मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 120, कुल 672 में से
संदर्भ में पढ़ें78 मानमेयरहस्यश्लोकवार्तिके
5 आत्मन्येव सुखं दुःखमिच्छाद्वेषादिलक्षणम् ।
यत्सम्यग्दर्शनं ज्ञानं चारित्रं चेति तत्रयम् ॥
मोक्षमार्गश्चावरणक्षयोपशमकारणम् ।
श्रद्धा जिनोक्ततत्त्वेषु सम्यग्दर्शनमुच्यते ॥
जायते यन्निसर्गेण गुरोरधिगमेन वा ।
अवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ॥
सर्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते ।
कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा ॥
पूरयन्ति गलन्तीति पुद्गलाः परमाणवः ।
वर्णगन्धरसस्पर्शगुणवद्द्रव्यलक्षणाः ॥
अनन्तदेशे द्रव्येऽस्तिकायशब्दः प्रयुज्यते ।
पञ्चास्तिकायाः कीर्त्यन्ते तेऽन्येऽणोः काललक्षणात्
6 सप्तधा वादिनो दृष्टाः सत्त्वासत्त्वादिनिर्णये ।
सर्वस्यात्राभ्युपगमात् सप्तभङ्गनयस्थितिः ॥
एकस्मिन् वस्तुनि प्रश्नवशेनैवाविरोधतः ।
कल्पना सप्तभङ्गेषा या विधिप्रतिषेधयोः ॥
वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् ।
स्यान्निपातोऽर्थयोगित्वात् तिङन्तप्रतिरूपकः ॥
तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् ।
स्यान्नास्तीति प्रयोगस्स्यात् तन्निषेधे विवक्षिते ॥