मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 225, कुल 672 में से
संदर्भ में पढ़ेंगुणवादः 183
मसृणत्वं त्ववयव्यूहः संयोगलक्षणः ।
इति सिद्धान्तयन्त्यन्ये तर्को न प्रतितिष्ठति ॥
15 चूर्णादिपिण्डीभावस्य हेतुः स्नेहो गुणान्तरम् ।
जलमात्रे त्वसाविष्टः नान्यथासिद्धिरन्यतः ॥
तैलादौ पार्थिवे तस्य प्रकर्षाद्दाहहेतुता ।
इति तार्किकसिद्धान्ते प्रत्युक्तिरियमुच्यते ॥
अग्नौ स्नेहविरुद्धं यद्रौक्ष्यं तत्स्याद्गुणान्तरम् ।
द्रव्यस्वभाववादस्तु सुलभस्सर्वसम्मतः ॥
16 लौकिकोऽलौकिकश्चेति संस्कारो द्विविधो मतः ।
वेगादिलक्षणस्त्वाद्यः चोदनालक्षणः परः ॥
वेगः स्थितस्थापकश्च भावनेति त्रिधाऽदिमः ।
मूर्तमात्रे तु वेगस्स्यात् कर्मजः, वेगजः क्वचित् ॥
स्थितस्थापकसंस्कारः क्षित्यादिषु मतः क्वचित् ।
भावनाख्यस्तु संस्कारः जीववृत्तिरतीन्द्रियः ॥
उपेक्षाऽनात्मकस्तस्य निश्चयः कारणं भवेत् ।
अदृष्टं सहदृष्टं च सकृद्दृष्टमिति त्रिधा ॥
सहकारी स्मृतेर्हेतोस्संस्कारस्य प्रदर्श्यते ।
इति तार्किकसिद्धान्तं शक्त्याऽपह्नुवते परे ॥
संस्कारः ज्ञानशक्तिः स्यात् कर्मशक्तेर्विलक्षणा ।
वेगः कर्मविशेषेऽन्तर्भवतीत्यपरे विदुः ॥