सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

374 मानमयरहस्यश्लोकवार्तिकं
योग्यं योग्यानुपलब्ध्याऽयोग्यं तर्केण धूयते ।
भूयोदर्शनतश्शक्या दृश्योपाधेः निराक्रिया ॥
अदृश्योपाधिशङ्का तु तर्कैरिति विदुः परे ।
उपाधित्वेन शङ्क्यस्य संबन्धो निरुपाधिकः ॥
अन्यथोपाधिता नास्ति तद्वदन्यत्र गृह्यताम् ।
अप्रयोजकताहेतुरुपाधिरिति निर्णयः ॥
यत्रानुकूलतर्कस्यासंभवस्सोऽप्रयोजकः ।
6 नोपाधिः पक्षतोऽन्यत्वं साधनं च विपक्षतः ॥
बाधनं न सपक्षेभ्यः सर्वानुमितिबाधनात् ।
पक्षाद्भेदः विपक्षाच्च भेदः भेदः सपक्षतः ॥
नोपाधिर्न च हेतुस्स्यात्प्रतिरोधो नचैव हि ।
नोपाधिरिति पद्यस्य फलितार्थस्त्वसौ स्थितः ।
भूयोदर्शनतो व्याप्तिग्रहो न्यायविदीरितः ।
सकृद्दर्शनतो व्याप्तिग्रहस्स्यादेकदेशिनाम् ॥
7 व्याप्याङ्गीकरणेऽनिष्टव्यापकस्य प्रसञ्जनम् ।
तर्कस्स चोभयविधविषयोपेत इष्यते ॥
प्रामाणिकपरित्यागोऽप्रामाणिकपरिग्रहः ।
एष चात्माश्रयान्योन्याश्रयचक्रकभेदतः ॥
प्रतिबन्धनवस्था च तथाऽनिष्टप्रसञ्जनम् ।
इत्येवंभेदतश्चापि प्रोक्तः षड्धा च पञ्चधा ॥

लिङ्गविचारः ३
व्याप्तिः तर्काप्रतिहतिः अवसानं विपर्यये ।
अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ॥
गौरवं लाघवं चेति तर्कः सार्वत्रिकावुभौ ।
गौरवं कल्पनाधिक्यं लाघवं त्वल्पकल्पना ॥
तर्कशब्दं पुनः केचिदनुमाने प्रयुञ्जते ।
अनुमानविशेषोऽयमिति केचित्प्रचक्षते ॥
सहकार्यनुमानस्य मानस्येति विदुः परे ।
तर्कः पृथक् मानमिति प्राहुर्जैनविपश्चितः ॥
४ व्याघातपर्यवसितं सर्वं दूषणमिष्यते ।
उपलम्भे त्ववसितं सर्वं साधनमुच्यते ॥
(77) लिङ्गविचारः.
1 लिङ्गं व्याप्यं च हेतुश्चोपपत्तिर्युक्तिरेवच ।
साधनं स्थापना चेति पर्याय इति निर्णयः ॥
अन्यथाऽनुपपत्त्येकलक्षणं लिङ्गमिष्यते ।
पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताऽनुमा ॥
सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ।
प्रयोगपरिपाटी तु प्रतिपाद्यानुसारतः ॥
प्रतिज्ञा हेतुरेवेति द्वयस्यैव प्रयोज्यता ।
व्युत्पादनाय मन्दानां दृष्टान्तादेरपीष्यते ॥

376 मानमेयरहस्यश्लोकवार्तिके
2 इत्यार्हतानां सिद्धान्तः ह्यथ वेदान्तिभिः परैः ।
व्याप्तिश्च पक्षधर्मत्वं उभयं लिङ्गलक्षणम् ॥
व्याप्त्यभावे पुनर्व्याप्यत्वासिद्धिरिति निश्चिता ।
पक्षधर्मत्वस्य हानौ स्वरूपासिद्धिरिष्यते ॥
अव्याप्तापक्षधर्मौ द्वौ हेत्वाभासौ समासतः ।
तयोरेव प्रपञ्चेन स्यादसिद्धादिकल्पना ॥
इति न्यायपरिशुद्धिकारसिद्धान्तसंग्रहः ।
व्याप्तिस्तथा समुचितदेशवृत्तित्वमेव च ॥
द्वयं प्रमाणपद्धत्यां लिङ्गरूपं निरूपितम् ।
3 अथ त्रिलक्षणविदामेतद्वार्त्सीभुवां मतम् ॥
पक्षे सत्त्वं सपक्षे च सत्त्वं चैव विपक्षतः ।
व्यावृत्तत्वमिति त्रीणि लिङ्गरूपाणि ते विदुः ॥
हेत्वाभासा अपि ततस्त्रय एव हि तन्मताः ।
आभासोऽपि हि सर्वत्र स्वस्वरूपविपर्ययः ॥
4 पञ्चलक्षणकं लिङ्गमाहुर्न्यायविदः पुनः ।
पक्षे सत्त्वं सपक्षे च सत्त्वमेवं विपक्षतः ॥
व्यावृत्तत्वं तथैवासत्प्रतिपक्षत्वमेव च ।
अबाधितत्वमित्येतदत्र लक्षणपञ्चकम् ॥
5 एकैकापायतस्तेषां हेत्वाभासास्तु पञ्चधा ।
अत्रार्हतस्याक्षेपोऽयं देवसूरेर्निशम्यताम् ॥

लिङ्गविचारः 377
अज्ञातस्य हि लिङ्गस्य हेतुता न च कस्यचित् ।
प्रसज्यते तार्किकाणां ज्ञातत्वमधिकं ततः ॥
हेतोश्च ज्ञापकत्वेन ज्ञातत्वं यदि लभ्यते ।
विपक्षव्यावृत्तिमात्रादबाधोप्यत्र लभ्यते ॥
अन्यथानुपपत्त्यैकरूपस्यैतत्प्रपञ्चनम् ।
षड्रूपता तथा पञ्चरूपता वा त्रिरूपता ॥
6 यन्न्यायपरिशुद्धयुक्तमन्यथारूपपञ्चकम् ।
तदप्यत्रावधातव्यं प्रक्रियामात्रभेदतः ॥
असिद्धार्थत्वं च साध्यज्ञापनाय प्रवृत्तता ।
विशिष्यानास्कन्दितता व्याप्तिग्राहकमानतः ॥
संदिह्यमानविषयवत्ता व्यक्तिविभिन्नता ।
पक्षस्थहेतुव्यक्तौ स्यादित्येतद्रूपपञ्चकम् ॥
दृष्टान्तव्यक्तिवृत्तौ तु हेतौ तेषां विपर्ययः ।
सिद्धार्थत्वादिकं रूपपञ्चकं तत्र शाश्वतम् ॥
ततश्च दश रूपाणि सद्धेतोरसतः पुनः ।
न्यूनानीति विदुर्धीराः व्यासाभिरुचयस्तु ते ॥
7 लिङ्गं तु त्रिविधं कार्यस्वभावानुपलब्धयः ।
इति वैभाषिकाः प्राहुरिति सर्वत्र विश्रुतम् ॥
पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः ।

378 मानमेयरहस्यश्लोकवार्तिके
हेतुबिन्दुवचस्त्वेतत्कीर्तितं धर्मकीर्तिना ।
स एव भिक्षुः बहुधा कुमारिलहृदिस्थितः ॥
यद्यप्यनुपलब्धिस्सा स्वभावान्तर्निपातिनी ।
तथापि प्रतिषेधस्य साधनात्पृथगुच्यते ॥
सा चैकादशधेत्येके परे षोडशधेति च ।
प्राहुर्विभागवैचित्र्यात् पृथक्कृतिफलं न्विदम् ॥
तथा प्रसङ्गानुमानं तद्विपर्यय इत्यपि ।
विभागोऽस्ति तदर्थं तु वक्तीत्थं किरणावली ॥
तत्स्वभावानुमानं यत् प्रसङ्ग इति कथ्यते ।
व्यापकानुपलब्धिर्या स विपर्यय इष्यते ॥
8 मात्रानिमित्तसंयोगिविरोधिसहचारिभिः ।
स्वस्वामिवध्यघाताद्यैः सांख्यानां सप्तधाऽनुमा ॥
9 अस्येदं कारणं कार्यं संबन्ध्येकार्थयोगिता ।
विरोधि लैङ्गिकमिति चतुर्धा कणभोजिनाम् ॥
10 इति वाचस्पतिः प्राह नैयायिकमते पुनः ।
पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्त्रिधा ॥
इत्यक्षपादसूत्रोक्तं कार्यं कारणमेवच ।
अकार्यकारणं चेति तस्यार्थः कैश्चिदिष्यते ॥
11 तथैव शाबरे भाष्ये त्वौपवर्षं द्विधेरितम् ।
यथा प्रत्यक्षतोदृष्टसंबन्धं प्रथमं मतम् ॥

परं सामान्यतोदृष्टसम्बन्धमिति कीर्तितम् ।
विशेषतोदृष्टमेव प्रत्यक्षत इतीर्यते ॥
सामान्यतोदृष्टमेव स्याद्वैभाषिकसम्मतम् ।
परोक्षमानं सामान्यगोचरन्विति तन्मतम् ॥
वैशेषिकादयस्तत्र त्वित्थं व्यवहरन्ति हि ।
दृष्टं चादृष्टमिति च शब्दमात्रप्रभेदतः ॥
12 सामान्यतोदृष्टमेव द्वितीयमिह कथ्यते ।
तदेव परिशेषानुमानं व्याख्यातृसम्मतम् ॥
क्रियादिविषयादृष्टस्वलक्षणमितीतरे ।
दृष्टस्वलक्षणं सर्वमिति केचित् विदुः परे ॥
तेन सामान्यतोदृष्टं दृष्टं चापि विशेषतः ।
इति द्विधाऽनुमानं स्यादितरेषां विपश्चिताम् ॥
साङ्ख्या गोहिं विज्ञानं दृष्टमित्यभिधीयते ।
अत्यन्तजात्यभेदेऽपिचानुमानं तदिष्यते ॥
अत्यन्तजातिभेदे तु दृष्टं सामान्यतो मतम् ।
यथा प्रवृत्तिस्सफला वणिक्कर्षकभूभुजाम् ॥
तथा वर्णाश्रमवतां दृष्टार्थानभिलाषिणाम् ।
इति प्रशस्तपादेन द्वयमेतदुदाहृतम् ॥
दृष्टं वह्न्यादिकं तत्रादृष्टं कर्मादिकं त्विति ।
अनुमानप्रमेयं च द्विविधं गुरवो विदुः ॥

विशेषविषयं त्वाद्यं परं सामान्यगोचरम् ।
नातीन्द्रियेऽनुमानं स्यादिति कौमारिलं मतम् ।
प्रत्यक्षदृष्टसंबन्धं ययोरेव विशेषयोः ।
गोमयेन्धनतज्जन्यविशेषादिमतिः कृता ॥
तद्देशस्थेन धूमेन तत्र कालान्तरे पुनः ।
यदाऽग्निर्बुध्यते पुंसा विशेषविषयं तु तत् ॥
संदिह्यमानसद्भाववस्तुबोधात्प्रमाणता ।
विशेषदृष्टमेतच्च लिखितं विन्ध्यवासिना ॥
प्राप्तिसामान्येन यत्र गतिसामान्यधीर्भवेत् ।
आदित्यादौ तत्र दृष्टं सामान्यमिति वार्तिकम् ।
अर्थापत्त्यैव शक्त्यादेस्सिद्धिमेते विदुर्बुधाः ।
अनुमानेन शक्त्यादेस्सिद्धिं प्राभाकरा विदुः ॥
तेनेश्वराद्यसिद्धौ तु वेदस्यापौरुषेयता ।
निराबाधेति हृदयं कौमारिलमिति स्थितम् ॥
13 सांख्यास्सामान्यतोदृष्टमतीन्द्रियपदं विदुः ।
तेन क्रिया सकरणिकेतीन्द्रियं साधयन्ति ते ॥
अनुमानं पुनस्सामान्यावधारणलक्षणम् ।
यथादेशान्तरप्राप्तेर्गतिमच्चन्द्रतारकम् ॥
प्रत्यक्षं तु विशेषस्य प्राधान्येनावधारणा ।
इति पातञ्जले योगभाष्येऽप्येतद्विवेचितम् ॥

14 नैयायिकानां व्याख्यानमित्थमत्रावधार्यते ।
वह्न्यादिकं विशेषेण दृष्टमित्यभिधीयते ॥
रूपाद्रसानुमानं तु दृष्टं सामान्यतो मतम् ।
शृङ्गाद्विशफवत्त्वं वा सामान्येनावधार्यते ॥
परिशेषानुमानं वा सामान्यत इतीर्यते ।
अथवाऽतीन्द्रियं वस्तु सामान्यविषयं मतम् ॥
अतीन्द्रियानुमानस्य परिशेषानुमानतः ।
विशेषः कथितः सूक्ष्मः जयन्तेन स उच्यते ॥
इच्छादिकं शरीरादिविलक्षणसमाश्रयम् ।
शरीरादिषु बाधायां कार्यत्वादिति तत्क्रमः ॥
परिशेषानुमानस्य प्रवृत्तिक्रम एष हि ।
इच्छादेर्नाश्रयो देहः प्रसक्तोऽन्योऽपि नाश्रयः ॥
इत्येवं प्रतिषेधेन शिष्यमाणस्तदाश्रयः ।
इत्थं विशेषमालक्ष्य द्विधा व्याख्यत्स पक्षिलः ॥
15 अथौपनिषदानां तु व्याससूत्रावलम्बिनाम् ।
अभिप्रायस्त्वसौ न्यायपरिशुद्धौ प्रकाशितः ॥
विशेषतोदृष्टमेतद्विशेषानुगमे सति ।
भवेत्सामान्यतोदृष्टं सामान्यानुगमे सति ॥
अस्मदध्यक्षयोग्यार्थानुमानं स्याद्विशेषतः ।
तदयोग्यार्थानुमानं आहुस्सामान्यतः बुधाः ॥

82 मानमेयरहस्यश्लोकवार्तिके
तेनेन्दुपरभागादिसिद्धिः शैलापरान्तवत् ।
व्यक्तेरैक्येऽपिवा देशकालावस्थाभिदावशात् ॥
शृङ्गाच्छैलः स्वरात्पुत्रः रोहिणी कृत्तिकोदयात् ।
विशेषतोदृष्टमेतत् परं धूमादिकं भवेत् ॥
एतेऽतीन्द्रियवस्तूनां शास्त्रतस्सिद्धिवादिनः ।
बादरायणसिद्धान्तशास्त्रयोनिनये स्थितः ॥
भवन्तं च भविष्यन्तं भूतं व्यवहितं तथा ।
सूक्ष्मं च विप्रकृष्टं चेत्येवंजातीयकं तथा ॥
वेदो बोधयितुं शक्तः नान्यदित्यस्ति शाबरम् ।
तद्युक्तं ततश्चानुमानं त्रैकाल्यगोचरम् ॥
सर्वार्थविषयं चेति न्यायवित्प्रवरोदितम् ।
विवादोऽयमनादिस्स्यात् उक्तियुक्त्योः परस्परम् ।
16 स्वार्थं परार्थमिति च द्विविधं हि विभज्यते ।
नैयायिकैः तत्र दोषमिममाहुः परे बुधाः ॥
सर्वाणि चानुमानानि स्वानुसंधानशक्तितः ।
प्रवृत्तानि स्वव्यवहृतिसाधनानीति हि स्थितम् ।
चेद्विभज्य च वक्तव्यमेवं वक्तुं हि साम्प्रतम् ।
स्वयंसिद्धं चान्यवाक्यपूर्वकं चेति भेदतः ॥
स्वार्थं परार्थमिति हि प्रत्यक्षादावपीष्यताम् ।
दोषज्ञाः सूक्ष्ममतयः श्रोतारो नहि केवलम् ॥

व्याप्तिः ३
नचापूर्वास्तीर्थकराः न भवन्तीति निर्णयः ।
तथात्वे प्रथमैकान्तपरिशेषः प्रसज्यते ॥
(78) व्याप्तिः.
1 अथ व्याप्तिपदार्थीयविकल्पस्यापि संग्रहः ।
तत्प्रमाणविकल्पोऽपि संग्रहादिह सूच्यते ॥
अविनाभावनियमः व्याप्तिस्सौगतसम्मता ।
सा च साध्यवदन्यस्मिन्नसंबन्धो निरुच्यते ॥
व्यतिरेकस्सुग्रहस्स्याद्दुर्ग्रहो यावदन्वयः ।
अतएवाविनाभाव इत्युक्तिः व्यतिरेकतः ॥
व्यतिरेकव्याप्तिरेवानुमानाङ्गतया मता ।
वैधर्म्यतश्च दृष्टान्तः विपक्षाद्विनिवृत्तये ॥
कार्यकारणभावो वा स्वभावो वाऽत्र गृह्यते ।
व्याप्तिग्रहोपायतया तैर्बौद्धैरिति निर्णयः ॥
2 नैयायिकैस्साहचर्यनियमो व्याप्तिरिष्यते ।
तच्च व्यापकसामानाधिकरण्यमितीर्यते ॥
साहचर्यं चान्वयतः तथैव व्यतिरेकतः ।
द्वेधाऽपि सम्मतं तेन लिङ्गं त्रिविधमुच्यते ॥
साहचर्येऽत्र घटकः संबन्धः बहुधा मतः ।
नौलुक्यवच्चतथैव सांख्यवन्नापि सप्तधा ॥

384 "मानमेयरहस्यश्लोकवार्तिके
इयानेव विशेषोऽत्र भावयोर्यादृशी ययोः ।
व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः ॥
अग्नेर्भावस्य भूयस्त्वात्तदभावोऽल्पतां व्रजेत् ।
धूमभावस्य चाल्पत्वात् तदभावो महत्तरः ॥
व्यभिचारज्ञानशून्यसहचारस्य दर्शनम् ।
हेतुर्व्याप्तिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः ॥
यावतीनां साध्यहेतुव्यक्तीनां स्यादलौकिकम् ।
सामान्यलक्षणासत्त्या सहचारस्य दर्शनम् ॥
3 मीमांसकानां सिद्धान्ते व्याप्तिस्तत्त्वमिदं मतम् ।
व्याप्तिर्हि नियमः कश्चित् संबन्धोऽस्ति विलक्षणः
संबन्धो व्याप्तिरिष्टाऽत्र लिङ्गधर्मस्य लिङ्गिना ।
व्याप्यस्य गमकत्वं च व्यापकं गम्यमिष्यते ॥
यो यस्य देशकालाभ्यां समो न्यूनोऽपिवा भवेत् ।
स व्याप्यः व्यापकस्तस्य समो वाऽभ्यधिकोऽपि वा
येन केनापि संबन्धेनैष क्वापि नियम्यते ।
स एव लिङ्गधर्मस्य लिङ्गता समुदाहृता ॥
तथा च नियमाख्यो यस्संबन्धो व्याप्तिलक्षणः ।
तदभावादागमोऽपि प्रमाणं स्याद्विलक्षणम् ॥
व्याप्तिस्सपक्षदृष्टैवानुमानाङ्कतया मता ।
सर्वदेशव्याप्तिरत्र दुर्ग्रहैव विपश्चिताम् ॥

व्याप्तिः 38.
भूयोदर्शनगम्या च व्याप्तिस्सामान्यधर्मयोः ।
क्वचिच्च कृत्तिकारोहिण्याद्ययोर्हि विशेषयोः ॥
कैश्चित् यावद्देशकालव्याप्तिधीरङ्गमिश्यते ।
मानं मृगयमाणाश्च प्रत्यक्षं तत्सकृद्विदुः ॥
बालोऽपि दीपकलिकास्पर्शाद्वेत्ति तथा सकृत् ।
योगिप्रत्यक्षतुल्यं तन्मानसं केचिदब्रुवन् ॥
भूयोदर्शनसंजातसंस्कारसचिवं पुनः ।
प्रत्यक्षं चरमं व्याप्तौ मानं केचित्प्रचक्षते ॥
यत्रयत्र भवेद्धूमः तत्रतत्राग्निरित्यसौ ।
यस्स्यादवगमः स्सोऽयं परोक्षो ह्यानुमानिकः ॥
इति कौमारिलाः प्राहुः नाङ्गं यावन्मतिस्ततः ।
अन्वयो व्यतिरेकश्च यथासंभवमिष्यते ॥
नियम्यत्वनियन्तृत्वे भावयोर्यादृशी मते ।
ते एव विपरीते तु विज्ञेये तदभावयोः ॥
गमकस्यैकदेशस्य व्याप्तिं गम्येन भाषितुम् ।
साध्यसाधर्म्यवैधर्म्यदृष्टान्तः प्रतिपाद्यते ॥
तत्र हेत्वर्थमुद्दिश्य साध्योपादानमिष्यते ।
उद्देश्यो व्याप्यते धर्मः व्यापकश्चोत्तरो मतः ॥
यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् ।

386 मानमेयरहस्यश्लोकवार्तिके
उद्देश्यतावच्छेदकव्यापकत्वं हि भासते ।
विधेयस्येत्येतदेव विवृतं नव्यतार्किकैः ॥
साध्येन साधनस्याथ व्याप्तिमन्थे प्रचक्षते ।
व्याप्तिरावृत्तिरेषा स्यादथवाऽधिकदेशता ॥
भूमौ प्रतिष्ठितो वह्निः धूमाग्रं व्योम्न्यवस्थितम् ।
व्याप्नोति कथमित्यत्र प्रत्यवस्थीयते परैः ॥
4 निरूपाधिकसम्बन्धो व्याप्तिरित्यपरे विदुः ।
उपाधिस्साधनाव्याप्तिसाध्यव्याप्त्यादिगर्भितः ॥
तत्रोपाधिव्याप्तिवस्तुनिर्णयेऽन्योन्यसंश्रयः ।
तत्रचेत्थं समाधानं परिशुद्धावुदीरितम् ॥
यो यावत्साध्यदेशस्थः न यावद्धेतुदेशगः ।
स उपाधिरिति ज्ञानान्न दोष इति निश्चितम् ॥
5 अन्तर्व्याप्तिः बहिर्व्याप्तिरिति व्याप्तिर्द्विधा मता ।
सिषाधयिषितव्यक्तिव्याप्तिरन्तरितीर्यते ॥
बहिः व्यक्त्यन्तरव्याप्तिरिति ह्यार्हतनिर्णयः ।
पक्षे व्याप्तिर्भवेदन्तः त्वन्यत्र बहिरिष्यते ॥
इति प्रमाणतत्त्वेऽपि विस्तृतं देवसूरिणा ।
विशेषव्याप्तिरन्तः स्यात् बहिसामान्यतो भवेत् ॥
वृथा विभाग इत्याहुः विबुधा न्यायवेदिनः ।
व्यतिरेकव्याप्तिबुद्ध्याऽप्यन्वयव्याप्तिरेव हि ॥

अवधार्येत सैव स्यादनुमाङ्गमितीतरे ।
इत्थं व्याप्तिविकल्पोऽयं संक्षेपादिह सूचितः ॥
6 अथ साधर्म्यवैधर्म्यविचारे किंचिदुच्यते ।
शाक्या वैधर्म्यवचनं पाक्षिकं नैव सेहिरे ॥
वैधर्म्यमेव वक्तव्यं सर्वदेत्यप्यवादिषुः ।
धूमत्वं नाम सामान्यं न वस्तु परमार्थतः ॥
अस्तु वाऽथापि साधर्म्यं न वक्तुमिह शक्यते ।
अशेषदेशकालेषु दुर्ग्रहः शिखिनोऽन्वयः ॥
विपक्षव्यतिरेकस्तु सुज्ञानः स्याददर्शनात् ।
सुकरं चैकदेशस्थैनैवानग्निष्वदर्शनम् ॥
तस्माद्धूमो ह्यनग्निभ्यो रिच्यमानोऽवबोधकः ।
अनग्निव्यावृत्तिमुखादग्नेरिह विनिश्चयः ॥
अतद्व्यावृत्तिविषयौ लिङ्गशब्दावतो मतौ ।
अत्र प्रत्युक्तिरेषा स्यादपोहश्लोकवार्तिकम् ॥
न चादर्शनमात्रेण ताभ्यां प्रत्यायनं भवेत् ।
सर्वत्रेव ह्यदृष्टत्वात्प्रत्याय्यं नावशिष्यते ॥
अस्य चायमभिप्रायस्संग्रहात्प्रतिपाद्यते ।
विपक्षादर्शनं त्वत्रादर्शनस्वनशब्दितम् ॥
प्रत्यायनं पुनरतद्व्यावृत्तिविषयं मतम् ।
तच्छब्दार्थौ लिङ्गशब्दौ तत्रापोहमतिः क्वचित् ।

388 मानमेयरहस्यश्लोकवार्तिके
अन्वयस्य सपक्षेऽपि विपक्षवददर्शनात् ।
द्वाभ्यां च व्यावृत्त एषः धूमस्संशयको भवेत् ॥
तथाचापोहहूपार्थो लोके नैव प्रसिद्ध्यति ।
अतोऽन्वयोऽप्यङ्गमिति स्वीकृतुमुचितं बुधैः ॥
अन्वयस्य क्वचिद्दृष्टौ ह्यतद्व्यावृत्तिनिश्चयः ।
यत्तु सर्वत्रान्वयोऽयं दुर्गहस्स्यादितीरितम् ॥
तत्तुल्यं व्यतिरेकेऽपि नैषोऽदर्शनमात्रतः ।
किन्तु दृश्यादर्शनात, एकदेशास्थितस्य तु ॥
न कदाचिद्धि सर्वत्र दृश्यादर्शनसंभवः ।
तेन सर्वत्रान्वयेऽथ व्यतिरेके च सर्वतः ॥
अविज्ञातेऽपि बहुशः साहित्यावगमात्पुनः ।
व्यभिचारादर्शनेन सनाथादनुमोदयः ॥
सर्वैरभ्युपगन्तव्यः एवं शब्देऽपि दृश्यताम् ।
तद्वस्तुविषयौ लिङ्गशब्दौ नापोहगोचरौ ॥
अपोहवार्तिकश्लोकभाव एवं निरूपितः ।
7 अन्वयव्यतिरेकी च तथा स्यात्केवलान्वयी ॥
केवलव्यतिरेकी च हेतुः व्याप्तिप्रभेदतः ।
अतस्त्रिधाऽनुमानं स्यादिति न्यायविदां मतम् ॥
कौमारिलाद्याः नेच्छन्ति हेतुं तं व्यतिरेकिणम् ।
तथा वादीन्द्रादयश्च नेच्छन्त्यन्वयिनं पुनः ॥

व्याप्तिः 38
अन्वयव्यतिरेक्येकहेतुमात्रविदस्ति चेत् ।
तृतीयश्शोभते पन्थाः स च द्वावपि दूषयेत् ॥
नैयायिकास्तु तान्सर्वान् दूषयेयुः महाधियः ।
अत्रायमभिसंधिस्स्यात् केवलव्यतिरेकिणः ॥
निरासे वेदविदुषां न्यायशुद्ध्यादिसूचितः ।
हैतुकास्साधयन्त्यत्र केवलव्यतिरेकिणा ॥
यद्यदिच्छन्ति तत्सर्वं स चादौ भज्यते यदि ।
त्र्यंशोऽवरोपितो भारो भवेद्धैतुकभञ्जने ॥
प्रमाणवादारम्भे च तद्विस्तर उदीरितः ।
साध्याप्रसिद्धिः वैषम्यं व्यर्थतोपनयस्य च ॥
अन्वयेनैव सिद्धिश्च व्यतिरेकिणि दूषणम् ।
तत्स्थाने ह्यभिषिञ्चन्ति पञ्चमीं प्रमितिं तु ते ॥
व्यतिरेकव्याप्तिबुद्ध्या साऽन्यथाऽकारि तार्किकैः ।
यच्चानुकूलतर्के सत्यप्रसिद्धविशेषणः ॥
न दोष इति भाषन्ते तार्किकाः तदसङ्गतम् ।
तर्को हि नाप्रसिद्धार्थं क्वचित्साधयितुं क्षमः ॥
अतोऽप्रसिद्धतादोषः तर्के सत्यपि दुस्त्यजः ।
केवलव्यतिरेकी च स क्वचिद्भावगोचरः ॥
अभावगोचरश्चेति द्विविधो विबुधैर्मतः ।
गौरिति व्यवहर्तव्य इति स्याद्भावगोचरः ॥

इतरेभ्यो भिद्यत इत्यभावाविशेषयो मतः ।
व्यावृत्तिर्व्यवहारश्च लक्षणस्य प्रयोजनम् ॥
इति व्यवहृतिः प्राचां विदुषां तन्निबन्धना ।
8 केवलान्वयिहेतुश्च सम्मतो न्यायवेदिभिः ॥
अत एवाविनाभावः दुर्ग्रहः तत्र कथ्यते ।
धर्मादयः प्रमेयत्वात् प्रत्यक्षाः कस्यचित्त्विति ॥
उदाहरन्ति न्यायज्ञाः केवलान्वयिनं क्वचित् ।
इदं वाच्यं ज्ञेयतयेत्यपि क्वापि प्रयुज्यते ॥
तद्दूषयति वादीन्द्रः समाधिस्तत्र हि श्रुतः ।
वाच्यत्वं ज्ञायते चैवं ज्ञेयत्वमभिधीयते ॥
विरोधो व्यक्तिभेदेन यथावदुपशाम्यति ।
वाच्यत्वेऽपि च वाच्यत्वं ज्ञेयत्वे ज्ञेयता तथा ॥
व्यक्तिभेदाद्विरोधस्य शान्तिः बीजाङ्कुरादिवत् ।
नात्माश्रयप्रसक्तिर्वा नान्योन्याश्रयताऽपि वा ॥
प्रमेयत्वाभिधेयत्वप्रसङ्गे इति निर्णयः ।
तथापि विफलं त्वेतदिति केचन जानते ॥
इदं प्रयोजनं ज्ञेयं तत्त्वमुक्ताकलापतः ।
यतो वाचो निवर्तन्त इति श्रुत्येकदेशिनाम् ॥
सद्विवर्तविदां मार्गनिरोधः प्रथमं फलम् ।
दुस्साधं क्वचिदप्येवमवाच्यत्वादि चेत्तदा ॥

अनुमेयवादः 391
किं पुनस्सर्ववचसां प्रतिष्ठा यत्र तत्रतु ।
9 महाविद्या नाम कश्चिद्धेतुः वादीन्द्रसम्मतः ॥
स केवलान्वयी यावत्सपक्षेषु स्थितो मतः ।
महाविद्यासूत्रकर्ता यः कुलार्काभिधो बुधः ॥
महाविद्याप्रवीणश्च शिवादित्याभिधो बुधः ।
तस्यास्ति किंचिद्व्याख्यानं महाविद्याविडम्बनम् ।
तस्य प्रणेता वादीन्द्रः यस्स्याच्छङ्करकिङ्करः ।
विवादाध्यासितं स्वस्वेतरवृत्तित्ववर्जितः ॥
यस्सकर्तृकनिष्ठस्स्यात्तस्याधिकरणं भवेत् ।
प्रमेयत्वात्कलशवत् इत्यादिः केवलान्वयी ॥
एतेन क्षित्यङ्कुरादेस्स्यात्सकर्तृकतेति च ।
तर्कानुकूल्यतस्तत्र बलाबलविनिर्णयः ॥
इति प्राचीनसिद्धान्ताः प्रायस्संगृह्य दर्शिताः ।
वेदान्तसूरिभिर्न्यायपरिशुद्धाविति स्थितम् ॥
(79) अनुमेयवादः.
1 न्यायवार्तिकतात्पर्यटीकायां कारिका इमाः ।
दिङ्नागकथिताः वाचस्पतिमिश्रैरुदाहृताः ॥
केचिद्धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः ।
संबन्धं केचिदिच्छन्ति सिद्धत्वाद्धर्मधर्मिणोः ॥

392 मानमेयरहस्यश्लोकवार्त्तिके
लिङ्गं धर्मे प्रसिद्धं चेत् किमन्यत्तेन मीयते ।
अथ धर्मिणि तस्यैव किमर्थं नानुमेयता ॥
संबन्धेऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति ।
अवाच्योऽनुगृहीतत्वात् न चासौ लिङ्गसंगतः ॥
लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दृश्यते ।
तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयेदिति ॥
२ मीमांसकानां सिद्धान्ते त्वनुमेयमिदं मतम् ।
इदानीं पर्वते वह्निरस्तीत्यनुमितिः भवेत् ॥
देशकालानुरक्तस्य वह्नेः प्रागप्रसिद्धितः ।
सिद्धसाधनशङ्का तु वारितैवं कुमारिलैः ॥
पर्वतस्याग्निरस्तीति संबन्धोऽस्तीति वा तयोः ।
न हि प्रयुञ्जते धीराः संबन्धोऽतो न साध्यते ॥
तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात् प्रमेयता ।
तत्र धर्मी धूम एव प्राच्यतार्किकसम्मता ॥
३ गुरुभिस्त्वन्यथा तत्र निर्णीतं तत्प्रदर्श्यते ।
व्याप्तिग्रहणवेलायां धूमवत्यखिले स्थले ॥
वह्निमत्ताऽस्तीतिबुद्धेः प्रकृते पर्वते पुनः ।
धूमवत्त्वं ग्रहीतव्यं नच तेजस्विता पुनः ॥
सा हि पूर्वगृहीतैव संस्कारात्स्मर्यते तदा ।
प्रत्युत्पन्ननिदानोत्था संगतिस्त्वनुमा ततः ॥

अनुमेयवादः 393
4 सामान्यव्याप्तिसहितपक्षधर्मत्वधीबलात् ।
सामान्ये पक्षनिष्ठत्वं विशेषः न्यायविन्मतः ॥
अनुमेयं च मत्त्वर्थः नान्यशब्दार्थ इत्यतः ।
संबन्धसाध्यतापक्षाक्षेपास्सर्वे निवारिताः ॥
तस्माल्लोकायिताशङ्काः सर्वा अप्याकुलीकृताः ।
इति नैयायिकैकान्तः विश्रुतस्सर्ववादिनाम् ॥
स एव प्रायशस्सर्वैः स्वीकृतो नव्यसूरिभिः ।
निरूढतर्कसंस्काराः सुधियः प्रथमं यतः ॥
5 यत्सिषाधयिषन्त्यत्र तार्किकाः परमेश्वरम् ।
तत्रानुमाने यत्किंचित्प्रसङ्गादिह कथ्यते ॥
प्राधान्येनानुमानं तु त्रिविधं हीशसाधनम् ।
कार्यालिङ्गकमाद्यं स्यात् द्वितीयं वेदलिङ्गकम् ॥
अदृष्टलिङ्गकं चान्यत् विस्तरः कुसुमाञ्जलौ ।
वेदलिङ्गकमेवोपदेशलिङ्गकमुच्यते ॥
विवादाध्यासितं ह्येतत्कार्यत्वात्स्यात्सकर्तृकम् ।
कादाचित्कत्वतः कार्यं सर्ववित्कर्तृपूर्वकम् ॥
अन्वयव्यतिरेक्याद्यं द्वितीयं व्यतिरेकवत् ।
वेदवाक्यं कर्तृपूर्वं वाक्यत्वाद्भारतादिवत् ॥
वेदस्सर्वज्ञप्रणीतः वेदत्वात् व्यतिरेक्यदः ।
अदृष्टं सकलं साक्षात्कर्तृधीमदधिष्ठितम् ॥