मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 429, कुल 672 में से
संदर्भ में पढ़ेंअवधार्येत सैव स्यादनुमाङ्गमितीतरे ।
इत्थं व्याप्तिविकल्पोऽयं संक्षेपादिह सूचितः ॥
6 अथ साधर्म्यवैधर्म्यविचारे किंचिदुच्यते ।
शाक्या वैधर्म्यवचनं पाक्षिकं नैव सेहिरे ॥
वैधर्म्यमेव वक्तव्यं सर्वदेत्यप्यवादिषुः ।
धूमत्वं नाम सामान्यं न वस्तु परमार्थतः ॥
अस्तु वाऽथापि साधर्म्यं न वक्तुमिह शक्यते ।
अशेषदेशकालेषु दुर्ग्रहः शिखिनोऽन्वयः ॥
विपक्षव्यतिरेकस्तु सुज्ञानः स्याददर्शनात् ।
सुकरं चैकदेशस्थैनैवानग्निष्वदर्शनम् ॥
तस्माद्धूमो ह्यनग्निभ्यो रिच्यमानोऽवबोधकः ।
अनग्निव्यावृत्तिमुखादग्नेरिह विनिश्चयः ॥
अतद्व्यावृत्तिविषयौ लिङ्गशब्दावतो मतौ ।
अत्र प्रत्युक्तिरेषा स्यादपोहश्लोकवार्तिकम् ॥
न चादर्शनमात्रेण ताभ्यां प्रत्यायनं भवेत् ।
सर्वत्रेव ह्यदृष्टत्वात्प्रत्याय्यं नावशिष्यते ॥
अस्य चायमभिप्रायस्संग्रहात्प्रतिपाद्यते ।
विपक्षादर्शनं त्वत्रादर्शनस्वनशब्दितम् ॥
प्रत्यायनं पुनरतद्व्यावृत्तिविषयं मतम् ।
तच्छब्दार्थौ लिङ्गशब्दौ तत्रापोहमतिः क्वचित् ।