मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 425, कुल 672 में से
संदर्भ में पढ़ेंव्याप्तिः ३
नचापूर्वास्तीर्थकराः न भवन्तीति निर्णयः ।
तथात्वे प्रथमैकान्तपरिशेषः प्रसज्यते ॥
(78) व्याप्तिः.
1 अथ व्याप्तिपदार्थीयविकल्पस्यापि संग्रहः ।
तत्प्रमाणविकल्पोऽपि संग्रहादिह सूच्यते ॥
अविनाभावनियमः व्याप्तिस्सौगतसम्मता ।
सा च साध्यवदन्यस्मिन्नसंबन्धो निरुच्यते ॥
व्यतिरेकस्सुग्रहस्स्याद्दुर्ग्रहो यावदन्वयः ।
अतएवाविनाभाव इत्युक्तिः व्यतिरेकतः ॥
व्यतिरेकव्याप्तिरेवानुमानाङ्गतया मता ।
वैधर्म्यतश्च दृष्टान्तः विपक्षाद्विनिवृत्तये ॥
कार्यकारणभावो वा स्वभावो वाऽत्र गृह्यते ।
व्याप्तिग्रहोपायतया तैर्बौद्धैरिति निर्णयः ॥
2 नैयायिकैस्साहचर्यनियमो व्याप्तिरिष्यते ।
तच्च व्यापकसामानाधिकरण्यमितीर्यते ॥
साहचर्यं चान्वयतः तथैव व्यतिरेकतः ।
द्वेधाऽपि सम्मतं तेन लिङ्गं त्रिविधमुच्यते ॥
साहचर्येऽत्र घटकः संबन्धः बहुधा मतः ।
नौलुक्यवच्चतथैव सांख्यवन्नापि सप्तधा ॥