मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
नियोगवाक्यार्थः 50
4 नित्याधिकारे तत्कर्म वेदोऽसौ शुचिजीविनः ।
विधत्तेऽतोऽफलमपि कार्यमित्येव कुर्वते ॥
विहिताकरणायत्तप्रत्यवायापनुत्तये ।
कर्तव्यमिति सिद्धान्तः भाट्टैः पर्यायतः कृतः ॥
तदेकदेशिनां पण्डापूर्वमिष्टं फलात्मकम् ।
स्वतएव पुमर्थत्वं तस्य पण्डत्वमिष्यते ॥
5 कामाधिकारे तु नियोज्यान्यथाऽनुपपत्तितः ।
फलक्लृप्तिः तत्प्रवृत्तिस्तस्माल्लिप्सार्थलक्षणा ॥
अतएवाधर्मतेति श्येनादेरिति निर्णयः ।
अर्थशब्दः प्रयुक्तोऽतः तादृशानर्थवारकः ॥
नित्येतिकर्तव्यतांशे शास्त्रमेव प्रवर्तकम् ।
अतोऽग्नीषोमीयहिंसा नाधर्म इति ते विदुः ॥
6 प्रतिषेधाधिकारेऽपि प्रत्यवायो न कल्प्यते ।
निषेध्यविषयादेव लब्धत्वादधिकारिणः ॥
तत्रास्मिन् कल्प्यमानेऽपि नरकादिफलोदये ।
अवैधत्वं प्रसज्येत न ह्याकाङ्क्षेदृशी विधेः ॥
विधेरपेक्षे द्वे एव नियोज्यविषयौ प्रति ।
तत्पूरणेन तृप्तस्तु न वाञ्छति ततोऽधिकम् ॥
नियोज्यस्तावदेतावान् क्रुद्धोऽरिहननोद्यतः ।
विषयस्तन्निवृत्तिस्स्यान्नियोगोऽतोऽत्र पुष्कलः ॥
502 मानमेयरहस्यश्लोकवार्तिके
कथं नरो निवर्तेत प्रत्यवायभयाद्विना ।
मा निवर्तिष्ट, विधिना तावदुक्तं निवर्तनम् ॥
प्रवृद्धतररागान्धः प्रत्यवायेऽपि कल्पिते ।
न निवर्तेत इत्येवं किं विधेरप्रमाणता ॥
फलं भवतु मा वा भूत् पुरुषोऽपि प्रवर्तताम् ।
मा प्रवर्तिष्ट वा शास्त्रं नियुङ्क्ते त्वधिकारिणम् ॥
7 कामप्रध्वंससिद्धान्ते सर्वं नैमित्तिकं मतम् ।
स्वर्गादिकामनानां तु निमित्तत्वमुपाश्रितम् ॥
स्त्रीकामो निष्कृतिं कुर्यादित्यादिषु निमित्तता ।
प्रतीयते नतु खलु फलसाधनता क्वचित् ॥
न पारलौकिकस्स्वर्गः किन्त्वैहिकसुखं सुखम् ।
धनधान्यादिकाङ्क्षिश्चेत्पुंसामिच्छा सुखे भवेत् ॥
यागेन तद्व्यये जाते कामः प्रध्वंसते स्वयम् ।
अतएव क्षत्रियाणां विश्वजिद्यागशासनम् ॥
तत्रापि स्वर्गक्लृप्तिस्तु जैमिनेर्दैन्यलक्षणा ।
तथैव रात्रिसत्रेऽपि वेदो हि प्रभुसम्मितः ॥
प्रत्यवायपरीहारोऽप्यत्र कार्पण्यलक्षणः ।
शंय्वन्ताधिक्रियान्यायो नैतत्सिद्धान्तसम्मतः ॥
नित्यं नैमित्तिकं कर्म कर्तव्यमिति वैदिकः ।
पन्थाः पुराणोऽयमत्र गीता भगवता स्वयम् ॥
कार्यवाक्यार्थः 503
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
स कालेनेह महता योगो नष्टः पुरातनः ॥
कर्मण्येवाधिकारस्ते कुरु कर्मैव तत्पुनः ।
यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् ॥
अन्यत्र विस्तरस्तस्य द्रष्टव्योऽस्माभिरीरितः ।
अत्रापिच पुरः स्पष्टः फलकाण्डे भविष्यति ॥
(103) कार्यवाक्यार्थः.
1 प्रभाकरगुरूणान्तु कार्यवाक्यार्थवादिनाम् ।
वाक्यार्थसंग्रह्रसोऽयं विविक्तप्रतिपत्तये ॥
आस्तां तावत्क्रिया लोके गमनागमनादिका ।
अन्ततस्तनपानादितृप्तिकारिण्यपि क्रिया ॥
सा यावन्मम कार्येयमिति नैवावधार्यते ।
तावत्कदाऽपि लोकेऽत्र प्रवृत्तिर्न भविष्यति ॥
पुंसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः ।
प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥
कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः ।
विपरीतं त्वकर्तव्यमिति तद्विषये मतिः ॥
इत्याहुर्मण्डनाचार्याः गुरुभिस्तन्नचेष्यते ।
कार्यता कृतिसाध्यत्वं फलसाधनता पुनः ॥
504 मानमेयरहस्यश्लोकवार्तिके
कारणत्वं फलोत्पादे भिद्येते ते परस्परम् ।
किंच स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् ॥
फलसाधनता तत्र कारणं तेन कार्यता ।
तद्भावभाविनी नित्यं तदात्मैव प्रतीयते ॥
2 कार्ये मानान्तरावेद्ये क्रियादिव्यतिरेकिणि ।
व्यवहारात एवाहुः व्युत्पत्तिं प्रेरकात्मनि ॥
शब्दान्तराणि स्वार्थेषु व्युत्पद्यन्ते यथैव हि ।
आवापोद्वापभेदेन तथा कार्ये लिङादयः ॥
कार्यमेव हि कर्तॄणां ज्यायस्समकनीयसाम् ।
भेदात्प्रैषामन्त्रणाध्येषणादिव्यपदेशभाक् ॥
कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयते ।
तच्च मानान्तरेणापि वेद्यमोदनपाकवत् ॥
एवं कार्यात्मकेऽप्यर्थे व्युत्पद्यन्ते लिङादयः ।
तदन्वितेषु स्वार्थेषु तथा शब्दान्तराण्यपि ॥
3 यागानुष्ठानतः कार्यमात्मानं लब्धुमर्हति ।
नच कर्त्रा विना तस्यानुष्ठानमुपपद्यते ॥
न विना चाधिकारेण कर्तुर्लाभः क्वचिन्मतः ।
नियोज्यमन्तरा क्वापि नाधिकारः प्रसिद्ध्यति ।
नकदाप्यविशिष्टोऽत्र नियोज्यो ह्यवकल्पते ।
एवं विशेषणतया स्वर्गस्तत्रावकल्पते ॥
कर्तृत्वमधिकारित्वं नियोज्यत्वमिति स्थितम्।
अवस्थात्रितयं तत्रानुष्ठातृत्वं हि कर्तृता॥
अधिकारः स्वकीयत्वबुद्धिमत्त्वं हि कर्मणि।
कार्ये स्वकीयत्वबुद्धिमत्ता तु स्यान्नियोज्यता॥
4 संविचार्यमिदं त्वत्र तत्कार्यं किं क्रियात्मकम्।
उत तद्व्यतिरेकीति, तत्र लोकानुसारतः॥
लिङादिस्तत्र कार्यं चेत्क्रियामेवावबोधयेत्।
समन्वयो नियोज्येन तदानीं नावकल्पते॥
नियोज्यस्य च कार्यं यत्स्वकीयत्वेन बुद्ध्यते।
स्वर्गादिः कामयोगाच्च साध्यत्वेनैव गम्यते॥
क्रिया हि क्षणिकत्वेन न कालान्तरभाविनः।
स्वर्गादेस्साध्यमानस्य न क्षमा जननं प्रति॥
इष्टस्याजनिका सा च नियोज्येन फलार्थिना।
कार्यत्वेन न संबन्धमर्हति क्षणभङ्गिनी॥
तस्मान्नियोज्यसंबन्धसमर्थं विधिवाचिभिः।
कार्यं कालान्तरस्थायि क्रियातो भिन्नमुच्यते॥
क्रियादिभिन्नं यत्कार्यं वेद्यं मानान्तरैर्न तत्।
अतो मानान्तरापूर्वमपूर्वमिति गीयते॥
5 कार्यत्वेन नियोज्यं च स्वात्मनि प्रेरयन्नसौ।
नियोग इति मीमांसानिष्णातैरभिधीयते॥
6 कार्यस्यैव प्रधानत्वाद्वाक्यार्थत्वं च युज्यते ।
वाक्यं तदेव हि प्राह नियोज्यविषयान्वितम् ॥
आत्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये ।
कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः ॥
अतः पुरुषकारश्च दैवं च फलसाधनम् ।
मुख्यं दैवमपूर्वं स्यात् सहकारि तु पौरुषम् ॥
एवं नित्याधिकारादौ जीवनाद्येऽवधारिते ।
आत्मीयकार्यावगमात्प्रवृत्तिरुपपद्यते ॥
फलं फलतया नान्वीयते किंत्वधिकारिणः ।
विशेषणतयैवेति प्राभाकरविनिश्चयः ॥
एवं कामाधिकारार्थपर्यालोचनयोत्थिता ।
व्युत्पत्तिस्सर्ववाक्यार्थप्रतिपत्तौ निबन्धनम् ॥
तस्माल्लोकानुसारेण व्युत्पत्तिः कार्यमात्रके ।
तस्य त्वपूर्वरूपत्वं वेदवाक्यविमर्शजम् ॥
7 ननु लोकविरुद्धत्वं पक्षेऽस्मिन्नपि दृश्यते ।
सर्वदैव यतो लोके क्रियाकार्यं प्रतीयते ॥
यदि स्यातां विरोधस्स्यात् क्रियाकार्यत्वगोचरौ
प्रतिपत्तिप्रयोगौ तौ कार्येऽपूर्वेऽपि लौकिके ॥
प्रमाणान्तरगम्यं हि लोकश्शब्दैर्विवक्षति ।
क्रियाकार्यत्व एवातः प्रयोगो लक्षणान्वितः ॥
कार्यवाक्यार्थः ५०
अभिधेयं लिङादीनामपूर्वं कार्यमेव तत् ।
अपूर्वेण क्रियाकार्यं नित्यं संबद्धमित्यतः ॥
लिङादयः क्रियाकार्ये बुधैर्लाक्षणिका मताः ।
तत्रान्विताभिधावादे सर्वं लाक्षणिकं मतम् ॥
लक्षणानाभिविज्ञानं मुख्यार्थानवधारणात् ।
येतु मुख्यार्थकुशलाः तेषां लाक्षणिकत्वधीः ॥
तस्मान्मानान्तरावेद्यं कार्यमर्थान्तरान्वितम् ।
वेदार्थ इति सिद्धान्तः प्रभाकरगुरोर्मतः ॥
वाक्यार्थमातृकायां च श्रीभाष्येऽपिच विस्तरः ।
शाब्दबोधक्रमस्त्वेषः कार्यवाक्यार्थवादिनाम् ॥
8 यजेतेति पदात्कार्यप्रधानं यागगोचरम् ।
स्यात्कार्यं यागविषयमिति बोधस्स चादिमः ॥
ततश्च यागविषयं कार्यं स्यात्स्वर्गसाधनम् ।
इत्यर्थाध्याहाराविद्भिः द्वितीयो बोध इष्यते ॥
स्वर्गकामपदश्रुत्या स्वर्गकामनियोज्यकम् ।
प्रागुक्तद्विदळं कार्यमिति स स्यात्तृतीयकः ॥
ततश्च स्वर्गकामीयकृतिसाध्यमिति क्रमात् ।
प्रागुक्तत्रिदळं कार्यमिति बोधस्तुरीयकः ॥
नापूर्वे स्वर्गहेतुत्वं यागे तेन विना भवेत् ।
इति चानुपपत्तेस्तु प्रतिसन्धानसंभवे ॥
स्वर्गकामकृतेस्साध्यः स्वर्गकामनियोज्यकः ।
स्वर्गस्य साधनं याग इति बोधस्तु पश्चिमः ॥
यद्यप्यनुपपत्तेस्तु प्रतिसन्धानमुच्यते ।
तदुपादानमित्युक्तं धीरौपादानिकी ह्यसौ ॥
विध्याक्षेप उपादानं श्रुतार्थापत्तितः पृथक् ।
सा स्यादभिहितापर्यवसानाऽश्रुतकल्पना ॥
अभिधानानवसितिः उपादानमितीर्यते ।
तेनौपादानिकी त्युक्ता फलसाधनतामतिः ॥
इति प्रभाकरमतं वादारम्भसमर्थने ।
वादावळावन्ववादीदनन्तार्यबुधोत्तमः ॥
(104) निषेधवाक्यार्थः.
1 नञर्थस्य विचारेऽपि किंचिदत्र प्रकाश्यते ।
त्रिविधा हि नञो वृत्तिः कुमारिलमुखेरिता ॥
पर्युदासः तथाऽभावः प्रतिषेधस्तथेति च ।
पर्युदासस्स विज्ञेयः यत्रोत्तरपदेन नञ् ॥
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ।
इति कैश्चिन्निरुक्तं हि तत्रार्थः फलितस्त्वसौ ॥
अन्योन्याभावबोधे तु पर्युदास इतीर्यते ।
अत्यन्ताभावबोधे तु प्रसज्यप्रतिषेधवाक् ॥
निषेधवाक्यार्थः
नेक्षेतोद्यन्तमादित्यं तथाचाब्राह्मणं नय ।
इत्यादावीक्षणाद्विप्रात् अन्यद्वस्त्ववगम्यते ॥
ईक्षणव्यतिरिक्ता हि क्रिया तत्राप्यपेक्षिता ।
प्रत्यासत्तेर्न संकल्पमतिक्रम्यावगम्यते ॥
तथैव क्षत्रियाद्यर्थः पर्युदस्तः प्रतीयते ।
नामधात्वर्थयोगी च नञ्तोऽन्यार्थगोचरः ॥
2 लिङाद्यन्याख्यातयोगे चाभावार्थः प्रतीयते ।
तत्र चाज्ञातसंदिग्धविपरीतार्थवारणम् ॥
अस्तिनास्तीतिसंदेहे पाक्षिकास्तित्वबोधनम् ।
निवर्त्यते नञा यद्वा नास्तितैवोच्यते सती ॥
निवर्ततेऽस्तिताबुद्धिः मृगतृष्णादिबुद्धिवत् ।
अज्ञानादिनिवृत्तिश्च दृष्टा मानान्तरेऽपि हि ॥
3 विधिना युज्यते यत्र न हन्यान्न पिबेदिति ।
नात्राभावार्थता यस्मात्प्राप्तं हि प्रतिषिध्यते ॥
रागादिना यदि प्राप्तं पानं च हननं च वा ।
कथं वा कथ्यते तत्राभावो भावनिवर्तितः ॥
यदि नानुष्ठास्यतेऽत्र प्राप्तिर्नैव प्रसिध्यति ।
तस्मादत्र निषेधार्थतत्त्वमेतन्निरूपितम् ॥
सच केशेषु पुरुषं गृहीत्वा विनिवर्तयन् ।
चिकीर्षिताच्च व्यापारात् अभावं स्थापयत्यपि ॥
अन्यथैव प्रवर्तन्ते भावाभावधियोऽपराः ।
व्यवस्थितबहिर्वस्तु परिच्छेदफलात्मिकाः ॥
अन्यथाऽनागतोत्पाद्यभावप्रेरणवारिका ।
अन्तस्संकल्पमूलात्मा वृत्तिर्विधिनिषेधयोः ॥
एतदुक्तं भवत्यत्र न्यायरत्नाकरोदितम् ।
यथा विधिर्विधेयस्य चेष्टहेतुत्वसिद्धये ॥
प्रमाणीभूय संकल्पं पुंसोऽनुष्ठानगोचरम् ।
जनयित्वा तेन पुंसा व्यापारं कारयन् स्वयम् ॥
तत्र कारकहेतुस्स्यात् निषेधोऽपि तथैव हि ।
निषिद्धस्यानिष्टहेतुभावे मानं भवन् ततः ।
अननुष्ठानसंकल्पं वैराग्याज्जनयन् पुनः ।
तदभावव्यवस्थां च करोतीति सुनिश्चितम् ॥
तथाच यदि रागादिप्राप्तं विध्यर्थलक्षणम् ।
कर्तव्यत्वं लिङाऽनूद्य नञा तस्य निषेधनम् ॥
यदिवाऽत्र नञर्थस्य वर्जनस्य विधेयता ।
लिङाऽवबोधः द्वेधाऽपि व्यापारेऽनर्थहेतुताम् ॥
कल्पयन् अननुष्ठानसंकल्पजननात्परम् ।
निवारणं स्यादित्येतन्निषेधस्य निरूपणम् ॥
4 इयत्प्रयासहेतुश्च वक्ष्यमाणो विनिश्चितः ।
अवस्तुत्वादभावस्य न नृशृङ्गं नियुज्यते ॥
प्रयोजनवाक्यार्थः 51
नोपादेयं नैव हेयं न कार्यं नापि कारणम् ।
को विधिः को निषेधोऽत्र प्रख्योपाख्याविवर्जिते
न कलञ्जं भक्षयेदित्येवमादिरपार्थकः ।
नियोग इति हि प्राहुरभावावस्तुवादिनः ॥
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥
इत्यादिस्मृतिवाक्यार्थभङ्गो भाष्यकृतामपि ।
अभावावस्तुसिद्धान्तमूलदोषनिबन्धनाः ॥
अभावः कारणं कार्यं वस्तु येषां विपश्चिताम् ।
तेषां पुनः नवीनानां प्रयासो नैव कश्चन ॥
यस्याभावोऽधिकरणं यस्य भावान्तरं च वा ।
सर्वं तद्विषयं ज्ञेयं न विचारोऽत्र कश्चन ॥
अत्र राणककारेण प्रोक्तं भङ्ग्यन्तरं त्विदम् ।
स्वकाले यदकुर्वन् तत् करोत्यन्यदचेतनः ॥
प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते ।
इत्युक्तं तदपि प्रोक्ताभावतत्त्वविकल्पना ॥
(105) प्रयोजनवाक्यार्थः
1 अथ नैयायिकमते फलमेव प्रवर्तकम् ।
सम्मतं तत्र सारांशसंग्रहोऽप्यवधार्यताम् ॥
ऽदेव प्रवृत्तिश्चेज्जन्मान्तरविनिश्चयः ।
णानामेव जन्मेति वीतरागेति सूत्रितम् ॥
रागान्न प्रवृत्तिः स्वभावः कुशली भवेत् ।
त्रं निरधिकारि स्यात् इति नैयायिकाशयः ॥
दुःखनिवृत्तौ वा पुंसां भवति कामना ।
नुः व्योमपुष्पादि कश्चित्कामयते नरः ॥
नाशङ्कते यस्मात्फलं वापि समीहितम् ।
ऽविधेयस्य राज्ञोऽपि नाज्ञाऽनुष्ठीयते जनैः ॥
मानापदेशेऽपि फलं यत्रावगम्यते ।
प्रवर्तते लोकः लिङादिष्वश्रुतेष्वपि ॥
र्यं पुनरेत्रेयं मीमांसकहृदि स्थितम् ।
साधनताबुद्ध्या प्रवर्तेत नरो यदि ॥
त्साङ्गे प्रवृत्तिः स्यात् निषिद्ध्येत तदा वधः ।
धेनैव प्रवृत्तिश्चेत् वधो वैधो भवेदिति ॥
वमूला प्रवृत्तिश्चेददोषाऽभ्युपगम्यते ।
श्रोत्थरागमूलाऽपि तादृक्स्यादिति तार्किकाः ॥
त्यारोग्यसंपत्तिर्भुञ्जानस्य हरीतकीम् ।
कामो भक्षयेच्चेति को विशेषः प्रवर्तने ॥
वयव्यतिरेकाभ्यां यदेवमनुमन्यते ।
कत्वं फलस्यैव न नियोगात्मनः पुनः ॥
प्रयोजनवाक्यार्थः 513
4 नियोगादथ निष्पत्तिः फलस्येत्यभिधीयते ।
फलं प्रत्यङ्गभूतत्वादवाक्यार्थत्वमापतेत् ॥
प्रेरणावगमादेव प्रवृत्तिर्यदि सिद्धयति ।
स्वर्गकामपदं तत्स्यादधिकारिविशेषणम् ॥
यो हि येन विना लोके न सिद्धयेत्स तमाक्षिपेत् ।
नियोज्यमात्राक्षेपे स्यान्नियोगो न फलात्मकः ॥
ननुच स्वर्गकामोऽत्र नियोज्यः नान्यथा भवेत् ।
यदि स्वर्गस्य संपत्तिं नाधिगच्छेत्स्वकर्मणः ॥
नरेच्छामात्रमेवेदं, न शब्दस्त्वियति क्षमः ।
नियोज्यः स्वर्गकामो हि भवेज्जीवनवानिव ॥
विधेरेष स्वभावश्चेदायुष्मन् साधु बुध्यसे ।
भाट्टैः किमपराद्धं ते नित्येऽपि फलवादिभिः ॥
अधिकार्यनुपादेयविशेषणविशेषितः ।
जीवन्वा स्वर्गकामो वा समानः काम्यनित्ययोः ॥
विधिवीर्यस्वभावस्तु क्रिमेरपि तथाविधः ।
सप्रत्ययप्रेरकतां विधिर्नोपैति निष्फलः ॥
प्रत्यवायपरीहारो वोपात्तदुरितक्षयः ।
फलं नित्ये, प्यन्यथा स्यादर्थानर्थाविवेकिता ॥
5 प्रतिषेधाधिकारेऽपि विधिवृत्तपरीक्षया ।
एवं नरकपातादिफलयोगो न दुर्वचः ॥
M.R. 65
14 मानमेयरहस्यश्लोकवार्तिके
करणांशोऽपि लिप्सातः प्रवृत्तिर्यद्युपेयते ।
इतिकर्तव्यतांशे तु शास्त्रादिति न युक्तिमत् ॥
नहि तत्करणं शुद्धं स्वफलायोपकल्पते ।
सेतिकर्तव्यताकं हि करणं करणं विदुः ॥
उभयत्रापि लिप्सातः सतिचैवं प्रवर्तने ।
अग्नीषोमीयहिंसादेः स्यादेव श्येनतुल्यता ॥
तदुत्सर्गापवादाख्यन्यायस्यैव विमर्शनात् ।
न हिंस्यादिति सामान्यागोचरत्वावधारणा ॥
6 यस्त्वाह प्रेरकत्वं चेत्फलं दर्शयतो विधेः ।
प्रत्यक्षादिसमानत्वात् स्वातन्त्र्यं तस्य हीयते ॥
स वाच्यः फलशून्यत्वे सुतरामस्वतन्त्रता ।
यद्रिक्तमर्थं मूढोऽपि न कश्चिदनुतिष्ठति ॥
फलस्यैवेष्यमाणस्य पश्यन् प्रेरकतामतः ।
यमर्थमधिकृत्येति सूत्रं व्यधित सूत्रकृत् ॥
7 गुणप्रधानानियमात् मिथस्संसृष्टलक्षणः ।
पदार्थ एव वाक्यार्थः स्यात्प्रयोक्तृविवक्षया ॥
क्वचित्साक्षात्पदोपात्तं क्वचित्प्रकरणागतम् ।
क्वचिदालोचनागम्यं फलं सर्वत्र गम्यते ॥
तस्मात्फलस्य साध्यत्वात् सर्वत्र तदवर्जनात् ।
क्रियादीनां च तादर्थ्यात् तस्य वाक्यार्थतेष्यते
आप्ताभिप्रायवाक्यार्थः 51
४ प्रतिभा खलु विज्ञानं तच्च शब्देन जन्यते ।
नतु शब्दस्य विषयः रूपधीरिव चक्षुषः ॥
५ सुखं हि जगतामेव काम्यं धर्मेण जायते ।
अधर्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम् ॥
चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेत् ।
तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ॥
बलवद्विष्टहेतुत्वमतिस्स्यात्प्रतिबंधिका ।
तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते ॥
चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा ।
उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥
एवं प्रवृत्तिजननात् विधेरपि तदर्थता ।
नित्येऽपि ब्रह्मलोकादेस्संप्राप्तिरवधार्यते ॥
आप्ताभिप्रायमाचार्याः विध्यर्थं लाघवाद्विदुः ।
वेदस्य पौरुषेयत्वे मानं चापि विधिं विदुः ॥
इति नैयायिकमतसारांशो विशदीकृतः ।
अथ वेदान्तसिद्धान्ते विशेषः प्रतिपाद्यते ॥
(106) आप्ताभिप्रायवाक्यार्थः.
1 इष्टस्य कृत्यधीनात्मलाभलक्षणकार्यता ।
लिङर्थ इति वेदार्थसंग्रहे भाष्यकृद्वचः ॥
16 मानमेयरहस्यश्लोकवार्तिके
प्राभाकरा ये विख्यातास्ते वाच्यापूर्ववादिनः ।
कौमारिलाः पुनः कल्प्यापूर्ववादिन ईरिताः ॥
अतिरिक्तार्थवाच्यत्वकल्पनायामपीष्यते ।
श्रुतैव देवताप्रीतिः नापूर्वं क्वचिदश्रुतम् ॥
इष्टसाधनतां प्राहुर्लिङर्थं मण्डनादयः ।
अयं त्विष्टाभ्युपायोऽतः कार्यमित्यध्यवस्यति ॥
कार्यत्वमिष्टोपायत्वादन्तरङ्गमितीतरे ।
लघीयसी साध्यताऽतः देवताप्रीत्यपेक्षया ॥
तत्रैव शब्दशक्तिः स्यादिति श्रीभाष्यकृन्मतम् ।
आप्तस्य हितकामस्य नियोगोऽपि तदाहृतः ॥
श्रीपूर्णप्रज्ञसिद्धान्तोऽप्येवमेव प्रतीयते ।
अनुव्याख्यानवाक्यं तु तदीयमवधार्यताम् ॥
कार्यता च न काचित्स्यादिष्टसाधनतां विना ।
कार्यं साधनमिष्टस्य भगवानिष्टदेवता ॥
इति तस्माद्देवता तु येषां स्यान्निरनुग्रहा ।
क्लिश्यन्ति ते वै प्रायेण नान्य इत्यत्र निर्णयः ।
2 अत्र श्रीभाष्यकारीयापूर्वसिद्धान्तखण्डनम् ।
संगृह्यतेऽथ विशदबोधाय विदुषामपि ॥
आचार्यकाधिकारार्थाऽधीतिस्स्यादिति संशये ।
अर्थज्ञानाधिकारार्थाऽथातो धर्मेत्यसूत्रयत ॥
आप्ताभिप्रायवाक्यार्थः 517
विधिस्स्वाध्याय इत्यादिः यावत्स्वाध्यायगोचरः
अथेत्यानन्तर्यमपि यावत्तत्प्रतियोगिकम् ॥
अत इत्यर्थपरता यावद्वेदावलम्बिनी ।
जिज्ञास्यताऽपि कृत्स्नस्य वेदार्थस्येति गम्यते ॥
अभिधा चोदना चेति श्रुतिरेषा द्विधा मता ।
आद्या सिद्धपरा ज्ञेया द्वितीया कार्यतत्परा ॥
अव्युत्पत्त्यनपूर्वत्वाप्रयोजननिबन्धनम् ।
अप्रामाण्यं विदुस्सिद्धे विबुधा ह्यभिधाश्रुतेः ॥
चोदनाश्रुतिरेवैषा व्युत्पत्त्यादिपरिष्कृता ।
प्रमाणं स्यात्ततश्चाद्या लिङ्गेऽन्तर्भावमर्हति ॥
चोदनालक्षणः कार्यं धर्मो वेदार्थ इत्यतः ।
वेदार्थः कार्यरूपस्स्यादिति व्याख्या गुरोर्मता ॥
ततश्चोपनिषद्व्याख्याशास्त्रं नारम्भमर्हति ।
यस्मादुपनिषच्छब्दः सिद्धवस्त्वेकगोचरः ॥
अत्रोच्यते ब्रह्मविद्भिः ब्रह्माप्यानन्दलक्षणम् ।
शास्त्रेणैवावसेयं च व्युत्पन्नं चाप्तवाक्यतः ॥
तस्मात्साध्यपरा यद्वत्तथा सिद्धपराऽपिच ।
श्रुतिः प्रमाणं तेनार्धजरतीयं न युक्तिमत् ॥
इति सिद्धान्तानुरोधात्कार्यतत्त्वमनूद्यते ।
प्राक्श्लोकैस्सप्तभिः पश्चात् सप्तभिस्तन्निरस्यते
518 मानमेयरहस्यश्लोकवार्तिके
लोके हि सिद्धवस्तूनां ये शब्दाः प्रतिपादकाः ।
पश्चात्तनास्ते संदृष्टाः प्रतिपाद्यात् तथा यदा ॥
श्रुतिः सिद्धपराचेत्स्यात् प्रतिपाद्यादनन्तरा ।
ततश्चांपौरुषेयत्वं नित्यत्वं च न निर्वहेत् ॥
कृतिसाध्यं प्रधानं यत्तत्कार्यमिति गीयते ।
प्रामाण्यमपि वेदस्य तत्र व्युत्पत्तिसंभवात् ॥
आत्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये ।
कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः ॥
कृतिसाध्यत्वमिष्टत्वं कृत्युद्देश्यत्वमेवच ।
कार्यस्य त्रय आकारा इत्याहुः कार्यवादिनः ॥
साधारणौ द्वावाकारौ भावार्थफलयोरिति ।
तृतीयोऽसौ नियोगस्य त्वसाधारण इष्यते ॥
कार्यं हि तच्च प्रथममनन्यार्थं प्रतीयते ।
ततश्चान्यार्थता युक्ता भृत्येष्टप्रदभूपवत् ॥
३ स च किं कृतिकर्मत्वं किंवा प्रेरकता मता ।
अनुकूलत्वमथवा शेषित्वमथवा मतम् ॥
प्रयोजनत्वमथवा प्राधान्यमथवा कृतेः ।
अथवा सुखरूपत्वं पुरुषार्थत्वमेववा ॥
नाद्यत्रयं कृत्यधीनसिद्धता वेष्टताऽपिवा ।
फलभावार्थयोरेव तदेतत्पर्यवस्यति ॥
आत्मभिप्रायवाक्यार्थः 51
शेषित्वं दुर्निरूपं स्यात् पञ्चमं पूर्ववद्भवेत् ।
षष्ठं त्वसंभवग्रस्तं सप्तमं लोकदूषितम् ॥
अष्टमं निष्प्रमाणं स्यात् अपूर्वं दुर्वचं ततः ।
कर्तृव्यापारसाध्यत्वमात्रं धात्वर्थसंगतम् ॥
लिङादेवाच्यमित्याहुरनुशासनवेदिनः ।
एवं वाच्यापूर्ववादो यथाऽन्येषां न संमतः ॥
तथा कल्प्यापूर्ववादः सेश्वरैरधरीकृतः ।
इति श्रीभाष्यकारीयापूर्ववादार्थसंग्रहः ॥
4 अथान्विताभिधानाभिहितान्वयविवादयोः ।
आद्यः प्राभाकराभीष्टः ह्यन्त्यः कौमारिलादृतः
आदौ पदानि श्रूयन्ते ततो व्युत्पत्तिमार्गतः ।
परस्परानन्विता ये पदार्थाः स्मारयन्ति तान् ॥
आकाङ्क्षादिपरामर्शः स्मृतेष्वर्थेषु जायते ।
न्यायप्रवृत्तिस्तत्रैव स्वात्मानं लब्धुमर्हति ॥
वचनव्यक्तिभेदाभिव्यक्तिस्संपाद्यते तया ।
सम्यङ्न्यायानुग्रहेण तैर्वाक्यार्थोऽभिधीयते ॥
नानापदार्थसहितप्रधानेकार्थलक्षणः ।
पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् ॥
न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ।
अन्वितार्थाभिधायित्वे पदानां शिक्षिते सति ॥
520 मानमेयरहस्यश्लोकवार्तिके
विशिष्टा वक्तृधीर्ज्ञातुं शक्यते नान्यथा पुनः ।
एषोऽन्विताभिधानस्य प्रकारः गुरुसम्मतः ॥
5 अथ भट्टस्याभिमतः प्रोच्यतेऽभिहितान्वयः ।
पदैरेवाभिधीयन्ते पदार्थाः ते पृथक्पृथक् ॥
विशेषव्यक्त्यभावात्स्मारकान्न विशिष्यते ।
योग्यत्वेन परामृष्टाः तेऽर्था अभिहिताः पुनः ॥
विशेषसंसर्गरूपं वाक्यार्थं बोधयन्ति तम् ।
पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते ॥
यदाधिक्यं भवेत्किंचित् तत्पदस्य न गोचरः ।
न पदव्यावृतिस्तत्र चार्थैरेवार्थसिद्धितः ॥
यथा कविभिरालोच्यमाना अर्थाः परस्परम् ।
अन्विताः केवलं लोकोत्तरवाक्यस्य हेतवः ॥
अत एव हि वाक्यार्थमेते लाक्षणिकं विदुः ।
यस्मादभिहितैरर्थैः संबन्धात्सोऽवगम्यते ॥
नाकृतिः प्रथमं ज्ञाता व्यक्तिः पश्चात्प्रतीयते ।
किं तु प्रतीयते जातिः व्यक्त्यैव सहिता यथा
तथाऽन्वयोऽप्यधिगतस्त्वन्वितस्यावबोधकः ।
इत्यन्विताभिधायेष शब्द इत्युच्यते परैः ॥
कॢप्तमन्वितसामर्थ्यं पदार्थानां स्वभावतः ।
एकवाक्यतया तत्र कल्प्यं नियममात्रकम् ॥