मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
76 मानमेयरहस्यश्लोकवार्तिके
द्विधा च पञ्चधा चैव षोढा चापि च सप्तधा ।
नवधाऽपि विवक्षायाः भेदात्तत्त्वं विविच्यते ॥
प्रवादास्स्युर्मत्सरिणः परेऽन्योन्यविपक्षतः ।
समयोऽपक्षपातोऽसौ स्यादशेषाविशेषतः ॥
सर्वज्ञो जितरागादिदोषः त्रैलोक्यपूजितः ।
यथास्थितार्थवादी च देवोऽर्हन्परमेश्वरः ॥
2 चिदचिद्द्वे परे तत्त्वे विवेकस्तद्विवेचनम् ।
तत्र बोधात्मको जीवोऽजीवोऽबोधात्मको मतः ।
क्षायिकश्चौपशामिकः मिश्रश्चौदयिकस्तथा ।
पारिणामिक इत्येते भावाः पञ्चात्मनो मताः ॥
बद्धमुक्तविभेदेन ते जीवाः द्विविधा मताः ।
न कश्चिन्नित्यसंसारी नित्यमुक्तो न कश्चन ॥
तथैव चिदचिद्भिन्नमीशतत्त्वं च नेष्यते ।
अचिच्च पुद्गलाकाशकालादिविविधं मतम् ॥
ज्ञानाद्भिन्नो नचाभिन्नः भिन्नाभिन्नः कथंचन ।
ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥
विज्ञानं स्वपराभासि प्रमाणं बाधवर्जितम् ।
प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ॥
3 जीवो धर्मोऽप्यधर्मश्च पुद्गलः काल एवच ।
आकाश इति षड्द्रव्यं अद्रव्यं च द्विधा मतम्
आर्हतदर्शनम् ७
गुणः पर्याय इति तत्स्वरूपं स्फुटमग्रतः ।
अनागतपरीणामावस्थं द्रव्यमितीर्यते ॥
तद्वर्तमानपर्यायं भाव इत्यभिधीयते ।
द्रूयन्ते यानि पर्यायैः पर्यायैर्वा द्रवन्त्यपि ॥
तानि द्रव्याणि निर्दिष्टान्यद्रव्यं तु तदाश्रितम् ।
पर्येत्युत्पत्तिनाशौ यः स पर्याय इतीर्यते ॥
ताथागतैर्हि पर्यायः पारमार्थिक इष्यते ।
तदाधारं त्रिकालस्थं द्रव्यं नाभ्युपगम्यते ॥
तदाहि प्रत्यभिज्ञादेर्विरोधस्स्यादुरुद्धरः ।
अनिरोधमनुत्पादं जगत्स्यात्पुद्गलक्षणम् ॥
4 परमाणुषु वाय्वादिविभागो नाभ्युपेयते ।
सामान्यं द्विविधं तिर्यगूर्ध्वताशब्दशब्दितम् ॥
तुल्या परिणतिर्या तु प्रतिव्यक्ति प्रदृश्यते ।
सामान्यं तत्तिर्यगिति तद्धि गोत्वादिलक्षणम् ॥
पूर्वापरपरीणामसाधारण्येन यत्पुनः ।
तदूर्ध्वताख्यं सामान्यं कटकादिषु काञ्चनम् ॥
विशेषोऽपि द्विरूपस्स्याद्गुणपर्यायभेदतः ।
सहभावी तु यो धर्मः स गुणः परिकीर्त्यते ॥
यथा चात्मनि विज्ञानव्यक्तिशक्त्यादिलक्षणः ।
क्रमभावी तु यो धर्मः स पर्यायः प्रकीर्त्यते ॥
78 मानमेयरहस्यश्लोकवार्तिके
5 आत्मन्येव सुखं दुःखमिच्छाद्वेषादिलक्षणम् ।
यत्सम्यग्दर्शनं ज्ञानं चारित्रं चेति तत्रयम् ॥
मोक्षमार्गश्चावरणक्षयोपशमकारणम् ।
श्रद्धा जिनोक्ततत्त्वेषु सम्यग्दर्शनमुच्यते ॥
जायते यन्निसर्गेण गुरोरधिगमेन वा ।
अवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ॥
सर्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते ।
कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा ॥
पूरयन्ति गलन्तीति पुद्गलाः परमाणवः ।
वर्णगन्धरसस्पर्शगुणवद्द्रव्यलक्षणाः ॥
अनन्तदेशे द्रव्येऽस्तिकायशब्दः प्रयुज्यते ।
पञ्चास्तिकायाः कीर्त्यन्ते तेऽन्येऽणोः काललक्षणात्
6 सप्तधा वादिनो दृष्टाः सत्त्वासत्त्वादिनिर्णये ।
सर्वस्यात्राभ्युपगमात् सप्तभङ्गनयस्थितिः ॥
एकस्मिन् वस्तुनि प्रश्नवशेनैवाविरोधतः ।
कल्पना सप्तभङ्गेषा या विधिप्रतिषेधयोः ॥
वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् ।
स्यान्निपातोऽर्थयोगित्वात् तिङन्तप्रतिरूपकः ॥
तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् ।
स्यान्नास्तीति प्रयोगस्स्यात् तन्निषेधे विवक्षिते ॥
[Header] आर्हंतदर्शनम् ७
क्रमेणोभयवीक्षायां प्रयोगस्समुदायवान् ।
युगपत्तद्विवक्षायां स्यादवाच्यमशक्तिः ॥
आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते ।
अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ॥
समुच्चयेन युक्तस्य सप्तमो भङ्ग इष्यते ।
तत्सत्त्वैकत्वनित्यत्वसर्व्वरूपेषु नीयते ॥
सर्वोऽपि धर्मः प्रष्टव्यः सप्तधैव व्यवस्थितः ।
सर्वेऽप्यत्रान्तर्भवन्ति विधयो वेतरेऽपिवा ॥
तृतीयाद्यविवक्षायां अष्टमो भवतीति चेत् ।
द्विःसत्त्वानुपलम्भेन तृतीयात्मक एव सः ॥
तृतीयान्त्याविवक्षाऽपि ह्यसत्त्वाद्यमूलका ।
एवं विनिगमाभावमूलशङ्कानिराकृतिः ॥
प्रमेयाम्बुजमार्ताण्डे विस्तरस्त्ववगम्यताम् ।
प्रमाणनयतत्त्वालोकालंकारेऽपि विस्तृतः ॥
आप्तमीमांसादिसिद्धः संक्षेपादिह दर्शितः ।
विरोधस्य विधूत्यैवापक्षपातीति विश्रुतः ॥
7 अथैतावन्त एवात्र पदार्थाः न परस्त्विति ।
तैस्तैः कथं विनिर्णीतः सिद्धयसिद्धयोरयोगतः ।
मैवं योऽस्त्येष संसिद्धान्न परस्त्विति कीर्तने ।
न दोषोऽस्ति प्रवक्तॄणां विकल्पानवकाशतः ॥
30 मानमेयरहस्यश्लोकवार्तिके
अधिकानाधिकाशङ्का सत्येव स्यात्तवापिहि ।
नैवं चेन्नैव शङ्का वा परिहारोऽपि वा भवेत् ॥
तथाचात्रत्यैवकारः नान्ययोगनिषेधकः ।
एतावत्त्वायौगमेव छिनत्तीत्यवबुद्ध्यताम् ॥
(18) शक्तिवादः.
1 अतिरिक्तं पदार्थं तं शक्तिं ये गुरवो विदुः ।
अनुमानप्रमाणस्य प्रमेयं ते विजानते ॥
शक्तेर्गुणत्वमिच्छन्तो गुणलक्षणसंगतेः ।
अर्थापत्त्याऽधिगम्यां तां प्राहुः कौमारिला यथा
यादृशादग्निसंयोगात्सर्वथा दाहदर्शनम् ।
तादृशादेव मन्त्रादिप्रयोगे तददर्शनात् ॥
अग्निसंयोगातिरिक्तं यत्किंचित्कारणान्तरम् ।
अस्ति दृश्यमदृश्यं वेत्येषा साधारणा प्रमा ॥
दृश्यादर्शनजाभावप्रमाणेन विहन्यते ।
तत्रानयोर्विरोधे सत्यविरोधाय कल्प्यते ॥
अदृश्यं कारणं किंचिद्द्रव्यकर्मगुणाश्रयम् ।
शक्तित्वसामान्ययोगात्सा शक्तिरिति गीयते ॥
2 आधेया सहजा चेति द्विविधां तां प्रचक्षते ।
आद्या व्रीह्यादिसंस्कारः वह्न्यादौ स्यादनन्तरा
शक्तिवादः 81
3 अत्र वैशेषिकाः प्राहुः शक्तिं नाभ्युपयन्ति ये ।
संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥
स्वगुणाः परमाणूनां विशेषाः पाकजादयः ।
भावो यथा तथाऽभावः कारणं कार्यवन्मतः ॥
प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः ।
स्वरूपादुद्भवत्कार्यं सहकार्युपबृंहितात् ॥
नहि शक्तं कल्पयितुं शक्तिमन्यामतीन्द्रियाम् ।
एतत्पद्यं पठन्तीत्थं त एते शक्तिवादिनः ॥
स्वरूपात् क्वाप्यनुद्यत्तत्सहकार्युपबृंहितात् ।
किं न कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ॥
4 इदं फलं शक्तिवादे तत्तद्वाद्यभिसंहितम् ।
करणं चाप्यकरणं क्षणभङ्गस्य कारणम् ॥
निरास्थन् वैदिकाश्शक्त्या तार्किकास्सहकारिणा ।
स्वभाववादावकाशः शक्तिवादे प्रसज्यते ॥
इति तार्किकसंत्रासः ह्यर्थस्वाभाविकाः परे ।
रहस्यमेतदेव स्यात्सामान्याच्छक्तिवादिनाम् ॥
5 कार्यानुकूलमपृथक्सिद्धं यत्तु विशेषणम् ।
तच्छक्तिशब्दितं सर्वं विष्णुशक्तिरतः स्मृतम् ॥
न शक्तिः शक्तमात्रं स्यात् सर्वाद्धैतप्रसक्तितः ।
नवापीष्टापत्तिरत्र जयी स्यान्मध्यमागमः ॥
M. P. 11
32 मानमेयरहस्यश्लोकवार्तिके
इति भेदविदामौपनिषदानां परिष्कृतिः ।
अभेदविदुषां शक्तितद्वतोः भेदनिह्नवः ॥
वटबीजे वृक्षशक्तिः ह्याश्रयान्न विभिद्यते ।
कया चिदपि युक्त्येति तादात्म्यविभवो ह्यसौ ॥
तादात्म्यतत्त्वे तत्सर्वं स्पष्टमग्रे निरूप्यते ।
यत्र चैवौपनिषदा बहुधा हि विशेरते ॥
(19) शब्दशक्तिवादः.
1 शब्दशक्तिविशेषे तु रहस्यं बहु विद्यते ।
तदप्यत्रैव संक्षिप्य सूचयामः कुतूहलात् ॥
शब्देऽनवयवे स्फोटे तदर्थे जातिलक्षणे ।
अध्यासलक्षणा शक्तिस्संबन्ध इति शाब्दिकाः ॥
शब्दार्थयोश्च संबन्धं केचित्तादात्म्यलक्षणम् ।
नित्यं चाभ्युपगच्छन्ति परिणामं तु केचन ॥
तद्विम्बप्रतिबिम्बत्वं कैश्चिदत्र विकल्प्यते ।
एवं तयोर्योगभेदाः स्युर्जगद्ब्रह्मणोरिव ॥
2 शाक्यदृष्ट्या तु शब्दार्थे बौद्धे विज्ञाननीतितः ।
कार्यकारणभावाख्यस्संबन्ध इति निश्चितम् ॥
3 शब्दशक्तियोग्यताख्या वहेरोष्ण्यादिशक्तिवत् ।
रूपादिज्ञानजनने चक्षुरादेरि वेष्यते ॥
शब्दशक्तिवादः 83
स्वाभाविकी सा शब्दानां विज्ञातैवार्थकारिणी ।
यतश्शब्दार्थसंबन्धो बोध्यबोधकतैव सः ॥
धूमादीनां तु संबन्धान्तरात् गमकता मता ।
चेष्टावद्बोधकत्वं स्याद्यदि संकेतमूलकः ॥
संकेतकर्तृपुरुषाज्ञानं चात्रास्ति बाधकम् ।
इति शब्दार्थसंबन्धनित्यतावादिनो विदुः ॥
ते च मीमांसकाः पूर्वोत्तराः नव्याश्च शाब्दिकाः।
यथात्र वैयाकरणभूषणोक्तं विमृश्यताम् ॥
इन्द्रियाणां स्वविषये ह्यनादिर्योग्यता यथा ।
अनादिरर्थैश्शब्दानां संबन्धो योग्यता तथा ॥
शाब्दधीजनकत्वावच्छेदकत्वेन वीक्षितः ।
स्वीकर्तव्यः पुनः शब्दः सङ्केतेनार्थबोधकः ॥
अर्थधीजनकत्वेन ज्ञातः शब्दस्स्वभावतः ।
बोधकस्स्यादिति मते लाघवं परिदृश्यते ॥
ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा ।
तथैव सर्वशब्दानां द्वे शक्ती अपि ते विदुः ॥
तस्मात्स्वभावसिद्धान्तो वरं समयकल्पनात् ।
अत्र नैयायिकमनोरथतत्त्वं विचिन्त्यताम् ॥
4 नैयायिकाः पुनः प्राहुः शक्तिं सङ्केतलक्षणाम् ।
इच्छा हि किल सङ्केतः नित्योऽनित्योऽपिवाऽस्तु सः
4 मानमेयरहस्यश्लोकवार्तिके
बौद्धा वैशेषिकाश्चैव शब्दमानापलापिनः ।
कथंचिदनुमानान्तर्भावमेते प्रचक्षते ॥
स्वाभाविकस्तु संबन्धश्शक्तिर्यद्युपगम्यते ।
निरुपाधिकसंबन्धो व्याप्तिरेव स निश्चितः ॥
शब्दोऽनुमानमेव स्यादतस्सङ्केत इष्यते ।
अत्र वैदिकसिद्धान्तसमाधिरवगम्यताम् ॥
सङ्केतो वाऽतिरिक्तो वा योऽविनाभावरूपतः ।
ज्ञातश्चेदनुमैव स्यात् न स्यात् ज्ञातः स्वरूपतः ॥
तथात्वप्रतिसंधानाभावेऽप्यनुभवोदयात् ।
शब्दो मानान्तरं तस्मादन्यथा सर्वविप्लवः ॥
अत्र प्राभाकराः प्राहुश्शब्दस्स्याल्लौकिकोऽनुमा ।
वैदिकस्त्वतिरिक्तोऽस्त्वित्येषाऽर्धजरतीयता ॥
सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पण्डितः ।
इति न्यायः स्वीकृतः स्यादिति तत्त्वविदो विदुः ॥
5 शक्तेरस्याः पुनश्शक्यविकल्पोऽप्यवधार्यताम् ।
व्याडी च वैयाकरणः व्यक्तिशब्दार्थवाद्यसौ ॥
वाजप्यायननामा यः जातिशब्दार्थवायसौ ।
6 शक्तिर्जात्याकृतिव्यक्तिष्विति नैयायिका विदुः ॥
जातिव्यक्त्योरेव शक्तिर्गुणकर्माभिधायिनाम् ।
न तयोराकृतिर्यस्मात्प्रतीकव्यूहलक्षणा ॥
शब्दशक्तिवादः 85
आकाशाद्या जातिहीनाः शब्दास्स्युः पारिभाषिकाः
ते शब्दाद्याश्रयतया शाब्दधीहेतवो मताः ॥
यथा न स्याल्लक्ष्यतावच्छेदके लक्षणा तथा ।
शक्यतावच्छेदकेऽपि शक्तिर्नव्यैर्न चेष्यते ॥
7 अथ भाट्टैः शक्तिरेषा जातावेवाभ्युपेयते ।
जातिरेवाकृतिस्तेषां व्यक्तिराक्रियते यया ॥
जातेश्चोपस्थितिः शक्त्या निर्विकल्पकलक्षणा ।
आक्षेपाद्व्यक्तिलाभस्स्यादाक्षेपोऽप्यनुमा मता ॥
स्यादर्थापत्तिरथवा जातिहीनास्तु ये स्वनाः ।
अखण्डोपाधयस्तेषामर्था नित्या हि तन्मताः ॥
8 शक्तिर्जातौ व्यक्तिलाभो लक्षणाधीन इष्यते ।
इति मण्डनसिद्धान्तः गदाधरसुधीरितः ॥
जातेरस्तित्वनास्तित्वे न हि कश्चिद्विवक्षति ।
नित्यत्वाल्लक्ष्यमाणायाः व्यक्तेस्ते हि विशेषणे ॥
इति पद्यं शक्तिवादे मानत्वेन ह्यनूदितम् ।
वाक्याधिकरणे श्लोकवार्तिकेऽपिच दृश्यते ॥
9 व्यक्तेरौपादानिकी स्याद्बुद्धिरित्यपरे विदुः ।
एष श्रीकरसिद्धान्तः शक्तिवादे निरूपितः ॥
यदत्रानुपपत्तेस्तु प्रतिसंधानमुच्यते ।
उपादानं नाम तत्स्यात् सैषार्थापत्तिरन्ततः ॥
86 मानमेयरहस्यश्लोकवार्तिके
10 शक्तिर्जातावेव तत्र शक्तिधीरेव बोधिका
व्यक्तेरिति विदुः प्राभाकराः बोधक्रमस्त्वरम्
व्युत्पत्तितो जातिशक्तिज्ञानाज्जातिप्रकारतः
व्यक्तिस्मृतिः तथैव स्यात् शाब्दधीरिरिति तन्
11 जातिज्ञाने शक्तिरिति जरन्मीमांसकाः वि
ज्ञाने शक्तमिति ज्ञानाच्छाब्दबोधस्तु तन्म
12 गुर्वेकदेशिनः व्यक्तौ कुब्जशक्तिं प्रचक्षते
कुब्जत्वं च स्वरूपेण व्यक्तौ शक्तेस्तु हेतु
प्रतिबन्धं विना पक्षधर्मताशक्तिवैभवात् ।
लिङ्गं लिङ्गिविशेषे तु यथा वै पर्यवस्यति
विनाऽपि संगतिं शक्तिविशेषात्पर्यवस्यति
व्यक्तौ शक्तिरिति प्राहुः कुब्जशक्तिविदो बु
यस्याः कारणता शक्तेः शाब्दबोधे न वि
सा कुब्जा रुचिदत्तस्य मकरन्दकृतो मता
13 सर्वेष्वर्थेषु शक्तास्स्युस्सर्वे शब्दाः स्वभाव
समयान्नियमस्सिद्ध इत्यप्याहुः कुमारिला
सर्वाकारपरिच्छेद्यशक्तेऽर्थे वाचकेऽपिवा ।
सर्वाकारार्थविज्ञानसमर्थे नियमः कृतः ॥
एष सर्वात्म्यसिद्धान्तः नैरात्म्यैकान्तभञ्ज
पदार्थास्तित्वसिद्धान्तवादिनां प्रायशो मत
सादृश्यवादः 8
अन्ये दार्शनिकास्तत्र यंकंचिन्मार्गमाश्रिताः ।
एतावताऽस्तूपरमः बुधा विस्तरभीरवः ॥
(20) सादृश्य वादः.
1 सादृश्यनामकः कश्चित्पदार्थस्सर्ववस्तुगः ।
नानाप्रकारः प्रत्यक्ष इति प्राभाकरा विदुः ॥
तदेव चोपमानस्य प्रमेयमिति कीर्त्यते ।
दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगोचरम् ॥
असन्निकृष्टसादृश्यज्ञानं ह्युपमितिर्मता ।
गवयस्थितसादृश्यदर्शनं करणं मतम् ॥
फलं गोगतसादृश्यज्ञानमित्यभिधीयते ।
वेदार्थनिर्णये तस्य चोपयोगोऽवधार्यताम् ॥
सौर्यवाक्ये तु संदृष्टे चौषधिद्रव्यकत्वतः ।
एकदैवत्यत्वतश्च ह्याग्नेयमुपतिष्ठते ॥
तस्मिंश्चोपमिते तेन तदर्थोऽपि प्रमीयते ।
सौर्येणाग्नेयवद्ब्रह्मवर्चसं भावयेदिति ॥
एवं शास्त्रोपयोगित्वात् प्रमेयत्वात्पृथक्त्वतः ।
सादृश्यं नाम सिद्धोऽस्ति पदार्थः सार्वलौकिकः।
2 कुमारिलस्य सिद्धान्ते सादृश्यं नातिरिच्यते ।
भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥
88 मानमेयरहस्यश्लोकवार्तिकं
एकस्य वस्तुनस्स्वावयवे कर्मणि वा गुणे ।
समवेतैश्च सामान्यैः योगो येन प्रकारतः ॥
तेनैवच प्रकारेण योगो वस्त्वन्तरस्य तत् ।
अतस्संबन्धिसामान्ययोगस्सादृश्यमुच्यते ॥
स च योगोऽनुवृत्त्याख्यः सप्रतिद्वन्द्विलक्षणः ।
सादृश्यमेव सारूप्यं सामान्यं चेति निर्णयः ॥
सदृशावयवत्वं तु यत्र पद्मदळाक्षिवत् ।
तत्स्वावयवसामान्यभूम्ना तेषां भविष्यति ॥
एवं जातिगुणद्रव्यक्रियाशक्तिस्वधर्मतः ।
एकैकद्वित्रिसामस्त्यभेदादेतस्य चित्रता ॥
न धर्मा एव सादृश्यं भूयस्ता वा तदाश्रया ।
भूयस्त्ववद्धि जात्यादि सदृशत्वेन दृश्यते ॥
क्वचिच्च भूयसामेतत् क्वचिदल्पीयसामपि ।
नैतावता विशेषेण वस्तुत्वं तस्य हीयते ॥
सामान्यान्यपि चैतानि नाशीन्याश्रयनाशतः ।
अनन्ताश्रययोगाच्च न नाशोऽन्यत्र विद्यते ॥
तेन सर्वं न सामान्यं नित्यत्वेन प्रकल्प्यते ।
सर्वस्य ह्याश्रयः कश्चित् अस्ति देशान्तरादिषु ।
सदृशावयवत्वं तु यत्र नाम प्रतीयते ।
तदप्यवयवानां स्यात् समानावयवान्तरैः ॥
सादृश्यवादः ८९
रूपगन्धरसानां च कस्यचित्तुल्यता क्वचित् ।
नावश्यं सर्वसामान्यात् सादृश्यमुपजायते ॥
धर्माणां नच नानात्वमस्ति चावान्तरस्थितिः ।
तेन भिन्नमभिन्नं च सादृश्यमिति निर्णयः ॥
सादृश्यं न त्ववस्तु स्यान्नापि तत्त्वान्तरं मतम् ।
किंतु संबन्धिसामान्ययोग इत्यवधारितम् ॥
३ तद्भिन्नत्वे च तन्निष्ठभूयोधर्मानुयोगिता ।
सादृश्यं ते पुनर्धर्माः जातिकर्मगुणादयः ॥
इति वैशेषिकप्राञ्चः नव्यास्तस्यातिरिक्तताम् ।
आहुरेते न सप्तैव पदार्था इति वादिनः ॥
४ सारूप्यमेव सामान्यं तच्च सादृश्यमित्यपि ।
इतिचाकृतिवादे हि सांख्यसिद्धान्त ईरितः ॥
सारूप्यमेव सामान्यं पिण्डानां येन कल्प्यते ।
तेन सारूप्यशब्देन किं पुनः प्रतिपद्यते ॥
समानरूपभावश्चेत् जातिस्साऽस्माभिरिष्यते ।
सादृश्यमथ सारूप्यं कस्य केनेति कथ्यताम् ॥
नचावयवसामान्यैर्विना सादृश्यकल्पना ।
सामान्यप्रत्ययोत्पादो न विशेषेषु जायते ॥
व्यक्तिश्चातिरेकोऽस्य स्यान्न वेति विचारिते ।
सामान्यमेव सादृश्यं भवेद्वा व्यक्तिमात्रकम् ॥
M. R. 12
मानमेयरहस्यश्लोकवार्तिके
तेन नात्यन्तभिन्नोऽर्थः सारूप्यमिति वर्णितम् ।
ग्रन्थे विन्ध्यनिवासेन भ्रान्तेः सादृश्यमुच्यते ॥
इतिचाकृतिवादान्ते सांख्यानां विन्ध्यवासिनाम्
सामान्यमेव सादृश्यं न तत्त्वान्तरकल्पना ॥
तत्त्वतोऽनवगत्यैव त्वर्थं सादृश्यलक्षणम् ।
सामान्यनिह्नवः कैश्चित्कृत इत्युपपादितम् ॥
सारूप्यमेव सामान्यमिति युक्तं न सांख्यवत् ।
विजातीयेषु तद्दृष्टेः गवादिगवयादिषु ॥
इत्याह न्यायमञ्जर्यां शब्दनित्यत्वरूपणे ॥
5 न वस्तुरूपं सादृश्यं वासनामात्रनिर्मितम् ।
प्रतियोगिमतिं यस्मादपेक्ष्यैवावबुद्ध्यते ॥
तज्ज्ञानं च ततः शाक्यैः प्रत्यक्षाभासमिष्यते ।
यतश्च कल्पनाध्यक्षवादिनः ते प्रकीर्तिताः ॥
(21) तमोवादः.
1 तमः खलु चलं नीलं बहुलं विरलं परम् ।
अपरं च महद्दीर्घं ह्रस्वं चेति प्रतीयते ॥
कदाचिदपि कस्यापि नैव बाधोऽत्र दृश्यते ।
प्रभामण्डलवच्चेदं द्रव्यमित्येव वैदिकाः ॥
2 पृथिव्या एव भेदोऽयं तमस्स्यादितिकेचन ।
प्रकृतेरेव भेदस्स्यादिति वेदान्तिनो विदुः ॥
तमोवादः
आलोकेनोत्सारितत्वात् विनष्टत्वादथापिवा ।
अभिभूतत्वतो वाऽपि तन्मध्ये नोपलभ्यते ॥
विषयाच्छादकत्वं तु तमसो नहि युक्तिमत् ।
तमोव्यवहितालोकस्थितनानार्थदर्शनात् ॥
अतो मर्त्यादिदृष्टीनां दृश्यसंबन्धमात्रतः ।
दर्शनप्रतिघातित्वं स्वभावात्तमसि स्थितम् ॥
वायू रूपेण रहितः स्पर्शेन सहितो यथा ।
तथा रूपेण सहितं स्पर्शेन रहितं तमः ॥
३ गुरूणां तु मते तेजोहीनाधिकरणं तमः ।
ग्राहकात्मोपलब्धेश्च नीलरूपस्मृतेरपि ॥
नीलं तम इति ज्ञानं भेदाग्रहनिबन्धनम् ।
आलोकक्रिययैव स्याच्चलतिप्रत्ययोऽपिच ॥
४ तेजोऽभावस्तम इति काणादकिरणावलिः ।
अन्धसाधारणं रूपज्ञानाभावं विदुः परे ॥
आरोपितं निरालोके देशे मालिन्यवत्तले ।
नीलं रूपं तम इति सिद्धान्तः कन्दलीकृतः ॥
५ अणवः सर्वशक्तित्वात् तमश्छायाऽऽतपात्मना ।
अभ्राणीव प्रचीयन्त इति प्राहुरिहार्हताः ॥
६ निरधिष्ठानविज्ञानवादिवैभाषिकादयः ।
केशोण्डुकादिविज्ञानं भ्रम इत्यभिमन्यते ॥
92 मानमेयरहस्यश्लोकवार्तिके
7 भूच्छायादर्शनं लोके तमोदर्शनमुच्यते ।
इत्युक्तवानपि विधिविवेके किल मण्डनः ॥
एवंरूपः तमस्तत्त्वे विकल्पः परिदृश्यते ।
निरूप्यते यथा यच्च तत्तथा व्यवतिष्ठते ॥
(22) कालवादः.
1 सांख्यसौगतचार्वाकैः क्रियते कालनिह्नवः ।
वैशेषिकादयः कालं मन्यन्ते दुरपह्नवम् ॥
अनुमेयं विदुः प्रायः परे दार्शनिकाः पुनः ।
प्रत्यक्षगोचरं प्राहुः इत्थमेषोऽपलप्यते ॥
उपाधिभिर्वा बुद्धिस्थैः तादृग्भिर्वाऽथ बुद्धिभिः ।
व्योमादिभिर्वा विभुभिः कालं निह्नुवते बुधाः ॥
नतावद्गृह्यते कालः प्रत्यक्षेण घटादिवत् ।
चिरक्षिप्रादिबोधोऽपि कार्यमात्रावलम्बनः ॥
नचामुनैव लिङ्गेन कालस्य परिकल्पना ।
प्रतिबन्धो हि दृष्टोऽत्र न धूमज्वलनादिवत् ॥
प्रतिभासातिरेकस्तु कथंचिदुपपत्स्यते ।
प्रचितां कांचिदाश्रित्य क्रियाक्षणपरंपराम् ॥
नचैष ग्रहनक्षत्रपरिस्पन्दस्वभावकः ।
कालः कल्पयितुं युक्तः क्रियातो नापरो ह्यसौ ॥
कालवादः
मुहूर्तयामाहोरात्रमासर्त्वयनवत्सरैः ।
लोके काल्पनिकैरेव व्यवहारो भविष्यति ॥
यदि त्वेको विभुर्नित्यः कालो द्रव्यात्मको मतः
अतीतवर्तमानादिभेदव्यवहृतिः कुतः ॥
तादृक्स्वभावसहितः कालो यद्यतिरिच्यते ।
सिद्धस्यैवहि तादृक्स्वभावोपगमो वरम् ॥
२ अथानुमेयसिद्धान्तः संगृह्यात्र प्रदर्श्यते ।
परापरं चिरं क्षिप्रं युगपत्क्रमिकं त्विति ॥
व्यवहाराः पुनः सूर्यपरिस्पन्दनिबन्धनाः ।
मूतैस्साक्षान्न संसर्गः कर्मणामर्कवर्तिनाम् ॥
क्रियोपनायकः कश्चित्स्यादेवोभयसंयुतः ।
परत्वादौ हेतुरेतत्संयोगोऽसमवाय्यसौ ॥
नाकाशेनान्यथासिद्धिः अविशेषादिगादिभिः ।
दिक्कालाविश्वरान्नव्यैरतिरिक्तौ नचेष्यते ॥
स एवात्रोपनेता स्यादित्येतेषां हृदि स्थितम् ।
अप्रत्यक्षत्वमात्रेण नच कालस्य नास्तिता ॥
युक्ता पृथिव्यधोभागचन्द्रमःपरभागवत् ।
प्रत्यक्षत्वादुपाधीनां प्रत्यभिज्ञादिसंभवः ॥
उपाधयः स्वरूपेण कालाश्चेदनवस्थितिः ।
चिरेणास्तंगतो भानुः शीतांशुः शीघ्रमुद्गतः ॥
उदिताविव दृश्येते युगपद्भौमभार्गवौ ।
इत्यादिव्यवहारेण तदुपाधिगवेषणाम् ॥
ननु त्वत्कल्पितः कालः स्वत एव क्रमात्मकः ।
हेत्वन्तराद्वा प्रथमे कार्याणि न कुतस्स्वतः ॥
द्वितीये त्वनवस्था स्यात् अन्यस्मादित्यपेक्षणात्
मैवं, शुक्लगुणादावप्येवं वक्तुं हि शक्यते ॥
स्वतोऽस्य तत्स्वभावत्वे द्रव्यस्य न कुतस्तथा ।
गुणान्तरस्यापेक्षायामनवस्था प्रसज्यते ॥
स्वतः क्रमाद्यात्मकोऽसौ काल इत्यवधार्यते ।
नाध्वव्यङ्ग्यः काल एषः वर्तमानविलोपतः ॥
३ किंतु क्रियाव्यङ्ग्य इति सौगतेतरपद्धतिः ।
रहस्यं पक्षयोस्तत्र संक्षेपादिह सूच्यते ॥
कालो यदि क्रियाव्यङ्ग्यः क्षणिकत्वं न सिद्ध्यति
क्षणिकास्सर्वसंस्काराः अस्थिराणां कुतः क्रियाः ।
इति सिद्धान्तभङ्गस्स्यात् इति सौगतमानसम् ।
पतितः पतितव्यश्च देशो द्विविध एव हि ॥
४ वर्तमाननिषेधे च भवित्री विश्वनिह्नुतिः ।
न ह्यतीतं भविष्यद्वा प्रत्यक्षविषयोऽस्ति नः ॥
वर्तमानभ्रमश्चात्र तत एव न सिद्ध्यति ।
पौर्वापर्यातिरिक्ता तु दुस्त्यजा वर्तमानता ॥
कालवादः
अतीतागामिधीरेव वर्तमानमतिर्यदि ।
भूतभाविसमस्ताप्त्या न शोकादिसमुद्भवः ॥
पूर्वापरत्वसंभेदे वर्तमानमतिर्यदि ।
त्रिकालस्थेऽपि तत्सिद्धेः क्वातीतागामिता भवेत् ॥
प्रारब्धश्चासमाप्तश्च वर्तमानो य उच्यते ।
व्यापारसमुदायोऽसौ विवक्षितफलावधिः ॥
तत्रापि क्षणभेदेन नष्टत्वादिविकल्पतः ।
वैवक्षिकमिहान्यच्च वर्तमानत्वमक्षतम् ॥
सत्त्वं यद्वर्तमानत्वं कालसंबन्धलक्षणम् ।
तस्य स्वपरनिर्वाहान्नानवस्था प्रसज्यते ॥
मानसंबन्धरूपं तु सत्त्वं सर्वगतं मतम् ।
सत्त्वमित्थमविद्वांसः कालोऽसन्निति बभ्रमुः ॥
विशेषलिङ्गाभावेन तल्लिङ्गस्याविशेषतः ।
एकस्तथा विभुश्चापि सर्वत्र व्यवहारातः ॥
आश्रयानुपलम्भेन निरंशो नित्य एव च ।
द्रव्यं चेति स्वीकृतोऽसाविति वैशेषिकाशयः ॥
5 शैवादिभिः पुनः कालो ह्यनित्योऽव्यापकोऽपि च
हेतुः परिमितं कार्यं प्रतीत्यभ्युपगम्यते ॥
नित्यता सर्वदा सत्ता नहि कालस्य संभवेत् ।
यतः कालान्तरं नास्ति किंतु ध्वंसविहीनता ॥