सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 239, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 239

शब्दवादः 197
शब्दनित्यत्ववादे हि विस्तरेण निरूपिता ।
तस्मात्सर्वेऽपि सिद्धान्ताः विश्रान्ताः किल युक्तिषु।
13 इति कौमारिलमतमथ प्राभाकराः पुनः ।
नभोगुणं ध्वनिं शब्दं वर्णं चापि प्रचक्षते ॥
14 भर्तृमित्रस्तु वदति श्रोत्रं नाम न किंचन ।
ध्वनिजन्यो हि संस्कारः श्रोत्रमित्युच्यते त्विति॥
ध्वनिर्विषयसंस्कारं श्रोत्रसंस्कारमेव वा ।
करोति न तु संस्कारमात्रं श्रोत्रमितीतरे ॥
15 श्रोत्रमप्राप्यकारीति प्राहुस्तथागताः पुनः ।
श्रोत्रवृत्तिश्शब्ददेशं गच्छतीति हि कापिलाः ॥
शब्दस्स्वभूमेर्निष्क्रम्य सर्पतीत्यार्हतं मतम् ।
स्वस्मिन् गृह्णाति संभूतमिति तार्किकपद्धतिः ॥
ध्वनयश्श्रवणग्राह्याः वर्णाः व्यज्यन्त इत्यपि ।
वर्णनित्यत्वसिद्धान्ते प्राहुर्मीमांसका बुधाः ॥
16 वेदानित्यत्वभीत्यैव स्थाप्यते वर्णनित्यता ।
शब्दनित्यत्ववादस्थं वार्तिकं त्ववधार्यताम् ॥
स्थिते कूटस्थनित्यत्वे व्यवहारस्य नित्यता ।
कूटस्थेन विनैतेन न तस्यालम्बनं भवेत् ॥
प्रसिद्धत्वाद्दृते सर्वो व्यवहारो हि नेष्यते ।
तस्माद्वेदप्रमाणार्थं नित्यत्वमिह साध्यते ॥