मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 236, कुल 672 में से
संदर्भ में पढ़ें194 मानमेयरहस्यश्लोकवार्तिके
9 आकाशस्य गुणश्शब्दो यस्संयोगविभागजः ।
वर्णध्वन्यात्मकः गत्वगान्धारत्वादिजातिमान् ॥
उत्पन्नः को विनष्टः कः इति बुद्धेरनित्यता ।
तदेवौषधमित्यादितुल्यस्सोऽयमिति भ्रमः ॥
क्षणिकस्स्वसजातीयशब्दमारभते पुनः ।
तारङ्गान्मोकुलाद्वाऽपि न्यायादिति हि तार्किकाः ॥
10 भगवानुपवर्षोऽपि मतान्येतान्यधिक्षिपन् ।
गौरित्यत्राथ कश्शब्दः इत्याद्याहेति शाबरम् ॥
वर्णात्मकास्तु ये शब्दा नित्यास्सर्वगतास्तथा ।
पृथग्द्रव्यतया ते तु न गुणाः कस्यचिन्मताः ॥
वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते ।
पदे न वर्णा भिद्यन्ते वर्णेष्ववयवा न च ॥
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ।
ह्रस्वोदात्तद्रुतत्वादिधर्माः व्यञ्जकसंस्थिताः ॥
अध्यस्ता अपि वर्णेषु प्रतीत्यौपयिका मताः ।
व्यञ्जकस्तु ध्वनिस्सोऽयं वायुर्वा तद्गुणोऽस्तु वा ॥
अभिव्यञ्जकनानात्वात् वर्णो नानेव लक्ष्यते ।
नेत्रवृत्तिविभेदेन वर्णस्तैमिरिकैरिव ॥
यथा तुरगदेहस्थो वेगः पुंसोऽर्थसिद्धये ।
ध्वनिधर्मोऽपि दीर्घादिः वर्णानामुपकारकः ॥