मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
गुणवादः 18
पूर्वसंयोगनाशश्चेदौत्तरो योग उच्यते ।
विभक्तसंयुक्ताधियां सांकर्यं दुर्निवारणम् ॥
12 परत्वं चापरत्वं च दैशिकं कालिकं द्वयम् ।
आद्यं संयुक्तसंयोगभूयस्त्वाल्पत्वधीकृतम् ॥
कालिकं सूर्यचलनभूयस्त्वाल्पत्वधीकृतम् ।
भूयस्त्वाल्पत्वबुद्धी ते अपेक्षाबुद्धिसंज्ञिते ॥
ताभ्यामेवान्यथासिद्धिं तयोः केचिद्विदुर्बुधाः ।
बुद्धयधीने हि विज्ञानवादशङ्का प्रसज्यते ॥
विद्यावृत्ताभिजात्यादौ परताऽपरताऽपिच ।
गुणे गुणमजानाद्भिः अखिलैर्व्यपदिश्यते ॥
द्विपरत्वादयो न स्युः द्विपृथक्त्वादिवत्पुनः ।
नीलाविमौ द्वावितिवत् द्वाविमौ च पराविति ॥
सदाऽनवाधिकत्वेन प्रतीतेरिति गम्यताम् ।
द्वित्वैकार्थत्वतश्चापि तेषां स्यादन्यथागतिः ॥
परत्वादिगुणाभावे चाभावो देशकालयोः ।
तद्विस्तरः कालवादे स्थित इत्युपरम्यते ॥
13 गुरुत्वमाद्यपतनासमवायितया गुणः ।
अतीन्द्रियं चाम्बुभूम्योः कल्प्यते किल तार्किकैः
नव्यास्तन्नोपगच्छन्ति वस्त्वधोदेश एवहि ।
गुरुत्वबुद्धिविषयः ततस्स्यात्पतनादिकम् ॥
2 मानमेयरहस्यश्लोकवार्तिके
ततश्चांशप्रभेदः स्याद्गुरुत्वं ततएव हि ।
मारुतः पवते वायुः पोपवीतीति कथ्यते ॥
वह्निः ज्वलति सप्ताचिः जाज्वल्यत इतीर्यते ।
एवं जले च भूमौ च क्रियासमभिहारतः ॥
पततीति प्रयोगस्स्यात् अंशभेदनिबन्धनः ।
लघुत्वमतिरिक्तं च किंवा न स्याद्विभागवत् ॥
तिर्यगूर्ध्वाधोगुरूणीत्याहुः केचिद्दिधात्रयम् ।
तानि वाय्वग्निवारीणि क्रमादिह निदर्शनम् ॥
गुरुत्वातिशयोऽप्येषः यदाक्रमणमुच्यते ।
सांख्यैस्तमःकार्यभूतं गुरुत्वमभिधीयते ॥
पृथिवीजलवृत्त्येतत्पतनस्य प्रयोजकम् ।
तेजःपवनयोरूर्ध्वगतिहेतुर्लघुत्वकम् ॥
सत्त्वकार्यं ह्येषितव्यमिति तान्प्रत्युदीर्यते ।
अदृष्टकारितत्वोक्तिः पृथिव्यादावपीष्यताम् ॥
14 आद्यस्यन्दनहेतुस्तु द्रवत्वमभिधीयते ।
सांसिद्धिकं द्रवत्वं स्यात् नैमित्तिकमथापरम् ॥
सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः ।
पृथिव्यां घृतजत्वादौ सुवर्णादौ च तेजसि ॥
मसृणत्वं तद्विशिष्टं गुरुत्वं स्यन्दयेज्जलम् ।
माषादिषु तथा दृष्टेः द्रवत्वं नातिरिच्यते ॥
गुणवादः 183
मसृणत्वं त्ववयव्यूहः संयोगलक्षणः ।
इति सिद्धान्तयन्त्यन्ये तर्को न प्रतितिष्ठति ॥
15 चूर्णादिपिण्डीभावस्य हेतुः स्नेहो गुणान्तरम् ।
जलमात्रे त्वसाविष्टः नान्यथासिद्धिरन्यतः ॥
तैलादौ पार्थिवे तस्य प्रकर्षाद्दाहहेतुता ।
इति तार्किकसिद्धान्ते प्रत्युक्तिरियमुच्यते ॥
अग्नौ स्नेहविरुद्धं यद्रौक्ष्यं तत्स्याद्गुणान्तरम् ।
द्रव्यस्वभाववादस्तु सुलभस्सर्वसम्मतः ॥
16 लौकिकोऽलौकिकश्चेति संस्कारो द्विविधो मतः ।
वेगादिलक्षणस्त्वाद्यः चोदनालक्षणः परः ॥
वेगः स्थितस्थापकश्च भावनेति त्रिधाऽदिमः ।
मूर्तमात्रे तु वेगस्स्यात् कर्मजः, वेगजः क्वचित् ॥
स्थितस्थापकसंस्कारः क्षित्यादिषु मतः क्वचित् ।
भावनाख्यस्तु संस्कारः जीववृत्तिरतीन्द्रियः ॥
उपेक्षाऽनात्मकस्तस्य निश्चयः कारणं भवेत् ।
अदृष्टं सहदृष्टं च सकृद्दृष्टमिति त्रिधा ॥
सहकारी स्मृतेर्हेतोस्संस्कारस्य प्रदर्श्यते ।
इति तार्किकसिद्धान्तं शक्त्याऽपह्नुवते परे ॥
संस्कारः ज्ञानशक्तिः स्यात् कर्मशक्तेर्विलक्षणा ।
वेगः कर्मविशेषेऽन्तर्भवतीत्यपरे विदुः ॥
184 मानमेयरहस्यश्लोकवार्तिके
संस्थानस्य प्रभेदोऽयं स्थितस्थापकतेत्यपि ।
मीमांसकाः कर्मततिं वेगमाहुर्निरन्तराम् ॥
शरादौ प्रथमं वेगः नोदनेन प्रजायते ।
ततश्च कर्मसंतानः चरमोत्तरदेशजात् ॥
संयोगाद्वेगनाशस्स्यात् इति वैशेषिका विदुः ।
कर्मसंततिवद्वेगसंततिं गौतमा विदुः ॥
चोदनागम्यसंस्कारो बहुधा प्रतिपादितः ।
तद्धेतुर्गुणकर्मेति तच्छक्तिरिति केचन ॥
मीमांसकास्तु संस्कारं तं द्रव्यादिगतं विदुः ।
नैयायिकाः पुनः प्राहुः तं वै पुरुषसंगतम् ॥
स्वभाववादावकाशः वस्तुवादे प्रसज्यते ।
आत्मवादेऽदृष्टवादः, विस्पष्टः कुसुमाञ्जलौ ॥
केचित्तु ज्ञानसंस्कारः कर्मसंस्कार इत्यपि ।
विभजन्ते च तत्राद्यो भावनान्तर्गतो भवेत् ॥
अन्त्यो वीणामृदङ्गादिवाद्यवादनकौशलम् ।
शिल्पादिकौशलं वा स्यात्तत्सर्वं शक्तिसात्कृतम्।
संस्कारो वासना चैव भावनेत्यपि गीयते ।
पूर्वप्रज्ञा प्रत्यभिज्ञा श्रद्धा चैवास्य विस्तरः ॥
स एव ह्यात्मनो रूपं मुख्यमित्यभिधीयते ।
तेनाभ्युदयिकं नैश्श्रेयसं चाहुः विपश्चितः ॥
(41) बुद्धिवादः.
1 देहधातुविशेषो वा विकासो वाऽस्य कश्चन ।
ज्ञानमित्येव वक्तव्यं वरं धर्मिप्रकल्पनात् ॥
हृदयस्थः पित्तभागः प्रकाश इति वैद्यकम् ।
एवं चार्वाकसिद्धान्ते बुद्धिवस्तु विविच्यते ॥
बौद्धा विदुश्चित्तचैत्तमान्तरं बुद्धिलक्षणम् ।
चित्तं ज्ञानं चैत्तमेतत् रागाद्यं बहुधा स्थितम् ॥
तार्किकाः सुखबुद्ध्याद्यानष्टावात्मगुणान्विदुः ।
निमित्तकारणान्यत्वमपि कार्यस्य भेदकम् ॥
तद्भेदात्सुखदुःखाद्याः न विज्ञानात्मका मताः ।
सर्वं सुखं ज्ञानपूर्वं न ज्ञानं ज्ञानपूर्वकम् ॥
गर्भादौ च प्रबोधादौ प्रथमज्ञानसंभवात् ।
सांख्याः बुद्धिपरीणामाः बुद्ध्याद्या इति जानते॥
सर्वेऽप्यात्मपरीणामाः इत्याहुः शाबराः पुनः ।
कौमारिला आर्हताश्च तथौपनिषदा अपि ॥
कैश्चित्तु धर्मभूतस्य ज्ञानस्य परिणामिनः ।
एते विकारास्तेनात्मा सुखाद्याधार इष्यते ॥
आनुकूल्यप्रातिकूल्योपेक्षावस्थाविभेदतः ।
बुद्धिरेव सुखं दुःखमुपेक्षेत्यपि शब्द्यते ॥
इच्छाद्वेषादिकं बुद्धेः प्रपञ्चः स्यादिहान्यथा ।
ईर्ष्याभ्यसूयाकरुणाभयधैर्यबलादयः ॥
M.R.
186 मानमेयरहस्यश्लोकवार्तिके
इच्छाद्वेषादिवत्किं वा न भवेयुः पृथग्गु[णाः]
केचिदिच्छाप्रभेदं तद्रागद्वेषादिकं विदुः
रागोऽनुकूलविषयोपादानेच्छेति निर्णय[ः]
प्रतिकूलजिहासा तु द्वेष इत्यभिधीयते
तावेव तीव्रभावेन कामक्रोधाविति स्थि[तिः]
अशनायापिपासाद्यास्सहस्रं स्युरिहान[न्ताः]
तस्माद्द्वेषो विशेषः स्यादिच्छाया इति [...]
2 शृङ्गारादिरसाश्चापि बुद्धिभेदाः प्रकी[र्तिताः]
शृङ्गारवीरबीभत्सरौद्राद्याः स्यु रसा [...]
बुद्धेरात्मस्वरूपत्वे त्वात्मैव रस उच्य[ते]
बुद्धेरात्मगुणत्वे तु गुणा एव रसा म[ताः]
बुद्धेश्चित्तस्वरूपत्वे सत्वोद्रेको रसो भ[वेत्]
बुद्धेस्स्वयंप्रकाशत्वे स्वयंवेद्यो रसो [...]
बुद्धेर्मानसपक्षे तु सोऽपि मानस उ[च्यते]
बुद्धिर्यद्यनुमेया स्यात्तदा चानुमितो[...]
एवं सिद्धान्तभेदेन रसतत्त्वं विकल्प[ते]
बुद्धेः प्रपञ्चः प्रामाण्यवादे सम्यग्वि[विच्यते]
सुखदुःखेच्छादयस्तु गुणास्स्युर्बुद्धिरूपि[णः]
3 प्रयत्नोऽपि धियो भेदः पौरुषेयी कृ[तिर्मता]
सर्वत्राख्यातवाच्यैषा या त्वार्थी भ[ावना...]
[Header] बुद्धिपादः 187
वाक्यार्थवादे तत्तत्त्वं स्फुटमग्रे भविष्यति ।
प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥
एवं प्रयत्नत्रैविध्यं तार्किकैः परिकीर्तितम् ।
तत्र जीवनयोनिर्यः स च कैश्चिन्न कल्प्यते ॥
अदृष्टादेव च प्राणसंचारं ते विदुर्बुधाः ।
प्रवृत्त्यभाव एव स्यान्निवृत्तिरिति केचन ॥
निवृत्त्यभावः प्रवृत्तिरित्याशङ्का दुरुत्तरा ।
निवृत्तिर्यत्नभेदस्स्यादिति नव्याः विदुर्बुधाः ॥
4 आनुकूल्यप्रातिकूल्येवेद्यता सुखदुःखयोः ।
लक्षणं तत्रानुकूलं सुखं, दुःखं विपर्ययः ॥
प्रायो विदितमेवैतत् कैश्चिद्वेदान्तिभिः पुनः ।
अनुकूलतया वेद्यं सर्वं सुखमितीष्यते ॥
प्रतिकूलतया वेद्यं सर्वं दुःखमिति स्मृतम् ।
अतः सर्वे पदार्थास्स्युः सुखदुःखपदाभिधाः ॥
सैषाऽऽनन्दस्य मीमांसा युवा स्यादित्युपक्रमात्
अनुकूलतया वेद्यं सर्वमानन्दमब्रवीत् ॥
आनुकूल्यं विषयताविशेषः सर्वगामि तत् ।
तस्मात्सर्वं सुखं यद्वा तज्ज्ञानं सुखमिष्यते ॥
तद्धेतोरेव तत्त्वे तु किं वस्त्वन्तरचिन्तया ।
तस्मादविदितावस्थायोगित्वं तस्य नेष्यते ॥
188 मानमेयरहस्यश्लोकवार्तिके
साक्षिवेद्यत्वसिद्धान्तः पर्यायादयमेवहि ।
स्वप्रकाशात्मवादो वा सर्वमेकफलोन्मुखम् ॥
अत्रैव शाक्यभिक्षूक्तं वचनं त्ववधार्यताम् ।
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ॥
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ।
विकल्पो यदि बाह्येऽपि किं वक्तव्यमिहान्तरे ॥
(42) प्राकट्यवादः.
1 अथ बुद्धिप्रसङ्गेन प्राकट्यमिह कथ्यते ।
भाट्टदृष्टः प्रकटता गुणः न तु परैः बुधैः ॥
घटो हि विद्यमानोऽपि कस्यचिद्व्यवहार्यताम् ।
प्रपद्यते न सर्वेषामथवा नापि सर्वदा ॥
तस्माद्यदा व्यवहरेत् चेतनोऽसौ घटादिना ।
तदा तद्व्यवहारस्यानुगुणोऽतिशयोऽस्ति यः ॥
स ज्ञानमिति सर्वेऽपि कल्पयन्ति परीक्षकाः ।
उत्पन्नमेव तत् ज्ञानं प्रत्यक्षमिति केचन ॥
ज्ञानजन्यादतिशयादनुमेयमितीतरे ।
कीर्त्यतेऽसौ प्रकटता दृष्टता ज्ञाततेति च ॥
सामान्यतस्तु प्राकट्यमिति तैः परिभाष्यते ।
दृष्टता जायतेऽध्यक्षात्परोक्षात् ज्ञाततेत्यपि ॥
प्राकट्यवादः 18
तत्रापरोक्षं दृष्टत्वं घटो दृष्टो मयेति हि ।
दृष्टत्वमनुसंधत्ते सर्वोऽप्यर्थस्य चात्मना ॥
नान्यथा ह्यर्थसद्भावो दृष्टस्सन्नोपपद्यते ।
ज्ञानं चेन्नेत्यतः पश्चात्प्रमाणमुपजायते ॥
तथैवानुमिते ह्यर्थे मया ज्ञातोऽग्निरित्यपि ।
ज्ञातत्वमनुसंधत्ते ज्ञातता नाक्षगोचरा ॥
अथाप्यत्रोपपत्तिं ते सूक्ष्मदृष्ट्या प्रचक्षते ।
ज्ञातता ह्यात्मनोऽर्थेन संबन्धः प्राप्तिलक्षणः ॥
कर्तृकर्मात्मनोर्मातृमेययोराप्तिरेव सा ।
सैव प्राकट्यदृष्टत्वज्ञातत्वादिपदोदिता ॥
व्यापारोऽवश्यवक्तव्यः पुमान् येन प्रवर्तितः ।
अर्थोऽपि प्रापितश्च स्यात्प्रमेयाधिगतिर्हि सा ॥
मानसाध्यक्षवेद्या सा परोक्षो विषयो यदि ।
कल्पयेदेव विज्ञानमन्यथाऽनुपपत्तितः ॥
तं पदार्थान्तरं प्राहुः प्राकट्यमिति पण्डिताः ।
एवं प्राकट्यतत्त्वार्थो न्यायरत्नाकरे स्फुटः ॥
२ संविदं स्वप्रकाशां तु मन्यन्ते ये च तन्मते ।
स्वोत्पत्तिसमये संवित् वेत्तारं वेद्यमेव च ॥
स्वस्वरूपं भासयति न त्वेषां तु परस्परम् ।
संबन्धं स्वस्वरूपस्यानिष्पन्नत्वादसत्त्वतः ॥
190 मानमेयरहस्यश्लोकवार्तिके
संविदन्तरनिष्पत्तिसमये पूर्वसंविदः ।
नष्टत्वादुक्तसंबन्धो न तद्गोचरतामियात् ॥
किंतु संवेत्तृधर्मोऽसौ प्राप्त्याख्यः स्वात्मसाक्षिकः।
निष्पन्नायां तु संवित्तौ स संबन्धोऽवभासते ॥
ततएवच संवित्तिवस्तुकल्पनसंभवात् ।
संवित्तैः स्वप्रकाशत्वकल्पना गुरुताऽऽहृता ॥
3 प्राकट्यं स्यात् ज्ञानधर्मः इत्याहुः किल सौगताः ।
आत्मधर्म इति प्राहुः प्राभाकरमतानुगाः॥
प्राकट्यं नाम सर्वेषु विषयेषु स्थितो गुणः ।
इति कौमारिलाः प्राहुः हेतुः प्रागेव विस्तृतः ॥
ज्ञानार्थयोश्च संबन्धः यस्स्याद्विषयताऽऽत्मकः ।
स ज्ञानरूप एवेति नैयायिकमुखा विदुः ॥
अतिरिक्तं पदार्थं तं नव्यनैयायिका विदुः ।
विषयत्वविकल्पस्तु संबन्धेऽत्र प्रपञ्च्यते ॥
सर्वासां च प्रतीतीनां बुद्धिसंबन्धमात्रतः ।
उपपत्तेः प्रकाशोऽन्यैः तदन्यो नाभ्युपेयते ॥
यदि कल्प्येत विषये प्राकट्यं व्यवहारतः ।
तद्धेतुत्वेन कल्प्या धीः तत्फलार्थं प्रकल्प्यताम् ॥
यदि तत्रैव तस्यैव प्राकट्यं ते धिया भवेत् ।
तथा ज्ञानादयोऽपि स्युः किमन्तर्गडुनाऽमुना ॥
प्राकट्यं प्रकटं वा स्यादन्यतः स्वत एव वा ।
आयेऽनवस्थितिशेषे बुद्धिरैव तथा न किम् ॥
स्वदते मोदत इति यथा भाति घटस्तथा ।
शब्दानां नियतिस्सेयं नार्थधर्मप्रसाधकम् ॥
इष्टता द्विषता चैव कृतता च प्रनष्टता ।
तथा संस्कृतता च स्यात् अधिका ज्ञातता यथा।
प्राकट्यं हि गुणः प्रोक्तस्स रूपादी कथं भवेत् ।
गतिक्रियायाः कर्मत्वं प्राप्त्या चेत्फलरूपया ॥
प्राप्तिक्रियायाः कर्मत्वं किमन्यदिह कथ्यते ।
तस्मात्प्राकट्यसिद्धान्तः मतिजाड्यनिबन्धनः ॥
ज्ञानस्य द्रव्यरूपत्वे स स्यात्संयोगलक्षणः ।
दृग्दृश्यसंगतिं चान्ये दुर्निरूपां विदुर्बुधाः ॥
स योगाचारमार्गः स्यात्तादात्म्ये पर्यवस्यति ।
तद्बाधूननायैव प्राकट्यपरिरक्षणम् ॥
(43) शब्दवादः.
1 वैभाषिकास्तु शब्दादीन् पञ्चधाऽणून् प्रचक्षते ।
शब्दात्मानश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥
अणवस्सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः ।
छायातपतमश्शब्दभावेन परिणामिनः ॥
192 मानमेयरहस्यश्लोकवार्तिके
स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः ।
अभ्राणीव प्रचीयन्ते शब्दाद्या इति तन्मतम् ॥
2 निरोधोत्पत्तिधर्मं च शब्दं वस्त्वन्तरं परे ।
अनाश्रितं महाभूतसंक्षोभजनितं विदुः ॥
3 शब्दस्यावयवास्सूक्ष्माः सन्ति केचन पुद्गलाः ।
तैर्वर्णो जायते तैश्च शब्दोऽन्योऽवयवी भवेत् ॥
स च क्रियाश्रयः स्पर्शगुणवान् त्वग्गोचरः ।
महत्त्वाणुत्वगुणवानुद्भवाभिभवाश्रयः ॥
स्वभूमेस्सोऽभिनिष्क्रम्य तिर्यगूर्ध्वमधोऽपि च ।
पुंसां श्रुत्यन्तरं चोपसर्पतीत्यार्हतं मतम् ॥
4 अजस्रमूर्तिर्यश्शब्दः सूक्ष्मत्वान्नोपलभ्यते ।
व्यजनाद्वायुरिव सः स्वनिमित्तात्प्रतीयते ॥
स एव कैश्चित्कुशलैराकाश इति पठ्यते ।
इत्याहुरपरे शब्दसाक्षात्कारविचक्षणाः ॥
5 अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन स्फोटं तं मनुते हरिः ॥
शब्दब्रह्म यदेकं यच्चैतन्यं प्राणिनां तथा ।
इदं त्रिभुवनं सर्वं यत्परिणाम इत्यपि ॥
हलायुधोऽब्रवीदेवं तथाऽऽलंकारिका विदुः ।
देवतां कांचिदुद्दिश्य भक्त्या यो वक्ति किंचन ॥
शब्दवादः 193
तस्य दोषं न यत्किंचिन्मनसाऽपि विचिन्तयेत् ।
इति चोक्तं परमतभङ्गे भागे चतुर्दशे ॥
नादैराहितबीजायां अन्त्येन ध्वनिना सह।
आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥
अप्रच्युतस्वभावस्य तत्त्वादेकस्य वस्तुनः ।
स विवर्तो विभक्तान्यरूपोपग्राहिता तु या ॥
भेदानुकारेणासत्या स्वाप्नार्थप्रतिभासवत् ।
तद्वाक्यपदवर्णादिभेदस्सर्वो विकल्पना ॥
6 अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता।
वर्णाः पदानि वाक्यानि व्यक्तयो व्यक्तिहेतवः ॥
7 कौष्ठ्यो बहिर्निस्सरति समीरण इति स्फुटम् ।
स गच्छन् सर्वतोदिक्कः स्तिमितानिलनोदनम् ॥
करोति कर्णाकाशे च प्रयाति श्रुतियोग्यताम् ।
स मूर्तः प्रसरन् मूर्तैः अपरैः प्रतिहन्यते ॥
कुड्यादिभिरतो नास्य श्रुतिर्व्यवहितात्मनः ।
इति वायुं तत्क्रियां वा शब्दं शिक्षाविदो विदुः ॥
वायो त्वमेव प्रत्यक्षं ब्रह्मासीति नमोऽस्तु ते ।
इति शान्तिं तैत्तिरीयाः पठन्त्युपनिषन्मुखे ॥
8 गन्धादिसहसंस्थानः पञ्चभूतेष्ववस्थितः ।
शब्दोऽभिव्यक्तिधर्मेति प्रसिद्धं कापिलं मतम् ॥
M.R. 25
194 मानमेयरहस्यश्लोकवार्तिके
9 आकाशस्य गुणश्शब्दो यस्संयोगविभागजः ।
वर्णध्वन्यात्मकः गत्वगान्धारत्वादिजातिमान् ॥
उत्पन्नः को विनष्टः कः इति बुद्धेरनित्यता ।
तदेवौषधमित्यादितुल्यस्सोऽयमिति भ्रमः ॥
क्षणिकस्स्वसजातीयशब्दमारभते पुनः ।
तारङ्गान्मोकुलाद्वाऽपि न्यायादिति हि तार्किकाः ॥
10 भगवानुपवर्षोऽपि मतान्येतान्यधिक्षिपन् ।
गौरित्यत्राथ कश्शब्दः इत्याद्याहेति शाबरम् ॥
वर्णात्मकास्तु ये शब्दा नित्यास्सर्वगतास्तथा ।
पृथग्द्रव्यतया ते तु न गुणाः कस्यचिन्मताः ॥
वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते ।
पदे न वर्णा भिद्यन्ते वर्णेष्ववयवा न च ॥
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ।
ह्रस्वोदात्तद्रुतत्वादिधर्माः व्यञ्जकसंस्थिताः ॥
अध्यस्ता अपि वर्णेषु प्रतीत्यौपयिका मताः ।
व्यञ्जकस्तु ध्वनिस्सोऽयं वायुर्वा तद्गुणोऽस्तु वा ॥
अभिव्यञ्जकनानात्वात् वर्णो नानेव लक्ष्यते ।
नेत्रवृत्तिविभेदेन वर्णस्तैमिरिकैरिव ॥
यथा तुरगदेहस्थो वेगः पुंसोऽर्थसिद्धये ।
ध्वनिधर्मोऽपि दीर्घादिः वर्णानामुपकारकः ॥
शब्दवादः 195
यथा सर्वगता जातिः पिण्डदेशैव गृह्यते ।
नच कात्स्न्र्यगृहीताऽपि पिण्डेऽन्यत्र न दृश्यते ॥
तथा सर्वगतश्शब्दः नाददेशेषु गृह्यते ।
कात्स्न्र्येन च गृहीतोऽपि पुनरन्यत्र गृह्यते ॥
पिण्डोऽभिव्यञ्जको जातेः वर्णस्य व्यञ्जको ध्वनिः।
आश्रितानाश्रितत्वादिविशेषः क्वोपयुज्यते ॥
प्रतिभावाक्यवाक्यार्थवादाद्यनवकाशिनी ।
शब्दस्य नित्यता वर्णलक्षणस्यैव साध्यते ॥
11 व्यवहारानादितायै सैषा कूटस्थनित्यता ।
प्रवाहतस्तु नित्यत्वं क्रमस्याभ्युपगम्यते ॥
क्रमस्य कालरूपत्वात् कालो नित्यो विभुस्ततः ।
क्रमोऽपि कूटस्थनित्य इति केचिद्विदुर्बुधाः ॥
शब्दत्वं परसामान्यमपरं स्वरतादिकम् ।
गत्वादिकं न सामान्यं एकव्यक्त्याख्यदोषतः॥
वर्णा एवावगम्यन्ते न पूर्वापरवस्तुनी ।
वर्णकारणभूता येऽवयवाः पूर्वशब्दिताः ॥
गत्वमत्वं चावयवी गोशब्दत्वं गणोऽपि वा ।
स्फोटश्चेति विकल्पाश्चापरशब्दविवक्षिताः ॥
प्रयोजनं तु यज्जात्या तद्वर्णादेव जायते ।
व्यक्तिलभ्यं तु नादेभ्यः इति गत्वादिधीः वृथा ॥
196 मानमेयरहस्यश्लोकवार्तिके
त्रिगुणः पौद्गलो वाऽयं आकाशस्याथवा गुणः ।
वर्णादन्योऽथ नादात्मा वायुरूपोऽर्थवाचकः ॥
पदवाक्यात्मकः स्फोटः सारूप्यान्यनिवर्तने ।
एतेषामस्त्वनित्यत्वं नास्माकं तेषु नित्यता ॥
प्रत्यभिज्ञा यदा शब्दे जागर्ति निरवग्रहा ।
अनित्यत्वानुमानानि सैव सर्वाणि बाधते ॥
नादेन संस्कृताच्छ्रोत्राद्यदा शब्दः प्रतीयते ।
तदुपश्लेषतस्तस्य बोधं केचित्प्रचक्षते ॥
नैव वा ग्रहणं तेषां शब्दे बुद्धिस्तु तद्वशात् ।
संस्कारानुकृतेः, यद्वत् महत्त्वाद्यवगम्यते ॥
12 एवं सिद्धान्तयन्त्यत्र कुमारिलविपश्चितः ।
अपिचैते स्फोटवादे नैयायिकमतेऽपि नः ॥
व्यक्त्याकृतिकृतो भेदो यद्यप्येकान्ततो भवेत् ।
वर्णेषु, जैमिनेः पक्षः तथाऽपि न विरोत्स्यते ॥
नित्यत्वयत्नस्सर्वोऽपि गत्वादिषु भविष्यति ।
गकारादिवचस्त्वेतत्तेष्वेव न विरोत्स्यते ॥
इति स्पष्टं यतः प्राहुः युक्तिज्ञास्सरलाशयाः ।
अतस्तार्किकसिद्धान्तो नानिष्ट इति गम्यते ॥
कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः ।
वर्णोऽप्येको गकारादिरिति युक्तिर्गरीयसी ॥
शब्दवादः 197
शब्दनित्यत्ववादे हि विस्तरेण निरूपिता ।
तस्मात्सर्वेऽपि सिद्धान्ताः विश्रान्ताः किल युक्तिषु।
13 इति कौमारिलमतमथ प्राभाकराः पुनः ।
नभोगुणं ध्वनिं शब्दं वर्णं चापि प्रचक्षते ॥
14 भर्तृमित्रस्तु वदति श्रोत्रं नाम न किंचन ।
ध्वनिजन्यो हि संस्कारः श्रोत्रमित्युच्यते त्विति॥
ध्वनिर्विषयसंस्कारं श्रोत्रसंस्कारमेव वा ।
करोति न तु संस्कारमात्रं श्रोत्रमितीतरे ॥
15 श्रोत्रमप्राप्यकारीति प्राहुस्तथागताः पुनः ।
श्रोत्रवृत्तिश्शब्ददेशं गच्छतीति हि कापिलाः ॥
शब्दस्स्वभूमेर्निष्क्रम्य सर्पतीत्यार्हतं मतम् ।
स्वस्मिन् गृह्णाति संभूतमिति तार्किकपद्धतिः ॥
ध्वनयश्श्रवणग्राह्याः वर्णाः व्यज्यन्त इत्यपि ।
वर्णनित्यत्वसिद्धान्ते प्राहुर्मीमांसका बुधाः ॥
16 वेदानित्यत्वभीत्यैव स्थाप्यते वर्णनित्यता ।
शब्दनित्यत्ववादस्थं वार्तिकं त्ववधार्यताम् ॥
स्थिते कूटस्थनित्यत्वे व्यवहारस्य नित्यता ।
कूटस्थेन विनैतेन न तस्यालम्बनं भवेत् ॥
प्रसिद्धत्वाद्दृते सर्वो व्यवहारो हि नेष्यते ।
तस्माद्वेदप्रमाणार्थं नित्यत्वमिह साध्यते ॥
198 मानमेयरहस्यश्लोकवार्तिके
नित्येषु सत्सु वर्णेषु व्यवहारात्क्रमोदयः ।
घटादिरचना यद्वत् नित्येषु परमाणुषु ॥
अणुकल्पाश्च वर्णांशाः न सन्त्यनुपलम्भनात् ।
द्रष्टव्यो विस्तरस्तत्र, चेत्कुतूहलशीलता ॥
तस्माच्छ्रोत्रग्राह्यतैव शब्दलक्षणमिष्यते ।
अर्थप्रत्यायकत्वं तु स्फोटवादिभिरुच्यते ॥
तत्रेतरैषां सिद्धान्तस्वान्तमित्थं विचिन्त्यते ।
वर्णानामेव वेदत्वे वाङ्मात्रं नित्यमापतेत् ॥
नहि वर्णाः स्वयं वेदाः वाक्यं तद्व्यपदेशभाक् ।
अस्वातन्त्र्यं तु संदर्भे स्यात्प्रवाहनिबन्धनम् ॥
तत्र प्रवाहनित्यत्वं संदर्भेऽपि समत्यजन् ।
तार्किका हीश्वरत्वं स्यात्तदानीं पुष्कलं त्विति ॥
(44) ध्वनिवादः.
1 एवं वर्णविकल्पोऽत्र संगृहीतः प्रमाणतः ।
अथ ध्वनिविकल्पोऽपि विद्वद्भिः श्रूयतां मुदे ॥
शब्दत्वं नाम सामान्यं ध्वनिमाहुः परे बुधाः ।
ध्वनिborder/नादश्च -> ध्वनिborder/नादश्च -> ध्वनिborder/नादश्च -> ध्वनिborder: ध्वनिborder -> ध्वनिborder -> ध्वनिनादश्च घोषश्चेत्यनर्थान्तरवादिनः ॥
अतएव हि संस्थासु दूरस्थैः श्रूयते ध्वनिः ।
न व्यञ्जनं न स्वरो वा न पदं वाक्यमेववा ॥
शब्दाः स्युस्तन्मते नूनं स्वरव्यञ्जनलक्षणाः ।
ततो विशेषसामान्यभा क्स्स्यात् ध्वनिशब्दयोः ॥
२ शब्दत्वव्याप्यसामान्यं ध्वनित्वं कतिचिद्विदुः ।
मतमेतत्तु बहुशो भवेत्तार्किकसम्मतम् ॥
३ अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ।
शाब्दिकैः व्यक्तयस्तास्तु ध्वनित्वेन प्रकल्पिताः ॥
तन्मते ध्वनयो ज्ञेयाः स्वरव्यञ्जनलक्षणाः ।
४ अनित्यस्फोटपक्षे तु ध्वनितत्त्वमिदं मतम् ॥
यः शब्दः प्रथमं जातः स स्फोट इति कीर्त्यते ।
तद्रूपप्रतिबिम्बावग्राहिणः सर्वतोमुखाः ॥
मन्दप्रदीपप्रकाशरूपभानक्रमेण ये ।
भासमानाः श्रुतिं वाणीं ध्वनयो विभजन्ति ते ॥
५ स्फोटानित्यत्वपक्षे तु यस्संयोगविभागजः ।
स ध्वनिः तदभिव्यङ्ग्यः स्फोटो वर्णविभागशः ॥
६ आदौ कारणतो जातः शब्दः कैश्चित् ध्वनिः स्मृतः।
नादो द्वितीयादिशब्दः तद्व्यङ्ग्यः स्फोट इष्यते ॥
७ तथाऽऽकाशगुणश्शब्दः ध्वनिस्स्यात् गौरवे मते ।
वर्णास्ते तदभिव्यङ्ग्याः तेऽप्याकाशगुणा मताः ॥
८ वायुसंयोगादिरेव संयुक्तादिस्स एव वा ।
ध्वनिरित्याहुरपरे वायव्यध्वनिवादिनः ॥
200 मानमेयरहस्यश्लोकवार्तिके
यद्वा वायुगुणश्शब्दो ध्वनिनादपदाभिधः ।
पूर्वकल्पेऽतीन्द्रियस्स्यात् द्वितीये श्रुतिगोचरः ॥
9 ध्वनिनादश्च घोषश्च वीणाघण्टादिभेदतः ।
प्रायेण व्यवहारेण विभिन्ना लोकविश्रुताः ॥
एवं ध्वनिविकल्पस्तु बहुधा प्रसमीक्ष्यते ।
शब्दनित्यत्वाधिकृतौ वाक्यपद्यां च विस्तृतः ॥
(45) अदृष्टवादः.
1 धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् ।
गङ्गास्नानादियागादेः व्यापारस्स तु कीर्तितः ॥
नाश्यस्त्वसौ कर्मनाशास्पर्शसंकीर्तनादिना ।
अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः ॥
प्रायश्चित्तादिना नाश्यः जीववृत्ती त्विमौ गुणौ ।
संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥
स्वगुणाः परमाणूनां विशेषाः पाकजा मताः ।
इमौ तु तत्त्वविज्ञानादपि क्वापि विनश्यतः ॥
अपूर्वं कर्मनिर्वर्त्यं वृद्धमीमांसका विदुः ।
2 शाबरा ब्रुवते धर्मं कर्म यागादिलक्षणम् ॥
तस्मात्फले प्रवृत्तस्य यागादेश्शक्तिमात्रकम् ।
उत्पत्तौ वाऽपि पश्चादेः अपूर्वं न ततः पृथक् ॥