मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 226, कुल 672 में से
संदर्भ में पढ़ें184 मानमेयरहस्यश्लोकवार्तिके
संस्थानस्य प्रभेदोऽयं स्थितस्थापकतेत्यपि ।
मीमांसकाः कर्मततिं वेगमाहुर्निरन्तराम् ॥
शरादौ प्रथमं वेगः नोदनेन प्रजायते ।
ततश्च कर्मसंतानः चरमोत्तरदेशजात् ॥
संयोगाद्वेगनाशस्स्यात् इति वैशेषिका विदुः ।
कर्मसंततिवद्वेगसंततिं गौतमा विदुः ॥
चोदनागम्यसंस्कारो बहुधा प्रतिपादितः ।
तद्धेतुर्गुणकर्मेति तच्छक्तिरिति केचन ॥
मीमांसकास्तु संस्कारं तं द्रव्यादिगतं विदुः ।
नैयायिकाः पुनः प्राहुः तं वै पुरुषसंगतम् ॥
स्वभाववादावकाशः वस्तुवादे प्रसज्यते ।
आत्मवादेऽदृष्टवादः, विस्पष्टः कुसुमाञ्जलौ ॥
केचित्तु ज्ञानसंस्कारः कर्मसंस्कार इत्यपि ।
विभजन्ते च तत्राद्यो भावनान्तर्गतो भवेत् ॥
अन्त्यो वीणामृदङ्गादिवाद्यवादनकौशलम् ।
शिल्पादिकौशलं वा स्यात्तत्सर्वं शक्तिसात्कृतम्।
संस्कारो वासना चैव भावनेत्यपि गीयते ।
पूर्वप्रज्ञा प्रत्यभिज्ञा श्रद्धा चैवास्य विस्तरः ॥
स एव ह्यात्मनो रूपं मुख्यमित्यभिधीयते ।
तेनाभ्युदयिकं नैश्श्रेयसं चाहुः विपश्चितः ॥