मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
शरीरवादः 113
ते सूक्ष्मदेहाः नियताः लिङ्गाख्याः प्रथमा इमे ।
षाट्कौशिकाः स्थूलदेहाः ये मातापितृसंभवाः ॥
निवर्तन्ते प्रजायन्ते प्रभूताः स्थावरा मताः ।
घटादीनां निवेशोऽत्रेत्येवं त्रैविध्यमीरितम् ॥
इति सांख्योक्तसिद्धान्तं प्राय इच्छन्ति सूरयः ।
नैयायिकादयो नोपयन्तीदं तत्त्वविप्लवात् ॥
विभ्वात्मवादे गत्युक्तिस्सर्वत्रैवौपचारिकी ।
जन्मान्तरोपपत्तिश्च स्थितस्यैव भविष्यति ॥
कुमारिलश्चात्मवादे मीमांसाश्लोकवार्तिके ।
अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिना ॥
तदस्तित्वे प्रमाणं हि न किञ्चिदिति पद्यतः ।
विन्ध्यवासिमतं प्राह सांख्यस्स्याद्विन्ध्यवास्यसौ ॥
6 तथौपनिषदैः कैश्चिल्लिङ्गदेहो मतो यथा ।
पञ्चप्राणमनोबुद्धिदशेन्द्रियसमान्वितम् ॥
अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ।
परं चाप्यपरं चेति द्विधा तत्परिकीर्तितम् ॥
परं हिरण्यगर्भीयं तन्महत्तत्त्वशब्दितम् ।
अपरं त्वस्मदादीनां सोऽहंकार इतीर्यते ॥
पञ्चीकृतेभ्यो भूतेभ्यश्चान्येषां सृष्टिरिष्यते ।
लिङ्गं मतं भेदविदां भेदाभेदविदामपि ॥
M.R. 15
114 मानमेयरहस्यश्लोकवार्तिके
7 प्राग्देहाकृष्टभूतांशसंघसंपत्तिमान् पुमान् ।
अणुस्संसरतीत्येकैर्लिङ्गदेहो न चेष्यते ॥
भूतसूक्ष्मपरिष्वङ्गविषयं शास्त्रमुच्यते ।
गतिसाधनमेवेदं न चेष्टं भोगसाधनम् ॥
आरम्भवादे सांकर्यं जात्यादेः स्थूल इष्यते ।
उपाधिसंकरन्यायादिति केचन जानते ॥
कुर्वद्रूपत्वाख्यजातिवादभङ्गाय संकरः ।
दोषोऽभ्युपगतः प्राज्ञैरिति तत्त्वविदो विदुः ॥
8 अवस्थावाइपक्षे तु नैव तस्य प्रसञ्जनम् ।
इत्याभिप्रेत्य बहुभिः शरीरं पाञ्चभौतिकम् ॥
क्षणिकं हेयमित्यादि बहुधा विजुगुप्स्यते ।
संरम्भस्तु तदत्यन्तभिन्ननित्यात्मधीफलः ॥
तत्सिद्धिश्च विरागस्य हेतुस्स्यादिति तन्मतम् ।
क्षणात्मवादे देहात्मवादे तत्सूपपादितम् ॥
द्रष्टृणामिह सर्वेषामास्थाया हि परिक्षयः ।
परमोद्देश्य इति च सर्वथा सुव्यवस्थितम् ॥
(26) इन्द्रियवादः
1 शरीरस्यैवेन्द्रियत्वात् नेन्द्रियं नाम किंचन ।
इति शाक्यविशेषा हि प्राहुर्लोकायता अपि ॥
इन्द्रियवादः 115
त्वगेकमेव वा तत्स्यात् मनो वाऽप्येकमेव वा ।
इति कश्चित्सौगतानां सिद्धान्त इति गम्यते ॥
कल्प्यते शक्तिभेदश्चेत् शक्तिरेवेन्द्रियं भवेत् ।
इत्ययुक्तं, वरं धर्मिकल्पनाद्धर्मकल्पना ॥
शक्तिशक्तिमतो रैक्यं प्रायशस्सर्वसम्मतम् ।
शक्तीनां नामभेदेन व्यवहारोऽनवस्थितः ॥
पुमिन्द्रियं स्त्रीन्द्रियं च द्विधा वेन्द्रियमित्यापि ।
प्राचीनानां व्यवहृतिः पूर्वाचार्यैरनूदिता ॥
क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु ।
न षष्ठमिन्द्रियं द्रव्यग्राहकं विद्यते बहिः ॥
नैकं रूपाद्यभेदो वा दृष्टं चेन्नेन्द्रियेण तत् ।
अक्षानेकत्ववैयर्थ्यं स्वार्थे भिन्नेऽपि शक्तिमत् ॥
न सुखा दिप्रमेयं वा मनो वाऽस्तीन्द्रियान्तरम् ।
अनिषेधादुपात्तं चेदन्येन्द्रियमतं वृथा ॥
नैकमित्यादिपद्यस्याप्यर्थ एषोऽवधार्यताम् ।
दर्शनस्पर्शनाभ्यां यद्ग्राह्यं ग्राहकभेदतः ॥
रूपादिवत्ताद्भिद्येत नोचेद्रूपाद्यभेदिता ।
सामान्यं पञ्चभिर्ग्राह्यं दृष्टं चेत्तदसन्मतम् ॥
तथापीन्द्रियसांकर्ये व्यर्था तद्भेदकल्पना ।
त्वगेकमेवेन्द्रियं स्यात् नैकार्थे नैकशक्तिमत् ॥
[Page 116]
मानमेयरहस्यश्लोकवार्तिके
इत्येवं भिक्षुवाक्यस्य भावो रत्नाकरोदितः
एकेन्द्रियादिवादस्तु गौतमेनाप्यनूदितः ॥
तद्भेदसाधनं तत्रानात्मसाधनसंगतम् ।
2 यः पञ्चेन्द्रियसिद्धान्तः तत्रापि श्रोत्रचक्षुषी
अप्राप्यकारिणी स्यातामिति सौगतनिर्णयः
आभिमुख्यं च संबन्धोऽयस्कान्तादिवदिष्टः
अनवस्थाऽतिप्रसङ्गौ संबन्धस्य ग्रहेऽग्रहे ।
प्राप्तेश्च कल्पनाऽन्येषामेषां त्वनुपलब्धितः
प्राप्त्यभावस्सिद्ध एव स्वभावात्नियमः स्फुटः
सान्तरं ग्रहणं न स्यात्प्राप्तौ दूरादिदर्शनात्
महीमहीधरादीनां महतां चाग्रहो भवेत् ।
कणभक्षोऽक्षपादश्च जैमिनिः कपिलस्तथा
सर्वेन्द्रियाणामेते स्युः प्राप्यकारित्ववादिनः
चक्षुश्श्रोत्रेतरेषां तु केचित्ताथागतास्तथा
तत्रापि चक्षुर्भिन्नानां तेषां स्याद्वादिनस्तथा
3 अथ नैयायिकानां स्यादेष सिद्धान्तसंग्रहः
भौतिकानीन्द्रियाणि स्युः पञ्च बाह्यानि दे
न महान्ति न चाणूनि मध्यमानीति नि
अणु नित्यं द्रव्यमपि मनोऽन्तःकरणं म
तत्र पञ्चभिरप्यक्षैः बोधस्सत्तागुणत्वयोः
इन्द्रियवादः 117
द्रव्यमाने पुनर्द्वाभ्यां रूपादावेकशः स्थितिः ।
मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ।
स मानसीनो जनानामात्माऽप्येतैर्गुणैस्सह ।
अतीन्द्रियाणीन्द्रियाणि सिद्ध्यन्ति ह्यनुमानतः ॥
प्रतिदेहं विभिन्नानि षडेतान्यखिलात्मनाम् ।
शरीरावयवा एव स्युः कर्मेन्द्रियशब्दिताः ॥
शब्देतरोद्भूतगुणविशेषानाश्रयश्च सन् ।
ज्ञानहेतुमनोयोगस्याश्रयो हीन्द्रियाभिधः ॥
सर्वाणि प्राप्यकारीणि कारकाणि यतो धियाम् ।
संसृष्टं कारकं लोके तत्फलायावकल्पते ॥
सन्निकर्षस्ततस्सिद्धः सत्तयैवोपकार्यसौ ।
नानवस्थातिप्रसंगौ स्वभावनियतं जगत् ॥
नीरन्ध्रेऽप्यम्बुकाचादौ दृक्प्रभादेः प्रवेशनम् ।
वस्तुस्वभाववैचित्र्यात् इत्येतत्सर्वसम्मतम् ॥
लौकिकोऽलौकिकश्चेति सन्निकर्षो द्विधेष्यते ।
प्रथमः षड्विधस्तत्र द्वितीयस्त्रिविधो मतः ॥
पृथ्वग्रं चाक्षुषं तेजोऽधिकग्रहणशक्तिमत् ।
शालिकाचार्यसिद्धान्ते चक्षुर्बाह्येन तेजसा ॥
महच्चक्षुर्जनयति गृह्यते तेन चाधिकम् ।
तथा शाखाचन्द्रमसोर्यौगपद्येन च ग्रहः ॥
118 मानमेयरहस्यश्लोकवार्तिके
बाह्येन ज्योतिषा चक्षुःज्योतिस्संवलितं
दूरस्थं विपुलं चापि गृह्णातीति विदुः परे
4 अथ सांख्यास्त्विन्द्रियाणि विभून्यैकादशो
प्राहुराहंकारिकाणि वृत्त्या च व्याप्नुवन्त्य
ज्ञानकर्मात्मकं चेदं मनोऽन्तःकरणं मतम्
अहंकारश्च बुद्धिश्चाप्यन्तःकरणमिष्यते ॥
तथाच त्रिविधा तेषामन्तःकरणकल्पना
आनुमानिकतैतेषां प्रधानादिवदेवहि ॥
सात्त्विकाहंकार एषामुपादानमिति स्थितिः
अहंकारविशेषाः स्युरिन्द्रियाणीति केचन
हैरण्यगर्भा इति हि प्राह सर्वार्थसिद्धिकृत्
कर्मेन्द्रियं राजसं स्यादिति केचन तान्त्रि
प्रतिदेहं जनिध्वंसौ स्यातामस्येति केचन
5 मीमांसकास्तु प्रायेण नैयायिकमते स्थि
विजृम्भन्तेऽभीष्टसिद्धौ श्रोत्रे शब्दे च
दिशश्श्रोत्रमिति श्रुत्या श्रोत्रं ते दैशिकं
ध्वनिजन्यस्तु संस्कारः शब्दग्रहणकारणम्
6 न श्रोत्रमिन्द्रियमिति भर्तृमित्रादयो विदुः
कुमारिलस्त्विमं पक्षं निरास्थत् श्लोकवार्ति
विषयेन्द्रियदेशानां संस्कारमपि चेच्छति
इन्द्रियवादः 119
वीचीतरङ्गादिनीतिं शब्दानित्यत्वसाधकाः ।
ध्वनीनामुपगच्छन्ति ध्वनितत्त्वं पुरः स्थितम् ॥
7 मनसो वैभवं प्राहुः संयोगमजयोरपि ।
अदृष्टानियमः सिद्धयेत् अदृष्टशरणा हि ते ॥
ज्ञानस्यायौगपद्यार्थमणुत्वं तार्किका विदुः ।
दूरस्मृत्युपपत्त्यर्थं वैभवं वैदिका विदुः ॥
विकासो वृत्तिभेदो वाऽप्यायकप्रचयोऽपि वा ।
पृथुत्वहेतुः वेगस्तु यौगपद्यभ्रमावहः ॥
नैवाभिनिविशन्तेऽन्यप्रकारेपु बुधा इमे ।
8 अथौपनिषदानामप्येष सिद्धान्तसंग्रहः ॥
देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः ।
आत्मा सेद्धव्य इति हि ब्रह्म मीमांस्यते बुधैः ॥
इन्द्रियस्य तु देवत्वं कारणत्वमुपास्यता ।
प्राणत्वाद्यं श्रूयतेऽतः स एवात्मेति संशयः ॥
एतादृक्संशयोच्छित्त्यै भगवान् बादरायणः ।
प्रावर्तयत्प्राणपादं द्वितीये लक्षणेऽन्तिमम् ॥
नेन्द्रियेष्वनुमानं स्यात् अप्राप्ते शास्त्रमर्थवत् ।
ज्ञानेन्द्रियाणां कॢप्तिश्चेन्न किं कर्मेन्द्रियेषु सा ॥
करणत्वेनेन्द्रियत्वं दोषदीपाञ्जनादिषु ।
प्रसज्यते सहायत्वव्यवस्था त्वनियन्त्रिता ॥
20 मानमेयरहस्यश्लोकवार्तिके
उद्विग्नो ह्यन्धकारेण क्वचिदेवं ब्रवीत्यपि ।
किं चक्षुषा ममैतेन दृष्टं दीपेन यन्मया ॥
अतीन्द्रियस्येन्द्रियस्यासिद्धिसिद्धिविकल्पतः ।
पक्षाप्रसिद्ध्यादिदोषात् विजृम्भन्ते न युक्तयः ॥
शुद्धाहंकृत्युपादानं द्रव्यमिन्द्रियमुच्यते ।
भूतैराप्यायनं तेषां मनोऽन्नमयताश्रुतेः ॥
इन्द्रियाणां भौतिकत्वं केचिद्वेदान्तिनो विदुः ।
पञ्चभूतमयत्वं च मनसः प्रतिपेदिरे ॥
शाब्दापरोक्षसिद्धान्ते मनो नेन्द्रियमिष्यते ।
कैश्चिदात्माऽपरोक्ष्यार्थं मनः करणमुच्यते ॥
9 एकं मनोऽन्तःकरणं नैयायिकमते मतम् ।
द्विविधं भास्कराः प्राहुः त्रिविधं कापिला विदुः ।
चतुर्विधं केचिदाहुः तदुक्तिरवधार्यताम् ।
मनो बुद्धिरहंकारश्चित्तं करणमान्तरम् ॥
संशयो निश्चयो गर्वः स्मरणं विषया इति ।
तत्र कापिलभिन्नास्तु वृत्तिभेदाद्भिदां विदुः ॥
मनः स्मृत्यनुभूतिभ्यां द्विधा भास्करभाषितम् ।
श्रुतिश्च विविधा मानं सर्वेषामिह विद्यते ॥
तदर्थनिर्णायकं च सूत्रं तात्पर्यभेदतः ।
व्याख्यायते यदि तदा कः पक्षः श्रुतिसम्मतः
आत्मवादः-लौकायतात्मा 121
अप्राप्यकारिणी श्रोत्रचक्षुषी इति सौगताः ।
चक्षुर्मात्रं विदुर्जैनाः सर्वेऽन्ये प्राप्तिवादिनः ॥
एवमिन्द्रियवृत्तान्ते विकल्पोऽत्र निरूपितः ।
प्रायस्सर्वार्थसिद्ध्यादौ विस्तरोऽस्यावलोक्यते ॥
(27) आत्मवादः—लौकायतात्मा.
1 अथ प्रस्तूयतेऽत्रात्ममीमांसा सर्वतोमुखी ।
यत्कृते सर्वमीमांसाः तीर्थकृद्भिः प्रवर्तिताः ॥
तथाहि लौकायतिकाः परलोकापवादिनः ।
चैतन्यखचितात्कायान्नात्माऽन्योऽस्तीति मन्वते ।
भीष्मः खल्वपवर्गोऽयं भद्रं बह्वत्र लुप्यते ।
संसारो हि वरं यत्र सुखलेशः कियानपि ॥
स्वर्गेण चिरसाध्येन मृतिव्यवहितेन किम् ।
अत्र भोजनशय्यादि सुखमेव त्रिविष्टपम् ॥
चैतन्यं भौतिकी शक्तिः न तत्त्वान्तरमिष्यते ।
भूतसंघावस्थितिर्वा धीसामग्र्यथवा भवेत् ॥
शरीरवृद्धौ तद्वृद्धिः तत्क्षये चापि तत्क्षयः ।
मूर्छा चैतन्यविकृतिः अभिघातादितो भवेत् ॥
दृश्यते चेतना पट्वी ह्यन्नपानादितृप्तितः ।
ब्राह्मीघृतादिसंस्कारे स्यात्पटुप्रज्ञता तथा ॥
M.R. 16
22 मानमेयरहस्यश्लोकवार्तिके
चलन्ति दध्यवयवाः काले नातिदवीयसि ।
स्वेदादिनैव वर्षासु पूतरक्रिमिलक्षणाः ॥
गौरोऽहमस्मि स्थूलोऽहं कृशोऽहमिति सम्मताः ।
व्यवहाराश्चानुभवाः भूतचैतन्यसाक्षिणः ॥
अहं जानामीति मतिः शरीरमवलम्बते ।
इत्याहुरात्माऽप्रत्यक्षवादिनोऽपि हि तार्किकाः ॥
मम पाणिर्भुजो वेति भिन्नत्वादुपपद्यते ।
शरीरं तु ममेत्येषा कल्पना राहुमूर्धवत् ॥
2 चैतन्यं यदि शक्तिः स्यात् शक्तिशक्तिमतोर्यदा ।
भेदस्तदा शक्तिनाम्ना तत्त्वान्तरपरिग्रहः ॥
इति शङ्का नैव कार्या संघातशक्तिरिष्यते ।
ज्ञानं नाम पदार्थो यः स नास्त्येवेति तन्मतम् ॥
ज्ञानस्योत्पादिका याऽस्ति सामग्री सर्वसम्मता ।
तयैव सर्वनिर्वाहात्किमन्तर्गडुनाऽमुना ॥
देहधातुविशेषो वा विकासो वाऽस्य कश्चन ।
ज्ञानमित्येव वक्तव्यं वरं धर्मिप्रकल्पनात् ॥
हृदयस्थः पित्तभागः प्रकाश इति वैद्यकम् ।
एवमाद्यास्तु सर्वार्थसिद्धौ वादाः ह्यनूदिताः ॥
स एव भूतचैतन्यवादिनः परमाशयः ।
अन्यथा तस्य चैतन्यं तस्यापीत्यनवस्थितिः ॥
सौगतात्मा 123
सुखदुःखेच्छादयोऽपि परिणामा हि भौतिकाः ।
संघातवेद्यास्ते सर्वे न संज्ञा प्रेत्य विद्यते ॥
भूतेभ्यश्च समुत्थाय तान्येवानुविनश्यति ।
इतिहि ब्राह्मणं येयं प्रेते संशय इत्यपि ॥
नाचिकेतानुयोगश्च सिद्धान्तं द्रढयत्यमुम् ।
एष देहात्मसिद्धान्तः सुराचार्यप्रवर्तितः ॥
चार्वाककृतभाष्यादिनिबन्धैः प्रचयं गतः ।
कामनीतिस्तेयशास्त्रप्रमुखं तस्य विस्तरः ॥
शेषः सिद्धान्तसारांशः सूचितः प्रायशः पुरा ।
प्रमेयसंग्रहे सोऽपि वैशद्यायावधार्यताम् ॥
(28) सौगतात्मा.
1 अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा ।
ज्ञानमात्रेण सर्वोऽपि व्यवहारोऽवकल्पते ॥
ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः ।
न वस्त्वन्तरमित्येवं न ततोऽन्यप्रकल्पनम् ॥
गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना ।
न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥
स्मृतिवत्परिहर्त्तव्यौ कृतनाशाकृतागमौ ।
तत्संतानोपसंक्रान्त्या कुसुमे बीजरागवत् ॥
24 मानमेयरहस्यश्लोकवार्तिके
यस्मिन्नेव हि संताने आहिता कर्मवासना ।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥
वर्षातपाभ्यां किं व्योम्नः चर्मण्यस्ति तयोः फलम्
चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ॥
बुद्धिर्जन्मनि पुंसश्च विकृतिर्यद्यनित्यता ।
अथाविकृतिरात्माऽयं प्रमातेति न युज्यते ॥
अत्यन्तमलिनः कायः देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥
2 निर्धर्मका निराधारा निर्मूर्त्तिश्चित्तसंततिः ।
प्रतिक्षणं जायमाना दीपसन्तानसन्निभा ॥
ज्वालाबुद्बुदवद्वृत्तिः मातृकुक्षिप्रवेशभाक् ।
सा ततो विषयज्ञप्तिः चित्ताभिज्वलनात्मिका ॥
कामक्रोधौ लोभमोहौ रागद्वेषौ च सैव हि ।
रागो द्वेषश्च मोहश्च यद्युत्कटदशां गतः ॥
कामः क्रोधो लोभ इति व्यवहारस्य गोचरः ।
देवासुरमनुष्याणां भेदोऽतो गुणभेदतः ॥
आत्मा यद्यप्रतीत्य स्यात्क्लेशानां नैव संक्षयः ।
अतो नैरात्म्यसिद्धान्तः बौद्धानामिति निर्णयः ।
आत्मग्रहो महामोहः प्रथमं तन्निवृत्तितः ।
मम किं नाहमेवेति विरंस्यति ममग्रहः ॥
सांख्यात्मा
तस्मादादावहंकारममकारप्रहाणतः ।
निर्वाणद्वारमेवैतत्सिद्धं नैरात्म्यदर्शनम् ॥
(29) सांख्यात्मा.
1 अथ कापिलसिद्धान्तरीत्याऽऽत्माऽत्र विचार्यते ।
विदितः सांख्यपुरुषः सोऽसौ पुष्करपर्णवत् ॥
श्रुतिर्ह्यपौरुषेयेषा कल्पादौ कपिलादिभिः ।
स्मर्यते चापि विद्वद्भिः सर्वा सुप्तप्रबुद्धवत् ॥
तथा स्मृतीतिहासाद्याः प्रमाणं वेदमूलकाः ।
प्रकृतेः पुरुषस्यापि विवेकस्तैर्विशोध्यते ॥
तच्छ्रुत्वा शास्त्रयुक्त्या च व्यवस्थाप्य ततः परम्
निरन्तरं दीर्घकालमादरेण च सेवितात् ॥
साक्षात्काराच्च विज्ञानान् मुच्यते भावनामयात्
अभेदधीरुपायेयाऽन्येषामेषां तु भेदधीः ॥
2 तत्र युक्तिस्तु शास्त्रीया प्रयुक्ता तैः पुनर्यथा ।
अतिरिक्तोऽस्ति पुरुषः ह्यव्यक्तादेर्यतस्त्विमे ॥
अव्यक्ताद्याः परार्थाः स्युः संघातत्वात् गृहादिवत्
परस्स्यात्संहतो देहो दर्शनादिति चेन्न तत् ॥
तस्यापि संहतत्वेन स्यात्संघातान्तरार्थता ।
नच सत्यां व्यवस्थायामायुष्मत्यनवस्थितिः ॥
स व्यापकपरार्थत्वव्यावृत्त्या चागुणो मतः ।
पुरुषोऽयमधिष्ठाता बुद्ध्यादेरगुणत्वतः ॥
भोक्ता च पुरुषस्सिद्धयेत् बुद्ध्यादेर्भोक्त्रभावतः ।
पुमान्न कस्यचित्कर्ता किन्तु भोक्तैव केवलम् ॥
इति सांख्यास्त्वाहुरिति न्यायरत्नाकरोदितम् ।
द्रष्टा वा पुरुषश्रेष्ठः बुद्ध्यादेर्दृश्यभावतः ॥
शास्त्राणां च महर्षीणामन्येषां दिव्यचक्षुषाम् ।
कैवल्यार्थं प्रवृत्तेश्च स्यात्पुमान् प्रकृतेः परः ॥
दुःखात्मका हि बुद्ध्यायाः स्वभावो दुरतिक्रमः ।
वियोगश्शक्यसंपादः पुरुषस्यातदात्मनः ॥
तस्माद्योऽस्ति स आत्मेति सिद्धः सत्त्वविलक्षणः ।
सुखदुःखव्यवस्थातः नाना सर्वगतश्च सः ॥
शरीरभेदाद्भेदश्चेत्स्यात्पाण्यादिविभेदतः ।
मध्यस्थः केवलः साक्षी द्रष्टाऽकर्तेति निश्चितः ॥
चिदभिव्यक्तिचित्सङ्गचिच्छायापत्तिलक्षणात् ।
संनिधेः बुद्धिरप्येषाऽचेतना चेतनायते ॥
विमृश्य शास्त्रयुक्त्यैवं कूटस्थं ज्ञानलक्षणम् ।
साक्षात्कृत्वाऽन्यताख्यात्याऽनन्तं कैवल्यमश्नुते ।
इति कापिलसिद्धान्तसिद्धः पुरुष ईरितः ।
प्रमेयसंग्रहोक्तं यत्तदप्यत्रोपयुज्यताम् ॥
(30) वैशेषिकात्मा.
1 कणादीयात्मचर्चायां यत्तु संगृह्य भाषितम् ।
सम्यक् प्रशस्तपादेन क्रियते तस्य संग्रहः ॥
अप्रत्यक्षोऽपि सौक्ष्म्येण युक्त्याऽसावधिगम्यते ।
शब्दोपलब्ध्यनुमितश्रोत्रादि करणं पुनः ॥
कर्तृप्रयोज्यं वास्यादि करणं सर्वसम्मतम् ।
प्रयोजकश्च श्रोत्रादेः करणस्यानुमीयते ॥
मनश्शरीरेन्द्रियाणामज्ञत्वान्न प्रयोक्तृता ।
शरीरस्य न चैतन्यं भौतिकत्वाद्धटादिवत् ॥
इन्द्रियाणां न चैतन्यं करणत्वेन कल्पनात् ।
क्वचिद्विनष्टेष्वेतेषु विषयासन्निधावपि ॥
अनुस्मृतिः कस्य भवेत् प्रयोक्त्र्यपिचासति ।
मनसश्च न चैतन्यं तस्यापि करणत्वतः ॥
करणान्तरक्लृप्तौ च यौगपद्यं धियां भवेत् ।
परिशेषात्स्वकार्येण ज्ञानेनात्माऽधिगम्यते ॥
प्रवृत्तिश्च निवृत्तिश्च शरीरसमवायिनी ।
हिताहितप्राप्तिपरिहारयोग्ये क्रिये हि ते ॥
ताभ्यां प्रयत्नवान् देहस्याधिष्ठाताऽनुमीयते ।
प्रयत्नवान् सारथिर्हि ज्ञायते रथकर्मणा ॥
वायौ देहगृहीते तु विकृतं कर्म दृश्यते ।
तेन भस्त्राध्मायितेव सिद्ध्यत्यात्मेति कथ्यते ॥
128 मानमेयरहस्यश्लोकवार्तिके
देहस्य वृद्धिसंभग्नक्षतसंरोहणादिभिः ।
गृहाध्यक्ष इवात्माऽपि देहाध्यक्षोऽनुमीयते ॥
यदिष्टादानकरणसंबन्धस्य नियामकम् ।
मनसः कर्म तेनापि सिद्धयत्यात्मा यथापुनः ॥
गृहकोणोपलप्रेरयितृदारकवत् तथा ।
दारुयन्त्रप्रयोक्तेव निमेषोन्मेषकर्मणा ॥
नायनालोचनात्पश्चाद्रसस्य स्मरणे सति ।
रसनं यत्क्रियते तेनात्मोभयबुद्धिमान् ॥
यथाऽनेकगवाक्षान्तर्गतेप्रेक्षक इष्यते ।
2 सुखेच्छाद्वेषयत्नैश्च गुणैर्गुण्यनुमीयते ॥
विषयेन्द्रियदेहादियोगं नार्हन्ति ते गुणाः ।
अयावद्द्रव्यभावित्वात् तथा प्रादेशिकत्वतः ॥
अहंकारेणैकवाक्यभावाभावात्तथैवच ।
बाह्येन्द्रियाप्रत्यक्षत्वात् अतिरिक्ताश्रया हि ते ।
यथा पृथिव्यादिशब्दाः पृथिव्याद्यर्थगोचराः ।
तथाहंशब्द इत्यादिरीति भाष्यार्थसंग्रहः ॥
(31) नैयायिकात्मा.
1 अथ गौतमसूत्रेषु तद्भाष्ये चापि पाक्षिले ।
निर्णीतं यच्चात्मतत्त्वं क्रियते तस्य संग्रहः ॥
[Header] नैयायिकात्मा 129
क्रियाकरणयोः कर्त्रा संबन्धस्यानुकीर्तनम् ।
व्यपदेशस्स द्विविधः प्रथमोऽयं निशम्यताम् ॥
प्रासादो ध्रियते स्तम्भैः वृक्षो मूलैश्च तिष्ठति ।
इत्यत्र समुदायस्यावयवेनानुकीर्तनम् ॥
तथैवान्येन चान्यस्य व्यपदेशोऽपि दृश्यते ।
प्रपश्यति प्रदीपेन कुठारेण प्रवृश्चति ॥
अत्रास्ति व्यपदेशोऽयं यथा पश्यति चक्षुषा ।
मनसा च विजानाति बुद्ध्या मीमांसते पुनः ॥
शरीरेण सुखं दुःखं तथाऽनुभवतीत्यपि ।
व्यपदेशस्योभयथा सिद्धेः तन्नावधार्यते ॥
किमत्रावयवेन स्यात् संघातस्यानुकीर्तनम् ।
अथवाऽन्येन चान्यस्येत्येवं संशयसंभवे ॥
2 यद्दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति ।
न्यायाचार्यकृतं सूत्रं तद्भाष्यमिह वर्ण्यते ॥
दर्शनेन गृहीतोऽर्थः स्पर्शनेनापि गृह्यते ।
यमद्राक्षं चक्षुषा तं स्पर्शनेन स्पृशाम्यहम् ॥
यं चास्पार्शं स्पर्शनेन तं पश्यामीह चक्षुषा ।
इत्येकविषयावेतौ प्रत्ययावेककर्तृकौ ॥
प्रतिसंधानविषयौ नच संघातकर्तृकौ ।
तथैव प्रत्ययावेतौ नेन्द्रियेणैककर्तृकौ ॥
[Footer] M.R. 17.
30 मानमेयरहस्यश्लोकवार्तिके
तयोऽसौ चक्षुषा चैव त्वचा चैकार्थलम्भुकः ।
अनन्यकर्तृकौ भिन्ननिमित्तौ प्रत्ययावपि ॥
यश्चापि प्रतिसन्धत्ते समानविषयाविमौ ।
सोऽर्थान्तरतया सिद्धः आत्मेत्याहुर्नयोत्तराः ॥
३ अथचास्यैव सूत्रस्य तात्पर्यार्थोऽवधार्यताम् ।
प्रामाण्यं प्रत्यभिज्ञायाः नित्यत्वमपि चात्मनः ॥
इन्द्रियाण्यपि नाना स्युः विभिन्नविषयान्यपि ।
तत्तद्ग्रहणलिङ्गानि ज्ञातुस्तत्करणान्यपि ॥
भेदश्च गुणगुण्यादेः द्रव्याधिकरणा गुणाः ।
चेतनाश्चाप्यनियताविषयास्स्युः तथैव च ॥
स्थिराः स्युः विषयाश्चापि चक्षुरादेश्च नात्मता ।
एतादृशार्था बहवः तत्त्वटीकाप्रदर्शिताः ॥
४ अथचाधुनिकन्यायाचार्यैर्योऽत्र प्रदर्शितः ।
निष्कर्षस्सोऽपिचात्रैव संक्षेपादवधार्यताम् ॥
प्रत्यक्षादिप्रमाणैर्यो व्यवहारस्स चात्मना ।
विना नित्येन नेत्येवं ततस्तस्य प्रकल्पना ॥
तत्र प्रत्यक्षमात्मानमौपवर्षाः प्रपेदिरे ।
अहंप्रत्ययगम्यत्वात् स्वयूथ्या अपि केचन ॥
प्रत्यक्षत्वे कर्तृकर्मविरोधं केचिदूचिरे ।
लैङ्गिकत्वे कथं न स्यादात्मैवानुमिनोति हि ॥
नैय्यायिकात्मा 131
तत्रानुमानज्ञानस्य यथाऽऽत्मा याति कर्मताम् ।
तथाऽहंप्रत्ययस्यैव प्रत्यक्षस्यापि गच्छतु ॥
देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते ।
तथाऽहंप्रत्ययेनापि गम्यतां तद्विलक्षणः ॥
ज्ञानेच्छासुखदुःखादि किलेदं लिङ्गमात्मनः ।
एकाश्रयतया ज्ञातमनुसन्धातृबोधकम् ॥
ज्ञाते तत्राफलं लिङ्गं अज्ञाते तु न लिङ्गता ।
तस्मात्प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम् ॥
वृद्धागमानुसारेण संविदालोकनेन वा ।
अथवाऽभिनिवेशेन किमनेन प्रयोजनम् ॥
अनुमेयत्वमेवास्तु लिङ्गेनेच्छादिनाऽऽत्मनः ।
शास्त्रेष्वनेकहेतूक्तिः न दोषाय कथास्विव ॥
नहि प्रत्यक्ष आत्मा किं त्वपरोक्ष इतीतरे ।
केवलं शब्दभेदोऽत्र तुच्छता वा प्रसज्यते ॥
सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः ।
उपादेयस्तु भोगादिव्यवहारपराङ्मुखः ॥
5 तत्त्वज्ञानेन तेनास्य मिथ्याज्ञानेऽपबाधिते ।
रागद्वेषादयो दोषाः तन्मूलाः क्षयमाप्नुयुः ॥
क्षीणदोषस्य नोदेति प्रवृत्तिः पुण्यपापिका ।
तदभावान्न तत्कार्यं शरीराद्युपजायते ॥
132 | मानमेयरहस्यश्लोकवार्तिके
अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः ।
अशेषदुःखोपरमस्त्वपवर्गोऽभिधीयते ॥
स चेतनश्चिता योगात् तद्योगेन विना जडः ।
नार्थावभासादन्यद्धि चैतन्यं नाम विद्यते ॥
अधिकांशो मोक्षहेतुजिज्ञासायां निरूपितः ।
आम्रेडनं हि विदुषां भवेदालस्यकारणम् ॥
(32) मीमांसकात्मा.
1 अथ शाबरभाष्योक्तमात्मतत्त्वं विचिन्त्यते ।
यदेवचोपवर्षेण शारीरकनिरूपितम् ॥
नैरात्म्येनात्र चाक्षिप्ताः सर्वा एवहि चोदनाः ।
वेदप्रामाण्यसिद्धयर्थमात्माऽत्र प्रतिपाद्यते ॥
यजमानः स्वर्गलोकं याति यज्ञायुधीति वाक् ।
एतच्छरीरं यस्यासावात्मा तत्परतामियात् ॥
परैरभिहितान् पूर्वमात्महेतून्निरस्यति ।
न चेदहंप्रत्यये स्युर्दिश्यास्सामान्यदृष्टयः ॥
आह कोऽसावन्य आत्मा नैनं ह्युपलभामहे ।
एनं प्राणादिभिरुपलभामह इतीर्यते ॥
प्राणापानोच्छासनिमेषादिचेष्टितवांस्तु यः ।
शरीरे सोऽत्र यज्ञायुध्यादिशब्दैः विवक्षितः ॥