मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 129, कुल 672 में से
संदर्भ में पढ़ेंसादृश्यवादः 8
अन्ये दार्शनिकास्तत्र यंकंचिन्मार्गमाश्रिताः ।
एतावताऽस्तूपरमः बुधा विस्तरभीरवः ॥
(20) सादृश्य वादः.
1 सादृश्यनामकः कश्चित्पदार्थस्सर्ववस्तुगः ।
नानाप्रकारः प्रत्यक्ष इति प्राभाकरा विदुः ॥
तदेव चोपमानस्य प्रमेयमिति कीर्त्यते ।
दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगोचरम् ॥
असन्निकृष्टसादृश्यज्ञानं ह्युपमितिर्मता ।
गवयस्थितसादृश्यदर्शनं करणं मतम् ॥
फलं गोगतसादृश्यज्ञानमित्यभिधीयते ।
वेदार्थनिर्णये तस्य चोपयोगोऽवधार्यताम् ॥
सौर्यवाक्ये तु संदृष्टे चौषधिद्रव्यकत्वतः ।
एकदैवत्यत्वतश्च ह्याग्नेयमुपतिष्ठते ॥
तस्मिंश्चोपमिते तेन तदर्थोऽपि प्रमीयते ।
सौर्येणाग्नेयवद्ब्रह्मवर्चसं भावयेदिति ॥
एवं शास्त्रोपयोगित्वात् प्रमेयत्वात्पृथक्त्वतः ।
सादृश्यं नाम सिद्धोऽस्ति पदार्थः सार्वलौकिकः।
2 कुमारिलस्य सिद्धान्ते सादृश्यं नातिरिच्यते ।
भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥