये विद्याकर्मणी इति ।
वेदान्तवादोऽप्यत्रैव संधिमिच्छति तत्त्वतः ॥
प्राकट्यं व्यवहारो वा संवित्तिर्विषयस्य वा ।
तथाऽऽवरणभङ्गो वा ज्ञानस्य फलमुच्यते ॥
तथाच तदवच्छिन्नव्यापारो धातुबोधितः ।
ततश्च पाकादितुल्यं ज्ञानं स्यात्सर्वसंमतम् ॥
वाचिकैः पक्षिम्गता मानसैरन्त्यजातिताम् ।
शरीरजैः कर्मदोषैः याति स्थावरतां नरः ॥

प्रत्यक्षप्राबल्यवादः 59
इत्यत्र मानसं कर्म ज्ञानं हि मनुनोदितम् ।
उपासनात्मके कर्मणीतिच क्वचिदुच्यते ॥
4 ततः कर्माङ्गकं ज्ञानं ज्ञानाङ्गं कर्म चेत्यपि ।
विवादोऽपि स्थूलसूक्ष्मभेदात्प्राधान्यलिप्सया ॥
ततश्च विस्तरस्तस्य स्फुट एवाहि धीमताम् ।
इत्थं तत्त्वं सूक्ष्मदृष्ट्या सूचितं बुद्धिकर्मणोः ॥
अनाग्रहदृशामत्र सामरस्यं निराकुलम् ।
परिज्ञानाद्भवेन्मुक्तिरेतदालस्यलक्षणम् ॥
आक्षिपात्रं भवेद्विद्वान् कर्मणामिति कीर्तनम् ।
प्राधान्यतोऽतिवादास्स्युरिति सर्वं समंजसम् ॥
(120) प्रत्यक्षप्राबल्यवादः.
1 प्रमाणानां विरोधो हि मिथस्संपरिदृश्यते ।
प्रत्यक्षयोरागमयोः तथाचैवानुमानयोः ॥
प्रत्यक्षागमयोश्चापि तथाऽध्यक्षानुमानयोः ।
तथाऽनुमानागमयोः अन्यत्राप्येवमूह्यताम् ॥
तत्र प्राबल्यदौर्बल्यचिन्तेत्थं तीर्थकृन्मता ।
तत्र प्रत्यक्षैकमानवादिसिद्धान्तसंग्रहः ॥
प्रत्यक्षं हि प्रमाणानां प्रथमं सर्वसम्मतम् ।
तत्रापि दुष्टकरणमूलं नार्हति मानताम् ॥

मानमेयरहस्यश्लोकवार्तिके
यादृच्छिकात्तु संवादाल्लिङ्गादौ मानताभ्रमः ।
वस्तुतस्तादृशी बुद्धिः प्रत्यक्षेऽन्तर्भवत्यपि ॥
औषधायस्सूर्यचन्द्रकान्तादिन्यायतोऽखिलः ।
विषघ्नमन्त्रयन्त्रादिफलसंवाद इष्यते ॥
प्रत्यक्षं तदधीनं चाप्यन्वयव्यतिरेकयोः ।
दर्शनं चावलम्ब्योत्थं शास्त्रं लोकायतं मतम् ॥
लोकसिद्धानुमानादौ क्वचित्प्रामाण्यमिष्यते ।
नैतावताऽतीन्द्रियाणामर्थानां सिद्धिसंभवः ॥
नीतिशास्त्रं स्तेयशास्त्रं कामशास्त्रं च तादृशम् ।
समन्वेत्यत्र सिद्धान्ते प्रत्यक्षैकावलम्बिनि ॥
नैवार्हतीदं प्रत्यक्षं बाधं केनापि हेतुना ।
प्रत्यक्षेण पुनर्बाधः प्रस्फुटस्सर्वसंविदाम् ॥
२ इति प्रत्यक्षसिद्धान्तेऽध्यक्षप्राबल्यनिर्णयः ।
ये पुनः कल्पनापोढनिर्विकल्पैकवादिनः ॥
तेषां तु निर्विकल्पस्य प्राबल्यं पूर्ववन्मतम् ।
तत्साधनं च लिङ्गेन निश्चयेनेत्यनूदितम् ॥
निर्विकल्पस्य विषयः स्वलक्षणमितीरितम् ।
शब्दलिङ्गेन्द्रियभवः विकल्पः दुर्बलो मतः ॥
निर्विकल्पस्य विषयं सन्मात्रं ये विदुर्बुधाः ।
शब्दादप्यस्य चोत्पत्तिं निर्बाधामुपयन्ति ते ॥

प्रत्यक्षप्राबल्यवादः 60
3 प्रत्यक्षा द्वैतसिद्धान्ते ऽध्यक्षप्राबल्यवर्णनाम् ।
हसन्ति लौकिका यस्मात्स्वयं स्वकुचमर्दनम् ॥
सर्वेष्वपि प्रमाणेषु नूनमाभाससंभवः ।
तस्य मूलं च करणदोष इत्यपि निर्णयः ॥
तद्विज्ञानं तु बाधादिनिबन्धनमिति स्थितम् ।
क्वचित्स्वारसिको बाधः कुत्राचिद्यौक्तिको मतः ।
प्रथमश्शुक्तिरूप्यादौ ज्वालाभेदे त्वनन्तरः ।
प्रायशो विभ्रमा एते सर्वेषामात्मसाक्षिकाः ॥
शुक्तिकारजतभ्रान्तिः मृगतृष्णाभ्रमस्तथा ।
पीतश्शङ्खः द्वौ च चन्द्रौ स्थाणुः पुरुष इत्यपि ।
अयो दहति वक्त्रं च मलिनं स्फटिकोऽरुणः ।
स्वप्नो माया च गन्धर्वनगरं चेति विभ्रमाः ॥
देहात्मविभ्रमः खे च तलमालिन्यविभ्रमः ।
रवीन्दुमण्डलादौ च ख्यातः प्रादेशिकभ्रमः ॥
प्रात्यक्षिकभ्रमा एते एवं मानान्तरेष्वपि ।
परीक्षकाणां विदिताः तत्रैवं निर्णयक्रमः ॥
इन्द्रियेण यथा ज्ञानं तथा लिङ्गादिना सदा ।
ज्ञानमुत्पद्यते पुंसां न विशेषोऽत्र कश्चन ॥
निमित्तशिल्पमन्त्रायुर्ज्योतिस्स्वप्रहृदादिषु ।
अन्वयव्यतिरेकादेरगम्ये विषये बुधाः ॥
M.R. 76

602 मानमेयरहस्यश्लोकवार्तिके
संवाददर्शनात्प्रायः विषये पारलौकिके ।
अतिशङ्कां न कुर्वन्ति श्रद्दधानाः श्रुतिस्मृतीः ॥
असत्यपि परे लोके त्याज्यं कर्माशुभं विदुः ।
यदि न स्यात्तदा किं स्यादस्तिचेन्नास्तिको हतः ।
यादृच्छिकश्चेत् संवादः क्वचिद्बाधादिदर्शनात् ।
प्रत्यक्षेऽपि तथा ज्ञातुं शक्यते युक्तिचिन्तकैः ॥
तस्याप्यप्रामाण्यपक्षे व्यवहारो विलीयते ।
सर्वत्र भ्रान्तिक्लृप्तिश्चेत्कल्पको न विशिष्यते ॥
प्रत्यक्षमनुमानं च यथा मानं तथाऽऽगमः ।
उपजीव्यविरोधेन ज्येष्ठं ताभ्यां न हन्यते ॥
तत्र यत्सावकाशत्वात् अन्यथासिद्धिमश्रुते ।
तद्दुर्बलं स्यान्निरवकाशं तु प्रबलं मतम् ॥
अनन्यथासिद्धमेतत्, अवकाशस्त्वसौ मतः ।
विषयान्तरलाभाख्यः क्वचित्स्यात्पदहोमवत् ॥
अथाप्रमाणकोट्यन्तर्भावः रज्जूरगादिषु ।
एवं प्रायेण विश्वस्य सत्यतावादिनो विदुः ॥

  • अथ प्रपञ्चमिथ्यात्ववाद्यविद्याविदां मते ।
    प्राबल्यरीतिरेषोक्ता निर्विशेषपरश्रुतेः ॥
    दोषमूलप्रसूतत्वादन्यथासिद्धिसंभवात् ।
    भेदावलम्बाध्यक्षं शास्त्रबाध्यमितीर्यते ॥

प्रत्यक्षप्राबल्यवादः 60
तत्र दोषोऽनादिभेदवासनेति विनिर्णयः ।
निषेद्धृशास्त्रप्रामाण्यमन्यथानोपपद्यते ॥
अनादिनिधनाच्छिन्नसंप्रदायसमागतम् ।
संभावनानर्हदोषगन्धं शास्त्रं प्रतीयते ॥
ज्योतिष्टोमेनेतिशास्त्रं यत्तु भेदावलम्बि तत् ।
बाध्यते मोक्षशास्त्रेण परेणापच्छिदानयात् ॥
मोक्षशास्त्रेऽपि सगुणब्रह्मणो बोधकं तु यत् ।
बाध्यते निर्गुणपरशास्त्रेणापि परेण तत् ॥
5 अथ प्रकारान्तरेण विरोधविनिवारणा ।
असन्निकृष्टविज्ञानं शब्दविज्ञानतश्च यत् ॥
तच्छास्त्रमित्यौपवर्षं लक्षणं शबरोदितम् ।
असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ॥
ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपिवा ।
इति कौमारिलव्याख्या पठ्यते श्लोकवार्तिके ॥
तद्विरोधात्सानुशयैः अन्यथा प्रोच्यते यथा ।
प्रत्यक्षादिविरोधे हि बलीयश्शास्त्रमिष्यते ॥
न विरोधं प्रपश्यामोऽध्यक्षं सन्मात्रगोचरम् ।
भेदे किंचिन्न प्रमाणं नैपुण्येन निरूपणे ॥
घटोऽस्तीतिपटोऽस्तीतिप्रतीतिव्यवहारयोः ।
अस्तित्वमध्यक्षभास्यं भ्रान्तिभास्यं घटादिकम्

604 मानमेयरहस्यश्लोकवार्तिके
अस्तित्वमेव सामान्यं घटादिर्भेदलक्षणः ।
भिन्नकालज्ञानफलौ व्यवहारौ तयोर्मतौ ॥
शास्त्रं निषेधरूपेण तन्मात्रे पर्यवस्यति ।
नातः प्राप्तार्थत्वमूलमानर्थक्यं प्रसज्यते ॥
इत्यस्य विस्तरः प्रायश्श्रीभाष्यादावनूदितः ।
स निर्विकल्पैकमानवादसिद्धान्तवर्त्मगः ॥
6 विशेषमात्रविषयनिर्विकल्पकपद्धतौ ।
सामान्यमात्रविषयविदामाक्षेपसंग्रहः ॥
विचित्रवासनासिद्धयै विशेषोपगमो वृथा ।
विशेषाणां वासनासु हेतुताया असंKeyभवात् ॥
तथात्वे शुक्तिरजतवासनादेरसंभवः ।
तत्तद्विषयविज्ञप्तिप्रवाहो हेतुरिष्यते ॥
आपणे सत्यरजतं यद्यप्यस्ति तथापि हि ।
मिथ्यार्थज्ञानहेतुत्वं वासनासूरीकृतम् ॥
पूर्वपूर्वभ्रमोपात्तैस्संस्कारैर्विविधैरिह ।
विकल्पवैचित्र्यसिद्धौ किं दृष्टैः कल्पितैश्च किम्
अतो विकल्पविषयाः विचित्रा न स्वलक्षणाः ।
कल्पने वा लाघवाय विचित्राद्वैतमिष्यताम् ॥
नचानेकस्वभावत्वमेकस्यात्र विरोधकृत् ।
रूपगन्धरसस्पर्शस्वभावाद्यणुवादिनाम् ॥

शास्त्रप्राबल्यम् 60
तस्माच्छुद्धं विचित्रं वाऽद्वैतं स्यात्तत्र गोचरः ।
विस्तरश्शतदूषण्यां वाद एकादशे कृतः ॥
(121) शास्त्रप्राबल्यम्.
1 अथेदानीमुक्तियुक्त्योः बलाबलविचिन्तना ।
केचिदुक्त्येकशरणाः केचिद्युक्त्येकसंश्रयाः ॥
ये पूर्वोत्तरमीमांसानिष्णाताः श्रुतिसंश्रयाः ।
शास्त्रानुकूलां युक्तिं ते मानमिच्छन्ति नान्यथा ।
येतु वैशेषिकास्सांख्याः नैयायिकमुखाः परे ।
सर्वे ते युक्तिशरणाः युक्त्यधीनागमान्विताः ॥
उभयेषामपि मतं तत्तदुक्त्या प्रकाश्यते ।
तत्त्वं ततश्चोक्तियुक्त्योः स्पष्टमत्र भविष्यति ॥
चतुर्विधास्ते सुगताः दिक्षु तादृक्षु निष्ठिताः ।
ऊर्ध्वायां दिशि चार्वाकः सर्वेऽप्यन्तरवस्थिताः॥
तत्र प्रत्यवतिष्ठन्ते ये त्वेकदिशि संस्थितान् ।
समाक्रान्ता भविष्यन्ति ते ह्यन्यदिगवस्थितैः ॥
नहि शक्यं लङ्घयितुं पञ्जरान्तरवस्थितिः ।
केवलं युक्तिचातुर्यैरित्येके श्रुतिमाश्रिताः ॥
2 एतदेव वचः प्रोचुः पूर्वे पूर्वेभ्य इत्यपि ।
ब्राह्मणे श्रूयते चैवं तथैवो पनिषत्स्वपि ॥

606 मानमेयरहस्यश्लोकवार्तिके
अवरेण नरेणैष प्रोक्तो ज्ञातुं न शक्यते ।
अनन्यप्रोक्त एतस्मिन्गतिर्नास्त्यन्यतो यतः ॥
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥
अस्तीत्येवोपलब्धव्यः तत्त्वभावेन चोभयोः ।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥
एषा तर्केण न मतिरापनेयेति चाब्रवीत् ।
मृत्युः कठोपनिषदि शिष्याय नचिकेतसे ॥
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ।
इत्थं तलवकारीयैः श्रूयते चापि वाजिभिः ॥
चोदनालक्षणं धर्मं जैमिनिस्तदसूत्रयत् ।
ब्रह्मापि शास्त्रयोनीति ह्यब्रवीद्बादरायणः ॥
३ ततस्तर्काप्रतिष्ठानादित्यप्याह स्वयं स्फुटम् ।
युक्तिस्त्वनिर्णीतबलाबलेति न्यायवित्तमाः ॥
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥
बहुकृत्वोऽपि वस्त्वात्मा युक्त्यैव परिनिश्चितः ।
देशकालादिभेदेन ज्ञायते पुनरन्यथा ॥
वेदशास्त्राविरोधी च तर्कश्चक्षुरपश्यताम् ।
रूपमात्राद्धि वाक्यार्थः केवलात्रावतिष्ठते ॥

वाक्यात्प्रकरणादर्थादौचित्याद्देशकालतः ।
शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात् ॥
शब्दानामेव सा शक्तिः तर्को यः पुरुषाश्रयः ।
स शब्दानुगतो न्यायोऽनागमो ह्यनिबन्धनः ॥
इति भर्तृहरिः प्राह वाक्यपद्यां विचक्षणः ।
श्रुत्यर्थस्यानुकूलो यः स न्यायस्तदभीप्सितः ॥
तस्माच्छब्दः तर्कनिष्ठ इति नैवावधारयेत् ।
तात्पर्यनिर्णयार्थो यस्तर्कोऽसौ शब्दलक्षणः ॥
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥
वाच्यार्था निहितास्सर्वे वाङ्मूला वाग्विनिस्सृता।
तां तु यस्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥
तस्माद्विरोधे धर्मस्य निश्चित्य गुरुलाघवम् ।
यतो भूयस्ततो विद्वान् कुर्याद्धर्मविनिर्णयम् ॥
मनुव्यासप्रभृतयः क्रमादेवं वचोऽब्रुवन् ।
दुस्तर्को दूरतस्त्याज्यः विपरीतार्थबुद्धिकृत् ॥
तस्माद्विरुद्धसंस्कारशिक्षितानां परस्परम् ।
विवादो नहि विश्राम्येद्युगानामयुतैरपि ॥
अतो विरुद्धसंस्कारोपरोधायैव भावना ।
संप्रदायानुरोधेनाभ्यसनीयेति देशना ॥

608 मानमेयरहस्यश्लोकवार्तिके
यावद्यावद्विवादाय मुक्तकं दीयते मनः ।
अनवस्थादिदोषेण तावत्तावद्विहन्यते ॥
अतएवाग्रहाविष्टाः सहसा नोपदेशतः ।
स्वमतं न त्यजन्तीति संशयः प्राक्प्रदर्श्यते ॥
संदिग्धास्ते तु सुकराः परिवर्तयितुं नराः ।
इत्येवं रूढसंस्कारः शिथिलीक्रियते बुधैः ॥
4 ननु सर्वत्र सिद्धान्ते प्रायेण व्यवहारतः ।
लाघवन्यायसहितात्पदार्थपरिशुद्धयः ॥
स एव लाघवन्यायः लौकिकस्सर्वसम्मतः ।
पश्वादयोऽप्यार्जवेन धावन्ति ग्रासतत्पराः ॥
एकमात्राराघवेन पुत्रोत्सवसुखं बुधाः ।
मन्यन्त इति सिद्धान्तः वैयाकरणसम्मतः ॥
तथा लाघवतर्कानुगृहीतो यः प्रवर्तते ।
विचारस्स हि मीमांसेत्याहुर्वैदिकसूरयः ॥
लाघवेनैव तर्केण पदार्थानां व्यवस्थितिम् ।
निरूपयन्ति धीमन्तः तार्किका अपि यौक्तिकाः
सैषा लाघवबुद्धिस्तु वासनामनुवर्तते ।
वासना नाम संस्कारः स दृढो यत्र यादृशः ॥
तादृशस्तत्र फलति नहि निम्बो मधुद्रवः ।
तस्माद्वासनया वस्तुसिद्धिर्बाह्येति सिध्यति ॥

5 अत्रोच्यते संप्रदायो नाम सर्वगुरुर्महान् ।
परंपरासमायातोपदेशस्सोऽभिधीयते ॥
आम्नाय इत्यादिशब्दाः तत्पर्यायाः प्रकीर्तिताः ।
सत्संप्रदायराहितशास्त्रैरर्थस्य निर्णयः ॥
दुष्करः तत्सदाचार्यसंप्रदायपरिग्रहः ।
शास्त्रामूलस्संप्रदायश्शास्त्राननुमतोऽपिवा ।
भ्रमादिसंभावनया बाह्यतुल्यो मतो बुधैः ॥
स च सन्नित्यसंश्चेति द्विविधः प्रथमोऽत्र नः ।
द्वितीयस्तु परेषां स्यात् नियमो हेतुदर्शनात् ॥
अधर्मेन्द्रियदोषाभ्यां दुस्तर्काभ्यासतोऽपिवा ।
दुर्व्याप्तेरनुसन्धानाद्विप्रलम्भकवाक्यतः ॥
तत्त्वाग्रहेण सहितात् अतत्त्वग्रहसम्भवः ।
स एव संप्रदायश्चेत् असंत्स्यादिति नः क्रमः ॥
परेषामथ सिद्धान्ते हेतुदर्शनमुच्यते ।
अनन्यगतिकाः स्वैररसिका जीविकार्थिनः ॥
तथा पाषण्डिसंसर्गाः कुतर्काभ्यासिनोऽलसाः ।
एवमादिप्रसिद्धास्ते सूरिभिः प्रकटीकृताः ॥
हेतवोऽनन्यथासिद्धाः वीक्ष्यन्तां तन्त्रवार्तिके ।
प्रतिमाजल्पनं शाखाभङ्गः पाषाणपाटनम् ॥
इत्यादिभिः कुत्सिताभिः सिद्धिभिर्वञ्चिताः परे ।
M. R. 77

हेतुदर्शनशून्या ये ते सन्त्येव महाजनाः ॥
न महत्ता देशतो वा कालतो वापि शक्तितः ।
आकारतो वा संख्यातः नान्यस्मादपि कारणात् ॥
एवं विशेषं पश्यन्तः तुष्यन्तस्सन्ति वैदिकाः ।
(122) युक्तिप्राबल्यम्.
1 एवं वैदिकसिद्धान्तसंप्रदायस्य संग्रहः ।
अथ यौक्तिकसिद्धान्तहृदयं संप्रकाशयते ॥
अभ्यासात्प्रतिभाहेतुः शब्दः सर्वैरपि स्मृतः ।
बालानां च तिरश्चां च यथार्थप्रतिपादने ॥
आद्यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् ।
स्थानानामभिघातश्च न विना शब्दभावनाम् ॥
प्रमाणत्वेन तां लोकः सर्वः समुपगच्छति ।
व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात् ॥
स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलः कथम् ।
जन्त्वादयः कुलायादेः करणे शिक्षिताः कथम् ॥
आहारप्रीतिविद्वेषप्लवनादिक्रियासु कः ।
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥
इतिहि प्रतिभावादिवार्ताक्षौदुम्बरायणाः ।
प्रतिभायास्तु माहात्म्यं वर्णयन्तीति विश्रुतम् ॥

वाक्यपद्यामपि विधिविवेके चाभिसूचितम् ।
हरिणा मण्डनेनापि सर्वसारार्थदृश्वना ॥
तस्मात्सर्वोऽभ्युपगमः प्रतिभामूल इष्यते ।
न शब्दः प्रतिभाहेतुः स्वातन्त्र्यमुपगच्छति ॥
शास्त्राणां चापि तात्पर्यनिर्णयोऽभ्यासमूलकः ।
तस्माद्यौक्तिक एवार्थः स्थापितश्शब्दमूर्धनि ॥
शब्दपृष्ठस्थितन्यायसहस्राधिक्रियात्मके ।
शास्त्रेऽपि न्यायलभ्योऽर्थः शास्त्रसिद्ध इतीष्यते॥
२ अथ शास्त्रेण सिद्धोऽर्थो यदि युक्त्या दृढो भवेत् ।
एवं स्यात्कृपणश्शब्दः नेष्टोऽसंप्लववादिनाम् ॥
अत्रोदाहरणं स्पष्टमेषोऽप्यर्थो भविष्यति ।
वेदान्तसिद्धान्ताक्षेपः तत्त्वटीकानिरूपितः ॥
स्वप्रकाशा मतिः धीत्वात् दृश्यत्वादिमतं मृषा ।
इत्याद्यैरेव सिद्धेऽर्थे कृतं त्रय्यन्तचिन्तया ।
ननुचोपासनादीनां सिद्धयै तच्चिन्तनं यदि ।
तच्चेदद्वैतधीसिद्धयै वृथा स्यात्तद्विरोधतः ॥
फलान्तरार्थं तच्चिन्ता यदिष्येत तथासति ।
मोक्षप्रधानशास्त्रत्वं गतं शारीरकस्य तत् ॥
श्रुतिवाक्यप्रसूता धीर्बाधिका नानुमानिकी ।
इति शक्यं न वदितुं अदृष्टस्यानपेक्षणात् ॥

12 मानमेयरहस्यश्लोकवार्तिके
अनुमानाच्च शब्दाच्च रज्जुसर्पादिविभ्रमे ।
अविशेषेण बाधो हि दृष्टस्तद्वदिहापि च ॥
प्रत्यक्षं शब्दजन्यं तु दुस्साधं चापि निष्फलम् ।
परोक्षादपि शब्दोत्थाद्बाधसंभवदर्शनात् ॥
न चानुमानाशक्तस्य वाक्यमित्यपि युज्यते ।
सर्वमानान्तरानर्हे शास्त्रप्रामाण्यसाधनात् ॥
अनेकनियमोपेतवाक्यचिन्ताविधेर्वरम् ।
लोकदृष्ट्यनुसारेण युक्तिचिन्तेति निर्णयः ॥
3 ब्रह्मापि जगतो हेतुः युक्तिभिः किल साध्यते ।
प्रधानं जगतो हेतुः प्रसिद्धं ह्यानुमानिकम् ॥
श्रोतव्यश्चाथ मन्तव्य इति तर्कसहायताम् ।
श्रुतिरेव स्वयं प्राह तस्मात्तर्को विशिष्यते ॥
केवलं शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः ।
युक्तिहीनविचारे तु धर्महानिः प्रजायते ॥
इत्थं बृहस्पतिः प्राह स्मृतितन्त्रे व्यवस्थितिम् ।
पूर्वापरानुमानेन लोको युक्तौ प्रतिष्ठितः ॥
अबलाबालगोपालहालिकप्रमुखा अपि ।
बुद्ध्यन्ते नियतादर्थादर्थान्तरमसंशयम् ॥
अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा ।
लोकयात्रेति लोकास्स्युः चित्रिता इव निश्चलाः॥