मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 121, कुल 672 में से
संदर्भ में पढ़ें[Header] आर्हंतदर्शनम् ७
क्रमेणोभयवीक्षायां प्रयोगस्समुदायवान् ।
युगपत्तद्विवक्षायां स्यादवाच्यमशक्तिः ॥
आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते ।
अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ॥
समुच्चयेन युक्तस्य सप्तमो भङ्ग इष्यते ।
तत्सत्त्वैकत्वनित्यत्वसर्व्वरूपेषु नीयते ॥
सर्वोऽपि धर्मः प्रष्टव्यः सप्तधैव व्यवस्थितः ।
सर्वेऽप्यत्रान्तर्भवन्ति विधयो वेतरेऽपिवा ॥
तृतीयाद्यविवक्षायां अष्टमो भवतीति चेत् ।
द्विःसत्त्वानुपलम्भेन तृतीयात्मक एव सः ॥
तृतीयान्त्याविवक्षाऽपि ह्यसत्त्वाद्यमूलका ।
एवं विनिगमाभावमूलशङ्कानिराकृतिः ॥
प्रमेयाम्बुजमार्ताण्डे विस्तरस्त्ववगम्यताम् ।
प्रमाणनयतत्त्वालोकालंकारेऽपि विस्तृतः ॥
आप्तमीमांसादिसिद्धः संक्षेपादिह दर्शितः ।
विरोधस्य विधूत्यैवापक्षपातीति विश्रुतः ॥
7 अथैतावन्त एवात्र पदार्थाः न परस्त्विति ।
तैस्तैः कथं विनिर्णीतः सिद्धयसिद्धयोरयोगतः ।
मैवं योऽस्त्येष संसिद्धान्न परस्त्विति कीर्तने ।
न दोषोऽस्ति प्रवक्तॄणां विकल्पानवकाशतः ॥