सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 427, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 427

व्याप्तिः 38.
भूयोदर्शनगम्या च व्याप्तिस्सामान्यधर्मयोः ।
क्वचिच्च कृत्तिकारोहिण्याद्ययोर्हि विशेषयोः ॥
कैश्चित् यावद्देशकालव्याप्तिधीरङ्गमिश्यते ।
मानं मृगयमाणाश्च प्रत्यक्षं तत्सकृद्विदुः ॥
बालोऽपि दीपकलिकास्पर्शाद्वेत्ति तथा सकृत् ।
योगिप्रत्यक्षतुल्यं तन्मानसं केचिदब्रुवन् ॥
भूयोदर्शनसंजातसंस्कारसचिवं पुनः ।
प्रत्यक्षं चरमं व्याप्तौ मानं केचित्प्रचक्षते ॥
यत्रयत्र भवेद्धूमः तत्रतत्राग्निरित्यसौ ।
यस्स्यादवगमः स्सोऽयं परोक्षो ह्यानुमानिकः ॥
इति कौमारिलाः प्राहुः नाङ्गं यावन्मतिस्ततः ।
अन्वयो व्यतिरेकश्च यथासंभवमिष्यते ॥
नियम्यत्वनियन्तृत्वे भावयोर्यादृशी मते ।
ते एव विपरीते तु विज्ञेये तदभावयोः ॥
गमकस्यैकदेशस्य व्याप्तिं गम्येन भाषितुम् ।
साध्यसाधर्म्यवैधर्म्यदृष्टान्तः प्रतिपाद्यते ॥
तत्र हेत्वर्थमुद्दिश्य साध्योपादानमिष्यते ।
उद्देश्यो व्याप्यते धर्मः व्यापकश्चोत्तरो मतः ॥
यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् ।